श्रीकर्मचन्द्राचार्याष्टकम्

|| श्रीकर्मचन्द्राचार्याष्टकम् || तारकादिरहस्यानां रहस्यज्ञं च बोधकम् । कर्मचन्द्रमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ १॥ सिंहं वादिगजेन्द्राणां विशिष्टाद्वैतवादिनम् । कर्मचन्द्रमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ २॥ दुराचारापहर्त्तारं सदाचारप्रचारकम् । कर्मचन्द्रमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ३॥ आस्तिक्यत्वविधातारं नास्तिकत्वविनाशकम् । कर्मचन्द्रमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ४॥ रामभक्तिप्रदानेन मुक्तिसौलभ्यकारकम् । कर्मचन्द्रमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ५॥ रामानन्दीयधर्मस्य रक्षितारं च शिक्षकम्…

श्रीकरपात्राष्टकम्

|| श्रीकरपात्राष्टकम् || केचिद् भजन्ति विबुधा हरिमीशितार ञ्चाऽन्ये हरं भवनिदाघहरं श्रयन्ति । धर्माऽऽर्तिखिन्नमनसां समुपासनीयं प्रत्यक्षितं हरिहराद्वयमद्वयन्नः ॥ १॥ सद्राजनीतिनिपुणः किमु विष्णुगुप्तो वाचस्पतिर्निखिलशास्त्रविचक्षणो वा । आहो शुको नु भगवद्गुणगानधन्यो यस्मिन्नितीव समशायि यतिः स वन्द्यः ॥ २॥ यस्याऽवसन्नवरसा रसने सरस्व- त्याभान्ति लेखतनवोऽतनुकीर्तिलेखाः । चेतस्य भूत्सरसिजोदरसौकुमार्यं स्मार्यो न कस्य स वशी शयभाजनार्यः ॥ ३॥ वन्द्यः स योऽकृतकृती सुकृतार्थसंस्थाः…

देवैः कृतं कपिलमुनिस्तोत्रम्

|| देवैः कृतं कपिलमुनिस्तोत्रम् || देवा ऊचुः । नमस्ते योगिने तुभ्यं साङ्ख्ययोगरताय च । नररूपप्रतिच्छन्नजिष्णवे विष्णवे नमः ॥ ८२॥ नमः परेशभक्ताय लोकानुग्रहहेतवे । संसारारण्यदावाग्ने धर्मपालनसेतवे ॥ ८३॥ महते वीतरागाय तुभ्यं भूयो नमो नमः । सागरैः पीडितानस्मांस्त्रायस्व शरणागतान् ॥ ८४॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे अष्टाध्यायान्तर्गतं देवैः कृतं कपिलमुनिस्तोत्रं समाप्तम् ।

औदुम्बरपादुकास्तोत्रम्

|| औदुम्बरपादुकास्तोत्रम् || वन्दे वाङ्मनसातीतं निर्गुणं सगुणं गुरुम् । दत्तमात्रेयमानन्दकन्दं भक्तेष्टपूरकम् ॥ १॥ नमामि सततं दत्तमौदुम्बरनिवासिनम् । यतीन्द्ररूपं च सदा निजानन्दप्रबोधनम् ॥ २॥ कृष्णा यदग्रे भुवनेशानी विद्यानिधिस्तथा । औदुम्बराः कल्पवृक्षाः सर्वतः सुखदाः सदा ॥ ३॥ भक्तवृन्दान्दर्शनतः पुरुषार्थचतुष्टयम् । ददाति भगवान् भूमा सच्चिदानन्दविग्रहः ॥ ४॥ जागर्ति गुप्तरूपेण गोप्ता ध्यानसमाधितः । ब्रह्मवृन्दं ब्रह्मसुखं ददाति समदृष्टितः ॥ ५॥…

आश्रयाष्टकम्

|| आश्रयाष्टकम् || गिरिचरं करुणामृतसागरं परिचरं परमं मृगयापरम् । सुरुचिरं सुचराचरगोचरं हरिहरात्मजमीश्वरमाश्रये ॥ १॥ प्रणतसञ्चयचिन्तित कल्पकं प्रणतमादिगुरुं सुरशिल्पकम् । प्रणवरञ्जित मञ्जुलतल्पकं हरिहरात्मजमीश्वरमाश्रये ॥ २॥ अरिसरोरुहशंखगदाधरं परिघमुद्गरबाणधनुर्धरम् । क्षुरिक तोमर शक्तिलसत्करं हरिहरात्मजमीश्वरमाश्रये ॥ ३॥ विमलमानस सारसभास्करं विपुलवेत्रधरं प्रयशस्करम् । विमतखण्डन चण्डधनुष्करं हरिहरात्मजमीश्वरमाश्रये ॥ ४॥ सकललोक नमस्कृत पादुकं सकृदुपासक सज्जनमोदकम् । सुकृतभक्तजनावन दीक्षकं हरिहरात्मजमीश्वरमाश्रये ॥ ५॥ शरणकीर्तन…

आचार्यपदावलम्बनस्तुतिः

|| आचार्यपदावलम्बनस्तुतिः || ओमित्यशेषविबुधाः शिरसा यदाज्ञां सम्बिभ्रते सुममयीमिव नव्यमालाम् । ओङ्कारजापरतलभ्यपदाब्ज स त्वं श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ १॥ नम्रालिहृत्तिमिरचण्डमयूखमालिन् कम्रस्मितापहृतकुन्दसुधांशुदर्प । सम्राट यदीयदयया प्रभवेद्दरिद्रः श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ २॥ मस्ते दुरक्षरततिर्लिखिता विधात्रा जागर्तु साध्वसलवोऽपि न मेऽस्ति तस्याः । लुम्पामि ते करुणया करुणाम्बुधे तां श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ३॥ शम्पालतासदृशभास्वरदेहयुक्त सम्पादयाम्यखिलशास्त्रधियं कदा वा…

अष्टदिक्पालकस्तोत्रम्

|| अष्टदिक्पालकस्तोत्रम् || श्री इन्द्रस्तुतिः – पूर्व (East) ऐरावतगजारूढं स्वर्णवर्णं किरीटिनम् । सहस्रनयनं शक्रं वज्रपाणिं विभावयेत् ॥ १॥ श्री अग्निस्तुतिः – आग्नेय (Southeast) सप्तार्चिषं च बिभ्राणमक्षमालां कमण्डलुम् । ज्वालमालाकुलं रक्तं शक्तिहस्तं चकासतम् ॥ २॥ श्री यमस्तुतिः – दक्षिण (South) कृतान्तं महिषारूढं दण्डहस्तं भयानकम् । कालपाशधरं कृष्णं ध्यायेत् दक्षिणदिक्पतिम् ॥ ३॥ श्री निरृत्यस्तुतिः – नैरृत्य (Southwest)…

