विनय पचासा

|| Banke Bihari Chalisa (Vinay Pachasa) || ॥ दोहा ॥ बांकी चितवन कटि लचक, बांके चरन रसाल। स्वामी श्री हरिदास के बांके बिहारी लाल॥ ॥ चौपाई ॥ जै जै जै श्री बाँकेबिहारी, हम आये हैं शरण तिहारी। स्वामी श्री हरिदास के प्यारे, भक्तजनन के नित रखवारे। श्याम स्वरूप मधुर मुसिकाते, बड़े-बड़े नैन नेह बरसाते। पटका पाग…

राम अवतार स्तोत्र

|| Ram Avtar Stotram || भये प्रगट कृपाला, दीनदयाला कौसल्या हितकारी हरषित महतारी, मुनि मनहारी अद्भुत रूप बिचारी लोचन अभिरामा, तनु घनस्यामा, निज आयुध भुज चारी भूषन वनमाला, नयन बिसाला, सोभासिंधु खरारी कह दुइ कर जोरी, अस्तुति तोरी, केहित बिधि करूं अनंता माया गुन ग्यानातीत अमाना, वेद पुरान भनंता करुना सुख सागर, सब गुन आगर,…

श्रीनटेश्वर भुजंग स्तुति

|| श्रीनटेश्वर भुजंग स्तुति || श्रीज्ञानसम्बन्धकृता लोकानाहूय सर्वान् डमरुकनिनदैर्घोरसंसारमग्नान् दत्वाऽभीतिं दयालुः प्रणतभयहरं कुञ्चितं वामपादम् । उद्धृत्येदं विमुक्तेरयनमिति कराद्दर्शयन् प्रत्ययार्थं बिभ्रद्वह्निं सभायां कलयति नटनं यः स पायान्नटेशः ॥ १॥ दिगीशादिवन्द्यं गिरीशानचापं मुरारातिबाणं पुरत्रासहासम् । करीन्द्रादिचर्माम्बरं वेदवेद्यं महेशं सभेशं भजेऽहं नटेशम् ॥ २॥ समस्तैश्च भूतैस्सदा नम्यमाद्यं समस्तैकबन्धुं मनोदूरमेकम् । अपस्मारनिघ्नं परं निर्विकारं महेशं सभेशं भजेऽहं नटेशम् ॥…

देवी भुजंग स्तोत्रम्

|| देवी भुजंग स्तोत्रम् || ॥ अथ देवीभुजंगस्तोत्रम् ॥ विरिञ्च्यादिभिः पञ्चभिर्लोकपालैः समूढे महानन्दपीठे निषण्णम् । धनुर्बाणपाशाङ्कुशप्रोतहस्तं महस्त्रैपुरं शंकराद्वैतमव्यात् ॥ १॥ यदन्नादिभिः पञ्चभिः कोशजालैः शिरःपक्षपुच्छात्मकैरन्तरन्तः । निगूढे महायोगपीठे निषण्णं पुरारेरथान्तःपुरं नौमि नित्यम् ॥ २॥ विरिञ्चादिरूपैः प्रपञ्चे विहृत्य स्वतन्त्रा यदा स्वात्मविश्रान्तिरेषा । तदा मानमातृप्रमेयातिरिक्तं परानन्दमीडे भवानि त्वदीयम् ॥ ३॥ विनोदाय चैतन्यमेकं विभज्य द्विधा देवि जीवः शिवश्रेति नाम्ना…

श्रीचन्द्रशेखरगुरु भुजंग स्तोत्रम्

|| श्रीचन्द्रशेखरगुरु भुजंग स्तोत्रम् || क्षितौ वेगवत्यास्तटे काञ्चिमध्ये महापुण्यदेशे सुसूक्ष्मं ज्वलन्तम् । नमत्सूरिवृन्दं चिदानन्दकन्दं भजे कामकोटीगुरुं योगिवर्यम् ॥ १॥ सुधास्यन्दिवक्त्रं कृपास्यन्दिनेत्रं समस्तार्तबन्धुं मुदा पूर्णसिन्धुम् । सदा दिव्यदृष्ट्या स्वभक्तानवन्तं भजे कामकोटीगुरुं योगिवर्यम् ॥ २॥ गले रक्तहारं मुखे चारुहासं करे वेणुदण्डं ललाटे त्रिपुण्ड्रम् । नतानां जनानां भवध्वंसहेतुं भजे कामकोटीगुरुं योगिवर्यम् ॥ ३॥ तमः क्लेश मूलोपघाते समर्थं पृथिव्यां…

श्रीराम भुजंग स्तोत्र

|| श्रीराम भुजंग स्तोत्र || विशुद्धं परं सच्चिदानन्दरूपम् गुणाधारमाधारहीनं वरेण्यम् । महान्तं विभान्तं गुहान्तं गुणान्तं सुखान्तं स्वयं धाम रामं प्रपद्ये ॥ १ ॥ शिवं नित्यमेकं विभुं तारकाख्यं सुखाकारमाकारशून्यं सुमान्यम् । महेशं कलेशं सुरेशं परेशं नरेशं निरीशं महीशं प्रपद्ये ॥ २ ॥ शिवाय विष्णुरूपाय शिवरूपाय विष्णवे । शिवस्य हृदयम् विश्णु विष्णोश्च हृदयम् शिवः ॥ यदावर्णयत्कर्णमूलेऽन्तकाले शिवो…