अश्विनीकुमारस्तोत्रम्

|| अश्विनीकुमारस्तोत्रम् || श्रीगणेशाय नमः । प्रपूर्वगौ पूर्वजौ चित्रभानू गिरा वां शंसामि तपसा ह्यनन्तौ । दिव्यौ सुपर्णौ विरजौ विमानावधिक्षिपन्तौ भुवनानि विश्वा ॥ १॥ हिरण्मयौ शकुनी साम्परायौ नासत्यदस्रौ सुनसौ वैजयन्ती । शुक्लं वयन्तौ तरसा सुवेमावधिव्ययन्तावसितं विवस्वतः ॥ २॥ ग्रस्तां सुपर्णस्य बलेन वर्तिकाममुञ्चतावश्विनौ सौभगाय । तावत्सुवृत्ता वनमन्तमाययावसत्तमा गा अरुणा उदावहत् ॥ ३॥ षष्टिश्च गावस्त्रिशताश्च धेनव एकं वत्सं…

अश्वत्थस्तोत्रम्

|| अश्वत्थस्तोत्रम् || श्रीनारद उवाच अनायासेन लोकोऽयम् सर्वान् कामानवाप्नुयात् । सर्वदेवात्मकं चैकं तन्मे ब्रूहि पितामह ॥ १॥ ब्रह्मोवाच – श्रुणु देव मुनेऽश्वत्थं शुद्धं सर्वात्मकं तरुम् । यत्प्रदक्षिणतो लोकः सर्वान् कामान् समश्नुते ॥ २॥ अश्वत्थाद्दक्षिणे रुद्रः पश्चिमे विष्णुरास्थितः । ब्रह्मा चोत्तरदेशस्थः पूर्वेत्विन्द्रादिदेवताः ॥ ३॥ स्कन्धोपस्कन्धपत्रेषु गोविप्रमुनयस्तथा । मूलं वेदाः पयो यज्ञाः संस्थिता मुनिपुङ्गव ॥ ४॥ पूर्वादिदिक्षु…

अवलोकितेश्वराष्टोत्तरशतनामस्तोत्रम्

|| अवलोकितेश्वराष्टोत्तरशतनामस्तोत्रम् || ॐ नमोऽवलोकितेश्वराय । पद्मसत्त्व महापद्म लोकेश्वर महेश्वर । अवलोकितेश धीराग्र्य वज्रधर्म नमोऽस्तु ते ॥ १॥ धर्मराज महाशुद्ध सत्त्वराज महामते । पद्मात्मक महापद्म पद्मनाथ नमोऽस्तु ते ॥ २॥ पद्मोद्भव सुपद्माभ पद्मशुद्ध सुशोधक । वज्रपद्म सुपद्माङ्क पद्मपद्म नमोऽस्तु ते ॥ ३॥ महाविश्व महालोक महाकाय महोपम । महाधीर महावीर महाशौरे नमोऽस्तु ते ॥ ४॥ सत्त्वाशय…

अवलोकितेश्वराष्टकस्तोत्रम्

|| अवलोकितेश्वराष्टकस्तोत्रम् || ॐ नमोऽवलोकितेश्वराय । स्तुत्वा गुणैरनुपमैरनुबिन्दुपात्रं स्तोत्रं मया कृतमिदं जडवालिशेन । लोकेश्वरं गुणनिधिं गुणसागरं च नित्यं नमामि शिरसाञ्जलिसम्पुटेन ॥ १॥ प्राणेषु यन् स्रवति येन रसाम्बुपारान् क्षुत्तृष्णदुःखपरिपीडितसर्वसत्त्वान् । एवंविधं जगदिदं परिपालनाय तस्मै नमोऽस्तु सततं हि यथार्थनाम्ने ॥ २॥ सत्कुङ्कुमात्तमरुणाङ्कसमानवर्णं द्वात्रिंशलक्षणविभूषितगात्रशोभम् । सर्वेषु यस्य करुणामयवत्सलत्वं तस्मै नमामि भवते करुणामयाय ॥ ३॥ संसारसागरमहालयनाशदक्ष एकस्त्वमेव शरणं भुवि…

अवधूताष्टकं स्वामीशुकदेवस्तुतिः च

|| अवधूताष्टकं स्वामीशुकदेवस्तुतिः च || श्री परमात्मने नमः ॥ अथ परमहंस शिरोमणि-अवधूत-श्रीस्वामीशुकदेवस्तुतिः निर्वासनं निराकाङ्क्षं सर्वदोषविवर्जितम् । निरालम्बं निरातङ्कं ह्यवधूतं नमाम्यहम् ॥ १॥ निर्ममं निरहङ्कारं समलोष्टाश्मकाञ्चनम् । समदुःखसुखं धीरं ह्यवधूतं नमाम्यहम् ॥ २॥ अविनाशिनमात्मानं ह्येकं विज्ञाय तत्त्वतः । वीतरागभयक्रोधं ह्यवधूतं नमाम्यहम् ॥ ३॥ नाहं देहो न मे देहो जीवो नाहमहं हि चित् । एवं विज्ञाय सन्तुष्टम्…

श्रीअलखरामाचार्याष्टकम्

|| श्रीअलखरामाचार्याष्टकम् || भृङ्गं भक्तिरसासक्तं रामस्य पादपद्मयोः । नमाम्यलखरामार्यं द्वाराचार्यं जगद्गुरुम् ॥ १॥ रामचन्द्रचकोरं च रामप्रीत्यम्बुचातकम् । नमाम्यलखरामार्यं द्वाराचार्यं जगद्गुरुम् ॥ २॥ रामानन्दोपदेशाब्धिवर्धकं विधुमुत्तमम् । नमाम्यलखरामार्यं द्वाराचार्यं जगद्गुरुम् ॥ ३॥ मन्त्रराजप्रदं प्राज्ञं ब्रह्मविद्याविशारदम् । नमाम्यलखरामार्यं द्वाराचार्यं जगद्गुरुम् ॥ ४॥ योग्यतापादकं पुसां भक्तौ संस्कारपञ्चकात् । नमाम्यलखरामार्यं द्वाराचार्यं जगद्गुरुम् ॥ ५॥ वादिनां च विजेतारमानन्दभाष्यवेदिनम् । नमाम्यलखरामार्यं द्वाराचार्यं…

अय्यपव्रतमाला उद्यापनमन्त्रम्

|| अय्यपव्रतमाला उद्यापनमन्त्रम् || अपूर्वमचलारोह दिव्यदर्शनकारण । शास्त्रमुद्रात्मक देव देहि मे व्रतविमोचनम् ॥ इति य्यपव्रतमाला उद्यापनमन्त्रम् ॥

श्रीमदय्यप्पमुद्रमालाधारणमन्त्रम्

|| श्रीमदय्यप्पमुद्रमालाधारणमन्त्रम् || ज्ञानमुद्रां शास्त्रमुद्रां गुरुमुद्रां नमाम्यहम् । वनमुद्रां शुद्धमुद्रां रुद्रमुद्रां नमाम्यहम् ॥ १॥ शान्तमुद्रां सत्यमुद्रां व्रतमुद्रां नमाम्यहम् । शबर्याश्रमसत्येन मुद्रा पातु सदापि माम् ॥ २॥ गुरुदक्षिणया पूर्वं तस्यानुग्रहकारिणे । शरणागतमुद्राख्यं त्वन्मुद्रां धारयाम्यहम् ॥ ३॥ चिन्मुद्रां खेचरीमुद्रां भद्रमुद्रां नमाम्यहम् । शबर्याचलमुद्रायै नमस्तुभ्यं नमो नमः ॥ ४॥ इति श्रीमदय्यप्पमुद्रमालाधारणमन्त्रं सम्पूर्णम् ।

अभिलाषाष्टकम्

|| अभिलाषाष्टकम् || ॥ अथ अभिलाषाष्टकम् ॥ (शिखरिणी छन्दः) कदा पक्षीन्द्रांसोपरि गतमजं कञ्चनयनम् रमासंश्लिष्टांगं गगनरुचमापीतवसनम् । गदाशंखाम्भोजारिवरमालोक्य सुचिरं गमिष्यत्येतन्मे ननु सफलतां नेत्रयुगलम् ॥ १॥ कदा क्षीराब्ध्यन्तः सुरतरुवनान्तर्मणिमये समासीनं पीठे जलधितनयालिंगिततनुम् । स्तुतं देवैर्नित्यं मुनिवरकदंबैरभिनुतम् स्तवैः सन्तोष्यामि श्रुतिवचनगर्भैः सुरगुरुम् ॥ २॥ कदा मामाभीतं भयजलधितस्तापसतनुं गता रागं गंगातटगिरिगुहावाससहनम् । लपन्तं हे विष्णो सुरवर रमेशेति सततं समभ्येत्योदारं कमलनयनो…

अभयाष्टकम्

|| अभयाष्टकम् || भो ब्रह्मन् रमणेश ! तावकपदाम्भोजद्वये साम्प्रतं विज्ञाप्यं रहसीदमेकमधुना श्रोतव्यमित्यर्थये । अज्ञातं भुवि नाणुमात्रमपि ते सर्वज्ञचूडामणे- र्वक्तव्यं त्वननूदितं ननु नृणां मर्माणि निष्कृन्तति ॥ १॥ भीत्या त्वत्पदपङ्कजे श्रितवतां क्लेशप्रहाणैषिणा- मत्रत्यैरुपचीयमानमनिशं प्रच्छन्नविद्वेषिभिः । दुर्वारप्रसरं भयं रमण ! नः क्षोभप्रदं चेतसः स्वामिन्नाशयमूलतोऽथ वदवाऽभीतिप्रतिज्ञावचः ॥ २॥ संसाराह्वयनाटकस्य च भवान् सत्सूत्रधारायित- स्स्वामिन् मृत्युभिया मृकण्डुसुतवद्भर्गाकृतिं तावकीम् । मूर्तिं भव्यधियो…

श्रीअनुभवानन्दाचार्याष्टकम्

|| श्रीअनुभवानन्दाचार्याष्टकम् || रक्षकं वैष्णवानां च धर्मवारिधिवर्धकम् । नमाम्यनुभवानन्दं द्वाराचार्यं जगद्गुरुम् ॥ १॥ रामानन्दकृतानन्दभाष्याब्जस्य प्रभाकरम् । नमाम्यनुभवानन्दं द्वाराचार्यं जगद्गुरुम् ॥ २॥ भक्तिगङ्गाप्रवाहेण मुक्तिदं लोकपावनम् । नमाम्यनुभवानन्दं द्वाराचार्यं जगद्गुरुम् ॥ ३॥ विशिष्टान्द्वैतवादेन वादिवादापसारकम् । नमाम्यनुभवानन्दं द्वाराचार्यं जगद्गुरुम् ॥ ४॥ सर्वसिद्धिप्रदातारं सिद्धेन्द्रं सिद्धसेवितम् । नमाम्यनुभवानन्दं द्वाराचार्यं जगद्गुरुम् ॥ ५॥ मुद्रोर्ध्वपुण्ड्रमालादे रक्षकं परमं बुधम् । नमाम्यनुभवानन्दं द्वाराचार्यं जगद्गुरुम्…

श्रीअनन्तानन्दाचार्याष्टकम्

|| श्रीअनन्तानन्दाचार्याष्टकम् || रामानन्दाग्रणीशिष्यं श्रीरामानन्दमठेश्वरम् । अनन्तानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ १॥ आनन्दभाष्यतत्त्वज्ञमात्मानात्मेशबोधकम् । अनन्तानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ २॥ ऐहिकामुष्मिकैश्वर्यदातारं भक्तिदानतः । अनन्तानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ ३॥ चन्द्रवत् सम्प्रदायाब्धेर्वर्धकं राममन्त्रदम् । अनन्तानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ ४॥ वादिनां विदुषां चासत्सिद्धानां मानमर्दकम् । अनन्तानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ ५॥ सदाचारोपदेष्टारं सदाचार्यसुरेश्वरम् । अनन्तानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ ६॥ शिष्याणां पञ्चसंस्कारकारकं…