शास्तृ भुजंग स्तोत्रम्

|| शास्तृ भुजंग स्तोत्रम् || श्रितानन्दचिन्तामणिश्रीनिवासं सदा सच्चिदानन्दपूर्णप्रकाशम् । उदारं सदारं सुराधारमीशं परं ज्योतिरूपं भजे भूतनाथम् ॥ १॥ विभुं वेदवेदान्तवेद्यं वरिष्ठं विभूतिप्रदं विश्रुतं ब्रह्मनिष्ठम् । विभास्वत्प्रभावप्रभं पुष्कलेषुं परं ज्योतिरूपं भजे भूतनाथम् ॥ २॥ परित्राणदक्षं परब्रह्मसूत्रं स्फुरच्चारुगात्रं भवध्वान्तमित्रम् । परं प्रेमपात्रं पवित्रं विचित्रं परं ज्योतिरूपं भजे भूतनाथम् ॥ ३॥ परेशं प्रभुं पूर्णकारुण्यरूपं गिरीशाधिपीठोज्ज्वलच्चारुदीपम् । सुरेशादि संसेवितं…

श्रीदुर्गाम्बास्तोत्रम्

<  || श्रीदुर्गाम्बास्तोत्रम् || ज्ञानमात्रावशेषाया निष्पप्रपञ्चा निरङ्कुशा । चिदानन्दघनात्यच्छा दुर्गाम्बां तां उपास्महे ॥ १॥ मन्त्राणां मातृका देवि ज्ञानानां ज्ञानरूपिणी । ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी ॥ २॥ यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता । दुर्गात्सन्त्रायते यस्मात् देवी दुर्गेति कथ्यते ॥ ३॥ प्रपद्ये शरणं देवि दुराचारविधातिनीम् । नमामि भवभीतोऽहं संसारार्णवतारिणीम् ॥ ४॥ इति श्रीसमर्थरामदासानुग्रहित श्रीरामपदपङ्कजभृङ्गायमान श्रीमत्परमहंसपरिव्राजकाचार्यवरभगवताश्रीश्रीधरस्वामिना विरचितं...

श्रीगुरु भुजंग स्तोत्रम्

|| श्रीगुरुभुजङ्गस्तोत्रम् || श्रीगुरुभ्यो नमः । सदेकं परं केवलं निर्विकारं निराकारमानन्दमात्रं पवित्रम् । स्वयंज्योतिरव्यक्तमाकाशकल्पं श्रुतिर्ब्रह्म यत्प्राह तस्मै नमस्ते ॥ १॥ य एकोऽपि मायावशात्सर्वहेतुः स्वसृष्टेषु विश्वेषु विष्वक्प्रवेशात् । श्रुतौ जीव इत्युच्यते केवलात्मा तुरीयाय शुद्धाय तस्मै नमस्ते ॥ २॥ न यस्मादिह द्रष्टृ विज्ञातृ चान्यत्क्वचित्स्यात्परं द्रष्टृ विज्ञातृ वा यत् । समस्तासु बुद्धिष्वनुस्यूतमेकं नमो ब्रह्मणे जीवरूपाय तस्मै ॥ ३॥…

वेंकटेश भुजंगम

|| वेंकटेश भुजंगम || मुखे चारुहासं करे शङ्खचक्रं गले रत्नमालां स्वयं मेघवर्णम् । तथा दिव्यशस्त्रं प्रियं पीतवस्त्रं धरन्तं मुरारिं भजे वेङ्कटेशम् ॥ १॥ सदाभीतिहस्तं मुदाजानुपाणिं लसन्मेखलं रत्नशोभाप्रकाशम् । जगत्पादपद्मं महत्पद्मनाभं धरन्तं मुरारिं भजे वेङ्कटेशम् ॥ २॥ अहो निर्मलं नित्यमाकाशरूपं जगत्कारणं सर्ववेदान्तवेद्यम् । विभुं तापसं सच्चिदानन्दरूपं धरन्तं मुरारिं भजे वेङ्कटेशम् ॥ ३॥ श्रिया विष्टितं वामपक्षप्रकाशं सुरैर्वन्दितं…

दुर्गाचन्द्रकलास्तुतिः

|| दुर्गाचन्द्रकलास्तुतिः|| वेधोहरीश्वरस्तुत्यां विहर्त्रीं विन्ध्यभूधरे । हरप्राणेश्वरीं वन्दे हन्त्रीं विबुधविद्विषाम् ॥ १॥ अभ्यर्थनेन सरसीरुहसम्भवस्य त्यक्त्वोदिता भगवदक्षिपिधानलीलाम् । विश्वेश्वरी विपदपागमने पुरस्तात् माता ममास्तु मधुकैटभयोर्निहन्त्री ॥ २॥ प्राङ्निर्जरेषु निहितैर्निजशक्तिलेशैः एकीभवद्भिरुदिताखिललोकगुप्त्यै । सम्पन्नशस्त्रनिकरा च तदायुधस्थैः माता ममास्तु महिषान्तकरी पुरस्तात् ॥ ३॥ प्रालेयशैलतनया तनुकान्तिसम्पत्- कोशोदिता कुवलयच्छविचारुदेहा । नारायणी नमदभीप्सितकल्पवल्ली सुप्रीतिमावहतु शुम्भनिशुम्भहन्त्री ॥ ४॥ विश्वेश्वरीति महिषान्तकरीति यस्याः नारायणीत्यपि च नामभिरङ्कितानि…