श्री अणु राघवेन्द्रस्तोत्रम्

|| श्री अणु राघवेन्द्रस्तोत्रम् || पूज्याय राघवेन्द्राय सत्यधर्मरताय च । भजतां कल्पवृक्षाय नमतां कामधेनवे ॥ १॥ दुर्वादिध्वान्तरवये वैष्णवेन्दीवरेन्दवे । श्रीराघवेन्द्रगुरवे नमोऽत्यन्तदयालवे ॥ २॥ श्रीसुधीन्द्राब्धिसम्भूतान् राघवेन्द्रकलानिधीन् । सेवे सज्ज्ञानसौख्यार्थं सन्तापत्रयशान्तये ॥ ३॥ (सत्ज्ञान) अघं द्रावयते यस्माद्वेङ्कारो वाञ्छितप्रदः । राघवेन्द्रयतिस्तस्माल्लोके ख्यातो भविष्यति ॥ ४॥ व्यासेन व्युप्तबीजः श्रुतिभुवि भगवत्पादलब्धाङ्कुरश्रीः ब्रध्नैरीषत्प्रभिन्नोऽजनि जयमुनिना सम्यगुद्भिन्नशाखः । मौनीशव्यासराजादुदितकिसलयःपुष्पितोऽयं जयीन्द्रा- दद्य श्रीराघवेन्द्राद्विलसति फलितो…

अग्नेः अष्टोत्तरशतनामस्तोत्रम्

|| अग्नेः अष्टोत्तरशतनामस्तोत्रम् || ॐ श्रीगणेशाय नमः । अथ अग्नेः अष्टोत्तरशतनामस्तोत्रम् । अकारदिक्रमेण अजोऽजरोऽजिरोऽजुर्योऽतन्द्रोऽग्निरद्भुतक्रतुः । अङ्कूयन्नङ्गिरा अर्वन्नुञ्जानः सप्तहोतृभिः ॥ १॥ आश‍ृण्वन्नाशुहेमोऽप्य आसन्नासुर आहुतः । आदित्य आपिराबाध आकूतिराघृणीवसुः ॥ २॥ इधान इद्ध इन्धानो दधत्सहस्रिणीरिषः । ईड्य ईळेन्य ईशान ईषयन्निळ ईळितः ॥ ३॥ उक्थ्य उक्षन्नुक्षमाण उक्षान्नो दिवमुत्पतन् । ऊर्जःपुत्र ऊर्जसन ऊर्ध्व ऊर्जोनपादूशन् ॥ ४॥ ऋजूयमानः पृथिवीमुतद्यामृत ऋत्वियः…

श्री अगस्त्यमहर्षिस्तोत्रम्

|| श्री अगस्त्यमहर्षिस्तोत्रम् || (शार्दूलविक्रीडितवृत्तम्) जीवोद्धारपरायणा सुसरिता कावेरिनामाङिकता यच्छक्तिः सुमहोज्वला सुखघना राराजते क्ष्मातले । वातापील्वलराक्षसावृषिमुनिस्वाध्यायविध्वंसिनौध्वस्तौ येन तपोबलात्तमनघं तं नौम्यगस्त्यं गुरुम् ॥ १॥ सिद्धानामतिशायिशक्तिविभवं सामर्थ्यमूर्तिं गुरुं कन्दर्पोद्धतदुष्टदर्पकरिनुच्छार्दूलकीर्तिप्रभम् । दुष्टारण्यविनाशनैकबलभृद्दावानलं शोभनं वन्दे कुम्भजमद्गुतं भवभयभ्रान्त्यर्णवापोशनम् ॥ २॥ इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरू भगवान श्रीधरस्वामीमहाराजविरचितं श्री अगस्त्यमहर्षिस्तोत्रं सम्पूर्णम् ।

तीर्थस्नानफलप्रदम् श्रीविष्णुस्तोत्रं नरसिंहपुराणे

|| तीर्थस्नानफलप्रदम् श्रीविष्णुस्तोत्रं नरसिंहपुराणे || वागुवाच स्तोत्रेणानेन विप्रेन्द्र स्तुहि नारायणं प्रभुम् । नान्यथा सर्वतीर्थानां फलं प्राप्स्यसि सुव्रत ॥ १॥ मार्कण्डेय उवाच तदेवाख्याहि भगवन् स्तोत्रं तीर्थफलप्रदम् । येन जप्तेन सकलं तीर्थस्नानफलं लभेत् ॥ २॥ वागुवाच जय जय देवदेव जय माधव केशव । जय पद्मपलाशाक्ष जय गोविन्द गोपते ॥ ३॥ जय जय पद्मनाभ जय वैकुण्ठ वामन ।…

शालग्रामस्तोत्रम्

|| शालग्रामस्तोत्रम् || श्रीरामं सह लक्ष्मणं सकरुणं सीतान्वितं सात्त्विकं वैदेहीमुखपद्मलुब्धमधुपं पौलस्त्वसंहारिणम् । वन्दे वन्द्यपदांबुजं सुरवरं भक्तानुकंपाकरं शत्रुघेन हनूमता च भरतेनासेवितं राघवम् ॥ १॥ जयति जनकपुत्री लोकभर्त्री नितान्तं जयति जयति रामः पुण्यपुञ्जस्वरूपः । जयति शुभगराशिर्लक्ष्मणो ज्ञानरूपो जयति किल मनोज्ञा ब्रह्मजाता ह्ययोध्या ॥ २॥ श्री गणेशाय नमः । अस्य श्रीशालग्रामस्तोत्रमन्त्रस्य श्रीभगवान् ऋषिः, नारायणो देवता, अनुष्टुप् छन्दः, श्रीशालग्रामस्तोत्रमन्त्रजपे…

श्रीरङ्गस्तोत्रम्

|| श्रीरङ्गस्तोत्रम् || पद्माधिराजे गरुडाधिराजे विरिञ्चराजे सुरराजराजे । त्रैलोक्यराजेऽखिलराजराजे श्रीरङ्गराजे रमतां मनो मे ॥ १॥ नीलाब्जवर्णे भुजपूर्णकर्णे कर्णान्तनेत्रे कमलाकलत्रे । श्रीमल्लरङ्गे जितमल्लरङ्गे श्रीरङ्गरङ्गे रमतां मनो मे ॥ २॥ लक्ष्मीनिवासे जगतां निवासे हृत्पद्मवासे रविबिम्बवासे । क्षीराब्धिवासे फणिभोगवासे श्रीरङ्गवासे रमतां मनो मे ॥ ३॥ कुबेरलीले जगदेकलीले मन्दारमालाङ्कितचारुफाले । दैत्यान्तकालेऽखिललोकमौले श्रीरङ्गलीले रमतां मनो मे ॥ ४॥ अमोघनिद्रे जगदेकनिद्रे…

सुमङ्गलस्तोत्रम्

|| सुमङ्गलस्तोत्रम् || सुमङ्गलं मङ्गलमीश्वराय ते सुमङ्गलं मङ्गलमच्युताय ते । सुमङ्गलं मङ्गलमन्तरात्मने सुमङ्गलं मङ्गलमब्जनाभ ते ॥ सुमङ्गलं श्रीनिलयोरुवक्षसे सुमङ्गलं पद्मभवादिसेविते । सुमङ्गलं पद्मजगन्निवासिने सुमङ्गलं चाश्रितमुक्तिदायिने ॥ चाणूरदर्पघ्नसुबाहुदण्डयोः सुमङ्गलं मङ्गलमादिपूरुष । बालार्ककोटिप्रतिमाय ते विभो चक्राय दैत्येन्द्रविनाशहेतवे ॥ शङ्खाय कोटिन्दुसमानतेजसे शार्ङ्गाय रत्नोज्ज्वलदिव्यरूपिणे । खड्गाय विद्यामयविग्रहाय ते सुमङ्गलं मङ्गलमस्तु ते विभो ॥ तदावयोस्तत्त्व विशिष्टशेषिणे शेषित्वसम्बन्धनिबोधनाय ते । यन्मङ्गलानां…

श्रीसुन्दरभक्तस्तुतिः

|| श्रीसुन्दरभक्तस्तुतिः || गौरीशप्रतिबिम्बमद्भुततनुं चाष्टादशाब्दाकृतिं श्रीजम्बूपुरजन्मभाजमनिशं त्यागेशसेवापरम् । गानैर्ग्राहविमुक्तबालजनकानन्दप्रदं वाग्मिनं वन्दे सुन्दरमूर्तिमीशसुहृदं कैलासवासं सदा ॥ १॥ शैवब्राह्मणवंशजः शिवपरब्रह्मानुबिम्बात्मना जातो भूगतशाम्भवस्थलवरानेकानटन् सूक्तिभिः । स्तावं स्तावममर्त्यगीतविभवोऽमर्त्यात्मनैरावतं ह्यारूढो रजताद्रिश‍ृङ्गमगमत् श्रीसुन्दरः सेव्यताम् ॥ २॥ इति श्रीसुन्दरभक्तस्तुतिः समाप्ता ।

श्रीहाटकेश्वराष्टकम्

|| श्रीहाटकेश्वराष्टकम् || जटातटान्तरोलसत्सुरापगोर्मिभास्वरं ललाटनेत्रमिन्दुनाविराजमानशेखरम् । लसद्विभूतिभूषितं फणीन्द्रहारमीश्वरं नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ १॥ पुरान्धकादिदाहकं मनोभवप्रदाहकं महाधराशिनाशकमभीप्सितार्थदायकम् । जगत्त्रयैककारकं विभाकरं विदारकं नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ २॥ मदीय मानसस्थले सदास्तु ते पदद्वयं मदीय वक्त्रपङ्कजे शिवेति चाक्षरद्वयम् । मदीय लोचनाग्रतः सदार्धचन्द्रविग्रहं नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ ३॥ भजन्ति हाटकेश्वरं सुभक्तिभावतोत्रये भवन्ति हाटकेश्वरः प्रमाणमात्र नागरः । धनेन…

हृदयबोधनस्तोत्रम्

|| हृदयबोधनस्तोत्रम् || श्रीगणेशाय नमः ॥ हृदय सदा स्मर परमवितारं हैमवतीकमितारम् । विषयभ्रमणं विश्रमविधुरं व्यर्थं मास्म कृथास्त्वम् । आधिव्याधिशताकुलमनिभृतसुखलोभाहितविविधक्लेशम् । आयुश्चञ्चलकमलदलाञ्चलगतजलबिन्दुसदृशक्षेमम् । अशुचिनिकायेऽवश्यविनाशिनि काये बालिशममता काऽये नियतापायी न चिरस्थायी भोगोऽप्यसुभगपर्यवसायी ॥ १॥ आन्तररिपुवशमशिवोदर्कं पीतवितर्कं विशसि वृथा त्वं किं तव लब्धं तत्प्रेरणया सन्ततविषयभ्रान्त्येयत्या । सङ्कटसङ्घविदारणनिपुणे शङ्करचरणे किङ्करशरणे सङ्घटय रतिं सङ्कलय धृतिं सफलय निभृतं जनिलाभं च ॥…

श्रीसोमसुन्दरस्तुतिः

|| श्रीसोमसुन्दरस्तुतिः || इन्द्रः एकं ब्रह्माद्वितीयञ्च परिपूर्णं परापरम् । इति यो गीयते वेदैस्तं वन्दे सोमसुन्दरम् ॥ १॥ ज्ञातृज्ञानज्ञेयरूपं विश्वं व्याप्यं व्यवस्थितम् । स्वयं सर्वैरदृश्यो यस्तं वन्दे सोमसुन्दरम् ॥ २॥ अश्वमेधादियज्ञैश्च यस्समाराध्यते द्विजैः । ददाति च फलं तेषां तं वन्दे सोमसुन्दरम् ॥ ३॥ यं विदित्वा बुधास्सर्वे कर्मबन्धविवर्जिताः । लभन्ते परमां मुक्तिं तं वन्दे सोमसुन्दरम् ॥ ४॥…

नन्दिकेशप्रोक्ता सोमनाथशिवस्तुतिः

|| नन्दिकेशप्रोक्ता सोमनाथशिवस्तुतिः || (शिवगौरीसंवादे) नन्दिः कुण्डलीशकृतकुण्डल शम्भो खण्डिताखिलसुरद्रुमषण्ड । ब्रह्ममुण्डकलितामलमाल स्थूललिङ्गगणमण्डलसंस्थ ॥ १॥ नवचन्द्राभरणोत्तमाङ्ग गङ्गाकलितालकभूधरोरुमाल । धृतहालाहलकण्ठमूल बाहुस्फुरदुत्तप्तशिलाविधूतशूल ॥ २॥ अलिङ्गलिङ्गं शशिलिङ्गसंस्थापक शलिङ्गं जगदेकलिङ्गम् । हृत्कोशजाकाशविकासिलिङ्गं सुखैकलिङ्गं प्रणमामि लिङ्गम् ॥ ३॥ फलम् इत्थं संस्तुत्य नन्दीशः कैलासं गणपैर्ययौ । गणेन्द्रास्तुष्टुवः शम्भुं सोमनाथं मुदा तदा ॥ ४॥ वयं सोमवारव्रते तेऽद्य निष्ठा वसिष्ठाद्विशिष्टास्ततस्त्वत्पदाब्जे । (यतः) महाभस्म रुद्राक्षमालां…