विष्णुलहरी (करुणालहरी)

|| विष्णुलहरी (करुणालहरी) || विषीदता नाथ विषानलोपमे विषादभूमौ भवसागरे विभो । परं प्रतीकारमपश्यताधुना मयायमात्मा भवते निवेदितः ॥ १॥ भवानलज्वालविलुप्तचेतनः शरण्य तेऽङ्घ्रिं शरणं भयादयाम् । विभाव्य भूयोऽपि दयासुधाम्बुजे विधेहि मे माथ यथा यथेच्छसि ॥ २॥ विहाय संसारमहामरुस्थलीमलीकदेहादिमिलन्मरीचिकाम् । मनोमृगो मे करुणामृताम्बुधे विगाढुमीश त्वयि गाढमीहते ॥ ३॥ त्वदङ्घ्रिफुल्लाम्बुजमध्यनिर्गलन्मरन्दनिःस्यन्दनितान्तलम्पटः । मनोमिलिन्दो मम मुक्तचापलस्त्वदन्यमीशान तृणाय मन्यते ॥ ४॥ जगत्त्रयत्राणविधौ…

गंगालहरी

|| गंगालहरी || समृद्धं सौभाग्यं सकलवसुधायाः किमपि तन् महैश्वर्यं लीलाजनितजगतः खण्डपरशोः । श्रुतीनां सर्वस्वं सुकृतमथ मूर्तं सुमनसां सुधासोदर्यं ते सलिलमशिवं नः शमयतु ॥ १॥ दरिद्राणां दैन्यं दुरितमथ दुर्वासनहृदां द्रुतं दूरीकुर्वन् सकृदपि गतो दृष्टिसरणिम् । अपि द्रागाविद्याद्रुमदलनदीक्षागुरुरिह प्रवाहस्ते वारां श्रियमयमपारां दिशतु नः ॥ २॥ उदञ्चन्मार्तण्डस्फुटकपटहेरम्बजननी- कटाक्षव्याक्षेपक्षणजनितसंक्षोभनिवहाः । भवन्तु त्वङ्गन्तो हरशिरसि गङ्गातनुभुव- स्तरङ्गाः प्रोत्तुङ्गा दुरितभयभङ्गाय भवताम् ॥…

श्रीअन्नपूर्णाष्टोत्तरशतनामस्तोत्रम्

|| श्रीअन्नपूर्णाष्टोत्तरशतनामस्तोत्रम् || ॥ श्रीगणेशाय नमः ॥ ॥ श्रीअन्नपूर्णाविश्वनाथाभ्यां नमः ॥ अस्य श्रीअन्नपूर्णाष्टोत्तरशतनामस्तोत्रमन्त्रस्य भगवान् श्रीब्रह्मा ऋषिः । अनुष्टुप्छन्दः । श्रीअन्नपूर्णेश्वरी देवता । स्वधा बीजम् । स्वाहा शक्तिः । ॐ कीलकम् । मम सर्वाभीष्टप्रसादसिद्धयर्थे पाठे विनियोगः । ॐ अन्नपूर्णा शिवा देवी भीमा पुष्टिस्सरस्वती । सर्वज्ञा पार्वती दुर्गा शर्वाणी शिववल्लभा ॥ १॥ वेदवेद्या महाविद्या विद्यादात्री विशारदा ।…

श्रीशिवानन्दलहरी

|| श्रीशिवानन्दलहरी || कलाभ्यां चूडालङ्कृतशशिकलाभ्यां निजतपः- फलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे । शिवाभ्यामस्तोकत्रिभुवनशिवाभ्यां हृदि पुन- र्भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम् ॥ १॥ गलन्ती शम्भो त्वच्चरितसरितः किल्बिषरजो दलन्ती धीकुल्यासरणिषु पतन्ती विजयताम् । दिशन्ती संसारभ्रमणपरितापोपशमनं वसन्ती मच्चेतोह्रदभुवि शिवानन्दलहरी ॥ २॥ त्रयीवेद्यं हृद्यं त्रिपुरहरमाद्यं त्रिनयनं जटाभारोदारं चलदुरगहारं मृगधरम् । महादेवं देवं मयि सदयभावं पशुपतिं चिदालम्बं साम्बं शिवमतिविडम्बं हृदि भजे ॥ ३॥…

दत्तात्रेयज्ञानलहरी

|| दत्तात्रेयज्ञानलहरी || श्रीगणेशाय नमः दलादन ऋषिरुवाच । विभुर्नित्यानन्दः श्रुतिगणशिरोवेद्यमहिमा यतो जन्माद्यस्य प्रभवति स मायागुणवतः । सदाधारः सत्यो जयति पुरुषार्थैकफलदः सदा दत्तात्रेयो विहरति मुदा ज्ञानलहरिः ॥ १॥ हरीशब्राह्माणः पदकमलपूजां विदधते जगद्रक्षाशिक्षाजननकरणे ते ह्यधिकृताः । अभूवन्निन्द्राद्या हरिदधिपतां देवमुनयः परं तत्त्वं प्रापुः शशिदिनकरौ ज्योतिरमलम् ॥ २॥ परं ज्योतिर्मूर्ते तव रुचिरतेजः कलरवाज्- जगध्व्याप्येदानीं तपनशशिताराहुतभुजः । महातेजःपुञ्जाः सकलजगदाराध्यचरिताश्- चरन्त्येवं…