आदित्य हृदयम्

|| आदित्य हृदयम् || ध्यानम् नमस्सवित्रे जगदेक चक्षुसे जगत्प्रसूति स्थिति नाशहेतवे त्रयीमयाय त्रिगुणात्म धारिणे विरिञ्चि नारायण शङ्करात्मने ततो युद्ध परिश्रान्तं समरे चिन्तयास्थितम् । रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥ 1 ॥ दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् । उपागम्याब्रवीद्रामं अगस्त्यो भगवान् ऋषिः ॥ 2 ॥ राम राम महाबाहो शृणु गुह्यं सनातनम् । येन सर्वानरीन् वत्स समरे विजयिष्यसि…

विश्वमूर्तिस्तोत्रम् अथवा विश्वमूर्त्यष्टकस्तोत्रम्

|| विश्वमूर्तिस्तोत्रम् अथवा विश्वमूर्त्यष्टकस्तोत्रम् || श्रीगणेशाय नमः ॥ अकारणायाखिलकारणाय नमो महाकारणकारणाय । नमोऽस्तु कालानललोचनाय कृतागसं मामव विश्वमूर्ते ॥ १॥ नमोऽस्त्वहीनाभरणाय नित्यं नमः पशूनां पतये मृडाय । वेदान्तवेद्याय नमो नमस्ते कृतागसं मामव विश्वमूर्ते ॥ २॥ नमोऽस्तु भक्तेहितदानदात्रे सर्वौषधीनां पतये नमोऽस्तु । ब्रह्मण्यदेवाय नमो नमस्ते कृतागसं मामव विश्वमूर्ते ॥ ३॥ कालाय कालानलसन्निभाय हिरण्यगर्भाय नमो नमस्ते । हालाहलादाय…

विश्वनाथाष्टकम्

|| विश्वनाथाष्टकम् || गङ्गातरंगरमणीयजटाकलापं गौरीनिरन्तरविभूषितवामभागम् । नारायणप्रियमनंगमदापहारं वाराणसीपुरपतिं भज विश्वनाथम् ॥ १॥ वाचामगोचरमनेकगुणस्वरूपं वागीशविष्णुसुरसेवितपादपीठम् । वामेनविग्रहवरेणकलत्रवन्तं वाराणसीपुरपतिं भज विश्वनाथम् ॥ २॥ भूताधिपं भुजगभूषणभूषितांगं व्याघ्राजिनांबरधरं जटिलं त्रिनेत्रम् । पाशांकुशाभयवरप्रदशूलपाणिं वाराणसीपुरपतिं भज विश्वनाथम् ॥ ३॥ शीतांशुशोभितकिरीटविराजमानं भालेक्षणानलविशोषितपंचबाणम् । नागाधिपारचितभासुरकर्णपूरं वाराणसीपुरपतिं भज विश्वनाथम् ॥ ४॥ पंचाननं दुरितमत्तमतङ्गजानां नागान्तकं दनुजपुंगवपन्नगानाम् । दावानलं मरणशोकजराटवीनां वाराणसीपुरपतिं भज विश्वनाथम् ॥ ५॥ तेजोमयं…

विश्वनाथनगरीस्तोत्रम् अथवा काश्यष्टकम्

|| विश्वनाथनगरीस्तोत्रम् अथवा काश्यष्टकम् || श्रीगणेशाय नमः ॥ स्वर्गतः सुखकरी दिवौकसां शैलराजतनयाऽतिवल्लभा । ढुण्ढिभैरवविदारितविघ्ना विश्वनाथनगरी गरीयसी ॥ १॥ यत्र देहपतनेन देहिनां मुक्तिरेव भवतीति निश्चितम् । पूर्वपुण्यनिचयेन लभ्यते विश्वनाथनगरी गरीयसी ॥ २॥ सर्वदाऽमरगणैश्च वन्दिता या गजेन्द्रमुखवारितविघ्ना । (सर्वदा ह्यमरवृन्दवन्दिता) कालभैरवकृतैकशासना विश्वनाथनगरी गरीयसी ॥ ३॥ यत्र तीर्थममलां मणिकर्णिका सा सदाशिवसुखप्रदायिनी । या शिवेन रचिता निजायुधैर्विश्वनाथनगरी गरीयसी ॥…

श्रीविश्वमङ्गलं श्रीवामदेवकवचम्

|| श्रीविश्वमङ्गलं श्रीवामदेवकवचम् || ॐ श्रीगणेशाय नमः । ॐ श्रीदेव्यै सदासुफलदायिन्यै नमः । श्रीभैरव उवाच अथ वक्ष्यामि देवेशि कवचं मन्त्रगर्भकम् । मूलमन्त्रस्वरूपं च विश्वमङ्गलकाभिधम् ॥ १॥ सर्वसम्पत्प्रदं चैव वामदेवस्य पार्वति । गुह्यातिगुह्यं परमं मूलविद्यामयं ध्रुवम् ॥ २॥ परमार्थप्रदं नित्यं भोगमोक्षैककारणम् । महाभयहरं देवि महैश्वर्यप्रदं शिवे ॥ ३॥ कवचस्यास्य देवेशि ऋषिर्भैरव ईरितः । अनुष्टुप्छन्द इत्युक्तं वामदेवश्च…

वरदानदीतत्तीरस्थमधुकेश्वरस्तुतिः

|| वरदानदीतत्तीरस्थमधुकेश्वरस्तुतिः || वरदानपरा मनोहरा वरदारिद्र्यहरा सदादरा । वरदाख्यनदीविशुद्धये वरदा मेऽस्त्वपि मुक्तिसिद्धये ॥ १॥ कृष्णासखी या तुङ्गभद्रया कृष्णां गता कृष्णातनुं सुभद्रया । सैषा धुनीयं वरदाह्वयाऽभया भयानकाल्पातु रिपोरघाह्वयात् ॥ २॥ यत्तीरे विहिताः सवाश्च मुनिभिः प्राज्ञैर्वसिष्ठादिभि- र्यन्नीरेक्षणतोऽप्यशुद्धमतिभिर्लब्धा गतिः पापिभिः । सेयं सद्गतिदाख्ययापि वरदा श्रेयस्तपोवृद्धिदा मन्दानामपि पारदास्तु वरदा मोदास्पदा नः सदा ॥ ३॥ जयन्त्याख्या शुभा तस्या वरीवर्ति तटे…