गोकर्ण गणाधिपस्तुती

|| गोकर्ण गणाधिपस्तुती || श्रीमत्परमहंसेत्यादि समस्तबिरुदालङ्कृत श्रीजगद्गुरु सार्वभौम श्रीश्री शिवाभिनव नृसिंह भारती महास्वामिरनुग्रहीता । कुक्षिस्फुरन्नागभीत्या मूषिकः प्रपलायते । इति मत्वा मयूरं किमारूढोऽसि गनाधिप ॥ १॥ मत्कुक्षिसुस्थमखिलजगदिति सर्वान् प्रबोधयितुम् । बृहदुदरतां कृपाब्धे धत्से किम् करिवरास्य त्वम् ॥ २॥ त्वद्दर्शनकृतहासं चन्द्रमसं हन्तुमुद्युक्तम् । त्वामनुनेतुं ताराः कुसुमव्याजेन सेवन्ते ॥ ३॥ यज्जातुर्येण हि लोकानुद्धर्तुमम्बिकानाथः । गोकर्णे स्थितिमकरोल्लोकहितं तं प्रणौमि…

श्रीरमणलहरी

|| श्रीरमणलहरी || ॥ नमो भगवते श्रीमते रमणाय ॥ यतो जन्माद्यस्य प्रभवति च यः कूटनिलयो मुदा यन्माहात्म्यं प्रणिगदति नित्यं श्रुतिगणः । शिवं शुद्धं शान्तं निरवधिसुखं सत्यममलं परं वन्देऽहं तत्किमपि रमणाख्यं चितिमहः ॥ १॥ मतो हृत्पद्मोसावरुणगिरिराजोऽखिलभुवो यदन्तश्चैतन्यं तदिह रमणो दक्षिणगतः । सतां सर्वेषां यो हृदि हि रमते स्वात्मकलया नमस्तस्मै भूम्ने हृदयरमणायानवरतम् ॥ २॥ जडं देहं नश्यद्घटपटनिभं…

गणेश्वरस्तोत्रम् अथवा गाणेशतेजोवर्धनस्तोत्रम्

|| गणेश्वरस्तोत्रम् अथवा गाणेशतेजोवर्धनस्तोत्रम् || श्रीगणेशाय नमः ॥ भ्रूशुण्ड्युवाच – नमो नमस्ते गणनाथ ढुण्ढे सदा सुशान्तिप्रद शान्तिमूर्ते । अपारयोगेन च योगिनस्त्वां भजन्ति भावेन नमो नमस्ते ॥ १॥ प्रजापतीनां त्वमथो विधाता सुपालकानां गणनाथ विष्णुः । हरोऽसि संहारकरेषु देव कलांशमात्रेण नमो नमस्ते ॥ २॥ क्रियात्मकानां जगदम्बिका त्वं प्रकाशकानां रविरेव ढुण्ढे । यत्नप्रदानां च गुणेश नामा कलांशमात्रेण नमो…

कावेरी भुजंग स्तोत्रम्

|| कावेरी भुजंग स्तोत्रम् || कथं सह्यजन्ये सुरामे सजन्ये प्रसन्ने वदान्याः भवेयुर्वदान्ये । सपापस्य मन्ये गतिमम्ब मान्ये कवेरस्य धन्ये कवेरस्य कन्ये ॥ १॥ कृपाम्बोधिसङ्गे कृपार्द्रान्तरङ्गे जलाक्रान्तरङ्गे जवोद्योतरङ्गे । नभश्चुम्बिवन्येभसम्पद्विमान्ये नमस्ते वदान्ये कवेरस्य कन्ये ॥ २॥ समा ते न लोके नदी ह्यत्र लोके हताशेषशोके लसत्तट्यशोके । पिबन्तोऽम्बु ते के रमन्ते न नाके नमस्ते वदान्ये कवेरस्य कन्ये…

श्रीगणेशावतारस्तोत्रम्

|| श्रीगणेशावतारस्तोत्रम् || श्री गणेशाय नमः । आङ्गिरस उवाच । अनन्ता अवताराश्च गणेशस्य महात्मनः । न शक्यते कथां वक्तुं मया वर्षशतैरपि ॥ १॥ संक्षेपेण प्रवक्ष्यामि मुख्यानां मुख्यतां गतान् । अवतारांश्च तस्याष्टौ विख्यातान् ब्रह्मधारकान् ॥ २॥ वक्रतुण्डावतारश्च देहिनां ब्रह्मधारकः । मत्सरासुरहन्ता स सिंहवाहनगः स्मृतः ॥ ३॥ एकदन्तावतारो वै देहिनां ब्रह्मधारकः । मदासुरस्य हन्ता स आखुवाहनगः स्मृतः…

श्रीगणेशापराधक्षमापणस्तोत्रम्

|| श्रीगणेशापराधक्षमापणस्तोत्रम् || श्रीगणेशाय नमः । सुमुखो मखभुङ्मुखार्चितः सुखवृद्ध्यै निखिलार्तिशान्तये। अखिलश्रुतिशीर्षवर्णितः सकलाद्यः स सदाऽस्तु मे हृदि ॥ १॥ प्रणवाकृतिमस्तके नयः प्रणवो वेदमुखावसानयोः। अयमेव विभाति सुस्फुटं ह्यवतारः प्रथमः परस्य सः ॥ २॥ प्रथमं गुणनायको बभौ त्रिगुणानां सुनियन्त्रणाय यः। जगदुद्भवपालनात्ययेष्वजविष्ण्वीशसुरप्रणोदकः ॥ ३॥ विधिविष्णुहरेन्द्रदेवतादिगणानां परिपालनाद्विभुः। अपि चेन्द्रियपुञ्जचालनाद्गणनाथः प्रथितोऽर्थतः स्फुटम् ॥ ४॥ अणिमामुखसिद्धिनायका भजतः साधयतीष्टकामनाः। अपवर्गमपि प्रभुर्धियो निजदासस्य तमो…

शिव मानस पूजा स्तोत्र

|| Shiv Manas Puja Stotram || रत्नै: कल्पितमासनं हिमजलै: स्नानं च दिव्याम्बरं नानारत्नविभूषितं मृगमदामोदांकितं चन्दनम् । जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा दीपं देव दयानिधे पशुपते ह्रत्कल्पितं गृहाताम् ।।1।। सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् । शाकानामयुतं जलं रूचिकरं कर्पूरखण्डोज्ज्वलं ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ।।2।। छत्रं चामरयोर्युगं व्यजनकं चादर्शकं…

श्रीराघवेन्द्रकरुणालहरी

|| श्रीराघवेन्द्रकरुणालहरी || त्वङ्गत्तुङ्ग-तरङ्ग-मङ्गल-नदी-तुङ्गान्तरङ्ग-स्थली- रङ्गोत्सङ्ग-निषङ्गि-वात-विधुताम्भः प्लाविते पाविते । श्रीमन्त्रालय-नाम्नि धाम्नि वसते चाशंसते शं सते मन्त्रालोचनमार्ति-नाशन-कृते पुंसां नमस्तन्वते ॥ १॥ नो मञ्चा न गृहा न चञ्चल-दृशो द्रव्यं श्रमात्सञ्चितं चञ्चत् किञ्चन किञ्च काञ्चनमपि त्वां चानुयान्त्यत्यये । सञ्चित्यैवमिदं च मुञ्च सकलं प्रापञ्चिकं नश्वरं मञ्चाली-गुरुमञ्च शाश्वत-सुखं त्वं चेत्सखे वाञ्छसि ॥ २॥ इष्टार्थाकलनान्नृणामिह तथा कष्टावलेर्वारणात् कुष्ठापस्मृति-पूर्व-भीकर-रुजा-दुष्ट-ग्रहोत्सारणात् । प्रेष्ठो भक्तततेस्तथा भगवतः…

श्रीकृष्णलहरीस्तोत्रम्

|| श्रीकृष्णलहरीस्तोत्रम् || वासुदेवानन्दसरस्वतीकृतम् कदा वृन्दारण्ये विपुलयमुनातीरपुलिने चरन्तं गोविन्दं हलधरसुदामादिसहितम् । अहो कृष्ण स्वामिन् मधुरमुरलीमोहन विभो प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ १॥ कदा कालिन्दीयैर्हरिचरणमुद्राङ्किततटैः स्मरन्गोपीनाथं कमलनयनं सस्मितमुखम् । अहो पूर्णानन्दाम्बुजवदन भक्तैकललन प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ २॥ कदाचित्खेलन्तं व्रजपरिसरे गोपतनयैः कुतश्चित्सम्प्राप्तं किमपि लसितं गोपललनम् । अये राधे किं वा हरसि रसिके कञ्चुकयुगं प्रसीदेति क्रोशन्निमिषमिव नेष्यामि…

श्रीदेविकालहरी

|| श्रीदेविकालहरी || श्रियामायानं यद्विमलवसने सर्वजगतां- क्रियास्पाम्बुध्नन्ते नियत हविषां पावनविधौ । धियां पावित्रीयोऽवनिविदिततीर्थं वनमयं- वपुश्चेदं शर्वे सकलमशुभं वारयतु नः ॥ १॥ शिवार्डाङ्गे वासो विधिजतनयायाः प्रथमतो गृहन्ते कैलासे रजितभुवनभ्राजिततटे । अमर्त्याऽऽक्रीडे बाऽप्यवनिधरपुत्र्यास्सुरनते- सरिद्रूपञ्चैतद्धरतु जगतां पापमखिलम् ॥ २॥ इदङ्कर्म्माधानम्भुवनजगतौ खण्डमखिलं पवित्रीकर्तुं वै नवसलिलबिम्बं विदधती । प्रभासे शुद्धे च द्रुमवति सुघाटे सुरपतेः- समुत्तीर्णाधाराभरणवसना शैवशिखरात् ॥ ३॥ सरिद्रूपन्धत्वाजनि वृजिननाशङ्करु…

कावेरीलहरी

|| कावेरीलहरी || महीभृत्तुङ्गस्ते जगति विदितो भाति जनको महीयान् हि प्रेयान् भवति भुवि रत्नाकर इति । अपि स्वर्णस्थानान्यतिशतमुदञ्चन्ति तटयोः श्रियं ते कावेरि प्रथयितुमलं कः कविरपि ॥ १॥ अयि त्वां तुष्टूषोर्जितसुरसरित्पूरविभवे । तनूजे सह्याद्रेः सततमपि गीतां बुधवरैः । सुधाहृयां भूभृत्कुलवरशिरोलालितरसां विधेहि त्वत्तुल्यां जननि मम वाचं कविनुताम् ॥ २॥ त्वमङ्के सह्याद्रेर्भवसि ननु बालेव विमले क्रमाद् वृद्धिं भूयो…