श्रीलिङ्गपञ्चविंशतिस्तोत्रम्

|| श्रीलिङ्गपञ्चविंशतिस्तोत्रम् || श्रीमत्परमशिवामृतलिङ्गं श्रीपतिदीन(द्रुहिण)विलोकनलिङ्गम् । सृष्टिस्थितिलयकारणलिङ्गं तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ १॥ श्रीगिरिजापरमाद्भुतलिङ्गं श्रितजनतासंरक्षणलिङ्गम् । श‍ृङ्गाराङ्गमखान्तकलिङ्गं तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ २॥ अखिलजगद्धितमनुपमलिङ्गं सकलसुरासुरसेवितलिङ्गम् । अकलङ्कमल (अकलङ्कं च) जटाधरलिङ्गं तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ ३॥ रविशशिबाडबलोचनलिङ्गं रमणीयाण्डजकुण्डललिङ्गम् । रतिपत्यङ्गविभङ्गसुलिङ्गं तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ ४॥ हरिहयमणिनिभकन्धरलिङ्गं हरिनन्दनगर्वान्तकलिङ्गम् । हरमद्भुतमतिनिर्मललिङ्गं तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ ५॥ अधिकसमानविवर्जितलिङ्गं मधुरमनोज्ञसुभाषणलिङ्गम् । विधिचापापविवर्जितलिङ्गं(?)…

रुद्रविभूतिस्तोत्रम्

|| रुद्रविभूतिस्तोत्रम् || नमः शिवाय रुद्राय कद्रुद्राय प्रचेतसे । मीढुष्टमाय सर्वाय शिपिविष्टायरंहसे ॥ १॥ नमस्ते कालकालाय नमस्ते रुद्र मन्यवे । नमः शिवाय रुद्राय शङ्कराय शिवाय ते ॥ २॥ उग्रोऽसि सर्वभूतानां नियन्तासि शिवोऽसि नः । नमः शिवाय शर्वाय शङ्करायार्तिहारिणे ॥ ३॥ ग्रहाधिपत्ये भगवानभ्यषिञ्चद्दिवाकरम् । वृक्षाणां ओषधीनां च सोमं ब्रह्मा प्रजापतिः ॥ ४॥ अपां च वरुणं देवं…

रुद्रमृत्युञ्जयस्तोत्रम्

|| रुद्रमृत्युञ्जयस्तोत्रम् || अथाष्टचत्त्वारिंशः पटलः आनन्दभैरव उवाच । श्रुतं च साधनं पुण्यं महारुद्रस्य सुन्दरि । मणिपूरे प्रकाशञ्च कथितं ज्ञाननिर्णयम् ॥ १॥ अकस्मात् सिद्धिसम्पत्तिं नुतिं वद महाप्रियाम् । यस्य श्रवणमात्रेण पाठेन योगिनीवशम् ॥ २॥ श्रीआनन्दभैरवी उवाच । परमानन्ददेवेश योगानामधिप प्रभो । स्तोत्रं रुद्रस्य वक्ष्यामि सारात्सारं परात्परम् ॥ ३॥ यज्ज्ञात्वा योगिनः सर्वे षट्चक्रपरिभेदकाः । आकाशगामिनः सर्वेर्स्वगमोक्षाभिलाषुकाः ॥…

श्रीमहेश्वरप्रातःस्मरणं एवं पञ्चरत्नस्तोत्रम्

|| श्रीमहेश्वरप्रातःस्मरणं एवं पञ्चरत्नस्तोत्रम् || प्रातः स्मरामि परमेश्वरवक्त्रपद्मं फालाक्षलोलपरिशोषितपञ्चबाणम् । (फालाक्षि कील) भस्मत्रिपुण्ड्ररचितं फणिकुण्डलाढ्यं कुन्देन्दुचन्दनसुधारसमन्दहासम् ॥ १॥ प्रातर्भजामि परमेश्वरबाहुदण्डान् खट्वाङगशूलहरिणाहिपिनाकयुक्तान् । (हरिणाः पिनाकरुक्तान्) गौरीकपोलकुचरञ्जितपुत्ररेखान् (पत्ररेखान्) सौवर्णकङ्कणमणिद्युतिभासमानान् ॥ २॥ (भासमानाम्) प्रातर्नमामि परमेश्वरपादपद्मं पद्मोद्भवामरमुनीन्द्रमनोनिवासम् । पद्माक्षनेत्रसरसीरुहपूजनीयं पद्माङ्कुशध्वजविसेवित लाञ्छनाढ्यम् ॥ ३॥ (पद्माङ्कुशध्वज सरोरुह) प्रातः स्मरामि परमेश्वरपुण्यमूर्तिं कर्पूरकुन्दधवलं गजचर्मचेलम् । गङ्गाधरं कनकमर्दविभासमानं (घनकपर्दि) कात्यायनीतनुविभूषितवामभागम् ॥ ४॥ प्रातः स्मरामि परमेश्वरपुण्यनाम…

महाकालकृता महेश्वरतुष्टिकरणस्तुतिः

|| महाकालकृता महेश्वरतुष्टिकरणस्तुतिः || महाकालः हर हर दुरितानि दीनबन्धो पुरहर पाहि दयाकटाक्षलेशैः । सुरहरशर हारकाकोदरनद्धामरण प्रसीद शम्भो ॥ १॥ तपनदहन पद्मजातमित्र प्रतिकृतिभूतमभूतवर्ग । मधुमथनाक्षिपूज्यपादपद्य प्रमथसनाथ महेश पाहि शम्भो ॥ २॥ मत्तानन्दकरीन्द्रदारणपटुं पञ्चास्यपञ्चाननं गङ्गातुङ्गतरङ्गसङ्गतमहामौली पिशङ्गायितम् । श‍ृङ्गासङ्ग्रहरं कुरङ्गसङ्गविलसत्पाणिप्रभामण्डलं तुङ्गातीरपतङ्गसोदरमहामूलस्थलिङ्गाकृतिम् ॥ ३॥ हिरण्यैकबाहुं हिरण्यैकरूपं हिरण्यैकवर्णं हिरण्यादिदेवम् । हिरण्याख्ययोर्हर्तृहन्तारमीशं हिरण्याचलावासकन्यासमेतम् ॥ ४॥ गम्भीरसागरनिषङ्गपिनाकपाणिं सोमाग्निविष्णुशरकृत्तपुरादिवर्गम् । क्ष्मास्यन्दनान्तरगतं शशिसूर्यचक्रं वेदाश्वसारथिविधिं…