श्री कनकदुर्गा आनन्दलहरी

|| श्री कनकदुर्गा आनन्दलहरी || वन्दे गुरुपदद्वन्द्वमवाङ्मानसगोचरम् । रक्तशुक्लप्रभामिश्रमतर्क्यं त्रैपुरं महः ॥ अखण्डमण्डलाकारं विश्वं व्याप्य व्यवस्थितम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ शिवे सेवासक्ताश्रितभरणकार्यैकचतुरे शिरोभिर्वेदानां चिरविनुतकल्याणचरिते । स्मितज्योत्स्नालीलारुचिररुचिमच्चन्द्रवदने जगन्मातर्मातर्जय कनकदुर्गे भगवति ॥ १॥ नगाधीशट्कन्ये नलिनदळसङ्काशनयने सुगीतैर्गन्धर्वैस्सुरयुवतिभिश्चानुचरिते । var श्लाघ्यचरिते अगण्यैराम्नायैरपि गुणनिकायैर्विलसिते जगन्मातर्मातर्जय कनकदुर्गे भगवति ॥ २॥ निजश्रेयस्कामैर्निटलघटितां च तत्करपुटैः स्तुवद्भिस्सानन्दं श्रुतिमधुरवाचां विरचनैः ।…

अमृतलहरी

|| अमृतलहरी || मातः पातकपातकारिणि तव प्रातः प्रयातस्तटं यः कालिन्दि महेन्द्रनीलपटलस्निग्धां तनुं वीक्षते । तस्यारोहति किं न धन्यजनुषः स्वान्तं नितान्तोल्लस- न्नीलाम्भोधरवृन्दवन्दितरुचिर्देवो रमावल्लभः ॥ १ नित्यं पातकभङ्गमङ्गलजुषां श्रीकण्ठकण्ठत्विषां तोयानां यमुने तव स्तवविधौ को याति वाचालताम् । येषु द्राग्विनिमज्ज्य सज्जतितरां रम्भाकराम्भोरुह- स्फूर्जच्चामरवीजितामरपदं जेतुं वराको नरः ॥ २ दानान्धीकृतगन्धसिन्धुरघटागण्डप्रणालीमिल- द्भृङ्गालीमुखरीकृताय नृपतिद्वाराय बद्धोऽञ्जलिः । त्वत्कूले फलमूलशालिनि मम श्लाघ्यामुरीकुर्वतो वृत्तिं…

आनन्दलहरी

|| आनन्दलहरी || भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः प्रजानामीशानस्त्रिपुरमथनः पञ्चभिरपि । न षड्भिः सेनानीर्दशशतमुखैरप्यहिपतिः तदान्येषां केषां कथय कथमस्मिन्नवसरः ॥ १॥ घृतक्षीरद्राक्षामधुमधुरिमा कैरपि पदैः विशिष्यानाख्येयो भवति रसनामात्र विषयः । तथा ते सौन्दर्यं परमशिवदृङ्मात्रविषयः कथंकारं ब्रूमः सकलनिगमागोचरगुणे ॥ २॥ मुखे ते ताम्बूलं नयनयुगळे कज्जलकला ललाटे काश्मीरं विलसति गळे मौक्तिकलता । स्फुरत्काञ्ची शाटी पृथुकटितटे हाटकमयी भजामि त्वां…

साधुकृतं श्रीगणेशस्तोत्रम्

|| साधुकृतं श्रीगणेशस्तोत्रम् || ॥ श्रीगणेशाय नमः ॥ साधुरुवाच । हेरम्बाय नमस्तुभ्यं त्रिनेत्राय परात्मने । अनाकाराय देवाय साकाराय नमो नमः ॥ २१॥ लम्बोदराय वीराय शूर्पकर्णाय ढुण्ढये । अनादये परेशाय गणेशाय नमो नमः ॥ २२॥ स्वानन्दवासिने तुभ्यं भक्तभावस्वरूपिणे । भक्तेशाय सुभक्त्या वै सन्तुष्टाय नमो नमः ॥ २३॥ सर्वाकाराय सर्वादिपूज्याय परमात्मने । ब्रह्मेशाय गणानां ते पालकाय नमो…

सदेवर्षिर्दक्षकृतं श्रीगणेशस्तोत्रम्

|| सदेवर्षिर्दक्षकृतं श्रीगणेशस्तोत्रम् || ॥ श्रीगणेशाय नमः ॥ सदेवर्षिर्दक्ष उवाच । नमस्ते गणेशाय सर्वात्मने ते सदा भक्तिमोहेन मोहात्मकाय । महेशादिदेवैः शुकाद्यैः स्तुताय ह्ययोगाय संयोगधारिन्नमस्ते ॥ २६॥ गजाननाय वै तुभ्यं नमः परशुपाणये । गदाधराय शङ्खं वै धारिणे ते नमो नमः ॥ २७॥ विघ्नेशाय परेशाय महाविघ्नविदारिणे । अनाथाय सनाथाय हेरम्बाय नमो नमः ॥ २८॥ नमो नमस्तेऽस्तु महोदराय…

श्रीसमाससंवत्सरकृतं श्रीगणेशस्तोत्रम्

|| श्रीसमाससंवत्सरकृतं श्रीगणेशस्तोत्रम् || ॥ श्रीगणेशाय नमः ॥ समाससंवत्सर उवाच । नमस्ते धूम्रवर्णाय वक्रतुण्डाय ढुण्ढये । हेरम्बाय परेशाय विघ्नेशाय नमो नमः ॥ ९॥ शूर्पकर्णाय सर्वेषां पूज्याय परमात्मने । लम्बोदराय सर्वादिपूज्याय तु नमो नमः ॥ १०॥ अनाथानां सुनाथाय पात्रे हर्त्रे नमो नमः । कर्त्रे त्रिगुणरूपाय गुणहीनाय ते नमः ॥ ११॥ आदिमध्यान्तसंस्थायादिमध्यान्तविवर्जित । गणेशाय गणानां ते चालकाय…

श्रीशिवकृतं श्रीगणेशस्तोत्रम्

|| श्रीशिवकृतं श्रीगणेशस्तोत्रम् || ॥ श्रीगणेशाय नमः ॥ श्रीशिव उवाच । गणेशाय परेशाय धूम्रवर्णाय ढुण्ढये । शिवात्मजाय सर्वेषां मात्रे पित्रे नमो नमः ॥ २२॥ गणेशाय गुणानां ते स्रष्ट्रे पात्रे महात्मने । संहर्त्रे देवदेवाय हेरम्बाय नमो नमः ॥ २३॥ अनन्तविभवायैवानन्तमायाप्रचालक । अनन्तोदरगायैव विघ्नेशाय नमो नमः ॥ २४॥ ज्येष्ठराजाय ज्येष्ठाय ज्येष्ठानां ज्येष्ठरूपिणे । सर्वपूज्याय ते सर्वादिपूज्याय नमो…

शिवदत्तकृतं श्रीगणेशस्तोत्रम्

|| शिवदत्तकृतं श्रीगणेशस्तोत्रम् || ॥ श्रीगणेशाय नमः ॥ शिवदत्त उवाच । गणेशाय नमस्तुभ्यं पराशरात्मजाय ते । शिवपुत्राय शेषस्य पुत्राय वै नमो नमः ॥ ४०॥ सर्वपुत्राय सर्वेषां मात्रे पित्रे नमो नमः । भ्रात्रे सुहृद्गणायैव स्नुषादिवेषधारिणे ॥ ४१॥ अनन्तरूपिणे तुभ्यं नानाभोगविहारिणे । भोगहीनाय देवाय सुराय ते नमो नमः ॥ ४२॥ अपारगुणधाराय गुणानां पतये नमः । गणेशाय परेशाय…

श्रीविष्णुकृतं गणेशस्तोत्रम्

|| श्रीविष्णुकृतं गणेशस्तोत्रम् || नारायण उवाच । अथ विष्णुः सभामध्ये तं सम्पूज्य गणेश्वरम् । तुष्टाव परया भक्त्या सर्वविघ्नविनाशकम् ॥ ईश त्वां स्तोतुमिच्छामि ब्रह्मज्योतिः सनातनम् । नैव वर्णयितुं शक्तोऽस्म्यनुरूपमनीहकम् ॥ १॥ प्रवरं सर्वदेवानां सिद्धानां योगिनां गुरुम् । सर्वस्वरूपं सर्वेशं ज्ञानराशिस्वरूपिणम् ॥ २॥ अव्यक्तमक्षरं नित्यं सत्यमात्मस्वरूपिणम् । वायुतुल्यं च निर्लिप्तं चाक्षतं सर्वसाक्षिणम् ॥ ३॥ var वायुतुल्याति संसारार्णवपारे…

श्रीरामसौन्दर्यलहरी

|| श्रीरामसौन्दर्यलहरी || यद्दीनेषु धरासुतारमण ते नेत्रद्वयं जात्वपि प्रान्तेक्षाकनिताखिलार्त्यपगमद्ध्यानाद्यकुर्वत्स्वपि । नित्यं प्रेमदयोर्जितं निविशते तत्सन्ततं भक्तितः त्वत्सेवैकहृदः कथं न विषयीकुर्यात्तथा नः कृशान् ॥ १॥ मुग्धं राम तवाननं सहृदयं लोकस्य सम्पश्यतो नेत्रं विस्तृतपक्ष्मविभ्रममितो नापैति लक्ष्म्या यया । शीतांशुं विमलं न सा बहुशरद्राकोद्भवास्वेकदा श्रीष्वप्यार्य गतासु तादृशि मनाग्लक्ष्येत भिन्ने किमु ॥ २॥ चन्द्रं तवाननसमं द्रुहिणो विधातु- मेकैकया प्रतिदिनं कलया…