श्रीमहालिङ्गस्तुतिः

|| श्रीमहालिङ्गस्तुतिः || ‘ अनादिमलसंसार रोगवैद्याय शम्भवे । नमश्शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ १॥ आदिमध्यान्तहीनाय स्वभावानलदीप्तये । नमश्शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ २॥ प्रलयार्णवसंस्थाय प्रलयोत्पत्तिहेतवे । नमश्शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ३॥ ज्वालामालावृताङ्गाय ज्वलनस्तम्भरूपिणे । नमश्शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ४॥ महादेवाय महते ज्योतिषेऽनन्ततेजसे । नमश्शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ५॥ प्रधानपुरुषेशाय व्योमरूपाय वेधसे ।…

महारुद्रस्तोत्रम्

|| महारुद्रस्तोत्रम् || श्रीगणेशाय नमः । वाण्या ॐङ्काररूपिण्या अन्त उक्तोऽस्य नान्यथा । सुरस्त्रिभुवनेशः स नः सर्वान्तःस्थितोऽवतु ॥ १॥ देवोऽयं सर्वदेवाद्यः सूरिरुन्मत्तवत्स्थितः । वाहो बलीवर्दकोऽस्य याञ्चकस्येष्टदः स तु ॥ २॥ नन्दिस्कन्धाधिरूढोऽपि त्रिप्रमित्यतिगः स्वभूः । दशा यस्य न शम्भुं तं सन्तं वन्देऽखिलात्मकम् ॥ ३॥ सद्योजातोऽष्टमूर्तिः स भूतवन्दिस्तुतो जितः । रक्ष मन्मथहन्नाथ तोकधर्माणमद्य माम् ॥ ४॥ स्वतो हेतोर्जगद्धेतो…

महामृत्युञ्जयाष्टकम्

|| महामृत्युञ्जयाष्टकम् || ॐ मृत्युञ्जय ! परेशान जगदामयनाशन ! । तव ध्यानेन देवेश ! मृत्युं प्राप्तोऽपि जीवति ॥ १॥ पञ्चास्यदोर्द्दण्डदशाङ्घ्रिनेमदिनेशभालेन्दुयुतं गणेशैः । वामाङ्गसंस्थागिरिजासमेतं वन्दे महामृत्युविनाशरूपम् ॥ २॥ देवं मृत्युविनाशनं भयहरं साम्राज्यमुक्तिप्रदं नानाभूतगणान्वितं दिवि पदैर्देवैः सदा सेवितम् । अज्ञानान्धकनाशनं शुभकरं विद्यासुसौख्यप्रदं सर्वं सर्वपतिं महेश्वरहरं मृत्युञ्जयं भावये ॥ ३॥ वन्दे ईशानदेवाय नमस्तस्मै पिनाकिने । आदिमध्यान्तरूपाय मृत्युनाशं करोतु…

महामृत्युञ्जयमालामन्त्रः

|| महामृत्युञ्जयमालामन्त्रः || ध्यानम् ध्यायेन्मृत्युञ्जयं साम्बं नीलकण्ठं चतुर्भुजम् । चन्द्रकोटिप्रतीकाशं पूर्णचन्द्रनिभाननम् ॥ १॥ बिम्बाधरं विशालाक्षं चन्द्रालङ्कृतमस्तकम् । अक्षमालाम्बरधरं वरदं चाभयप्रदम् ॥ २॥ महार्हकुण्डलाभूषं हारालङ्कृतवक्षसम् । भस्मोद्धूलितसर्वाङ्गं भालनेत्रविराजितम् ॥ ३॥ व्याघ्रचर्मपरीधानं व्यालयज्ञोपवीतिनम् । पार्वत्या सहितं देवं सर्वाभीष्टवरप्रदम् ॥ ४॥ १. ॐ हां हौं नं मं शिं वं यं हौं हाम् । ॐ श्लीं पं शुं हुं…

श्रीमहाबलेशाष्टकम्

|| श्रीमहाबलेशाष्टकम् || विशालकरुणं विभुं तरुणचन्द्र सद्भूषणं धराधरसुतापतिं तरुणचन्द्रकोटिप्रभम् । मनोरथविवर्धनं दुरितवर्गविध्वंसनं महाबलशिवं भजे महितसर्वकल्याणदम् ॥ १॥ समाहितमनोनुतं शमितदैत्यदम्भं प्रभुं भवार्णवविशोषणं विहितभक्तसन्तोषणम् । चराचरसुमन्दिरं विधृतबालचन्द्रं शिवं नमामि गिरिजापतिं नलिननेत्रमित्रं परम् ॥ २॥ पराभवविवर्जितं जय जयेति देवैर्नुतं नमामि जगतां गुरुं जननमृत्युदूरं हरम् । जनार्दनसहोदरीनयनपद्मभानूपमं पुराणपुरुषार्चितं शरणलोकसंरक्षकम् ॥ ३॥ दुराचरणभीषणं दुरितवर्गसंहारिणं महागिरिवराश्रयं मुनिवरेण्यसंसेवितम् । हिरण्यनिधिदायकं करुणयैव संरक्षकं…

श्रीमहादेवाष्टकम्

|| श्रीमहादेवाष्टकम् || मोक्षलक्ष्मीगृहद्वारकवाटोद्धाटनध्वनिः । महादेव महादेव महादेवेत्ययं ध्वनिः ॥ १॥ वैवस्वतमहाराजमौलिसङ्कुट्टनध्वनिः । महादेव महादेव महादेवेत्ययं ध्वनिः ॥ २॥ कैलासनगरद्वारमहाघण्टारवध्वनिः । महादेव महादेव महादेवेत्ययं ध्वनिः ॥ ३॥ महापातकमत्तेभत्रासकण्ठीरवध्वनिः । महादेव महादेव महादेवेत्ययं ध्वनिः ॥ ४॥ महेश्वरमहोक्षस्य घण्टाघणघणध्वनिः । महादेव महादेव महादेवेत्ययं ध्वनिः ॥ ५॥ मुक्त्यङ्गनाकरस्पर्शविवाहपटहध्वनिः । महादेव महादेव महादेवेत्ययं ध्वनिः ॥ ६॥ मत्सेवनासमायातजयश्रीदुन्दुभिध्वनिः । महादेव…

Join WhatsApp Channel Download App