स्कन्दलहरी

|| स्कन्दलहरी || ॐ श्रीगणेशाय नमः । श्रीः । श्रियै भूयाः श्रीमच्छरवणभव त्वं शिवसुतः प्रियप्राप्त्यै भूयाः प्रतनगजवक्त्रस्य सहज । त्वयि प्रेमोद्रेकात्प्रकटवचसा स्तोतुमनसा मयाऽऽरब्धं स्तोतुं तदिदमनुमन्यस्व भगवन् ॥ १॥ निराबाधं राजच्छरदुदितराकाहिमकर- प्ररूढज्योत्स्नाभास्मितवदनषट्कस्त्रिणयनः । पुरः प्रादुर्भूय स्फुरतु करुणापूर्णहृदयः करोतु स्वास्थ्यं वै कमलदलबिन्दूपमहृदि ॥ २॥ न लोकेऽन्यं देवं नतजनकृतप्रत्ययविधिं विलोके भीतानां निखिलभयभीतैकशरणम् । कलौ कालेऽप्यन्तर्हरसि तिमिरं भास्कर इव…

सीतालहरी

|| सीतालहरी || श्रियं लब्धुं नित्यां सकलभुवनेशैरपि नुतां श्रितानां संसाराम्बुधितरणनौतुल्यचरणाम् । श्रियः पत्युः कान्तां दशरथसुतत्वं गतवतः श्रियं वन्दे मन्देतरमहिममान्यां जनकजाम् ॥ १॥ वरं लब्ध्वाऽप्यन्यादृशमहिमवाग्गुम्भनविधौ विधेर्वाल्मीकिश्चाप्यपटुरभवद्यस्य नवने । जडानां मूर्द्धन्यो जननि तमिमं ते गुणगणं हठात्तुष्टूषेऽहं लघु सफलयेस्साहसमिदम् ॥ २॥ विनिन्दन्त्विष्टा मामलमुपहसन्तु ज्ञनिवहाः अवज्ञां वा कुर्वन्त्ववनितनये काव्यरसिकाः । स्तुतौ ते नो गर्वादपि तु जनिसाफल्यकृतये प्रवृत्तिर्जातेयं मम दुरपनोद्या…

सुधालहरी

|| सुधालहरी || उल्लासः फुल्लपङ्केरुहपटलतन्मत्तपुष्पंधयानां निस्तारः शोकदावानलविकलहृदां कोकसीमन्तिनीनाम् । उत्पातस्तामसानामुपहतमहसां चक्षुषां पक्षपातः संघातः कोऽपि धाम्नामयमुदयगिरिप्रान्ततः प्रादुरासीत् ॥ १॥ पद्मद्रोहोद्धुराणां धवलितहरितामैन्दवीनां द्युतीनां दर्पं द्राग्द्रावयन्तो विदलदरुणिमोद्रेकदेदीप्यमानाः । दूरादेवान्धकारान्धितधरणैतलद्योतने बद्धदीक्षा- स्ते दैन्यध्वंसदक्षा मुदमुदयदिनोद्वेलदुस्रा दिशन्तु ॥ २॥ त्रातामीवार्तलक्षाः प्रतिदिनविहितानेकगीर्वाणरक्षा भक्तानां कल्पवृक्षाः स्फुरदनलगतस्वर्णभासां सदृक्षाः । लोकक्षेमात्तदीक्षा नलिनपरिषदां दत्तसौभाग्यलाक्षा दुर्वृत्तध्वंसदक्षा मम रविकिरणाः सन्त्वघानां विपक्षाः ॥ ३॥ प्रालेयानां करालाः कवलितजगतीमण्डलध्वान्तजालाः स्त्रातस्वर्लोकपाला विदलदरुणिमक्षिप्तबालप्रवालाः…

विश्वेशलहरी

|| विश्वेशलहरी || श्रीगणेशाय नमः ॥ सिद्धिबुद्धिपतिं वन्दे श्रीगणाधीश्वरं मुदा । तस्य यो वन्दनं कुर्यात् स धीनां योगमिन्वति ॥ १॥ वन्दे काशीपतिं काशी जाता यत्कृपया पुरी । प्रकाशनार्थं भक्तानां होतारं रत्नधातमम् ॥ २॥ भक्तावनं करोमीति मा गर्वं वह शङ्कर । तेभ्यः स्वपूजाग्रहणात्तवेतत्सत्यमङ्गिरः ॥ ३॥ मुधा लक्ष्मीं कामयन्ते चञ्चलां सकला जनाः । काशीरूपां कामयेऽहं लक्ष्मीमनपगामिनीम् ॥…

श्रीलक्ष्मीलहरी

|| श्रीलक्ष्मीलहरी || श्रीगणेशाय नमः । समुन्मीलन्नीलाम्बुजनिकरनीराजितरुचाम्- अपाङ्गानां भङ्गैरमृतलहरीश्रेणिमसृणैः । ह्रिया हीनं दीनं भृशमुदरलीनं करुणया हरिश्यामा सा मामवतु जडसामाजिकमपि ॥ १॥ समुन्मीलत्वन्तःकरणकरुणोद्गारचतुरः करिप्राणत्राणप्रणयिनि दृगन्तस्तव मयि । यमासाद्योन्माद्यद्द्विपनियुतगण्डस्थलगलन्- मदक्लिन्नद्वारो भवति सुखसारो नरपतिः ॥ २॥ उरस्यस्य भ्रश्यत्कबरभरनिर्यत्सुमनसः पतन्ति स्वर्बालाः स्मरशरपराधीनमनसः । सुरास्तं गायन्ति स्फुरिततनुगङ्गाधरमुखास्- तवायं दृक्पातो यदुपरि कृपातो विलसति ॥ ३॥ समीपे सङ्गीतस्वरमधुरभङ्गी मृगदृशां विदूरे दानान्धद्विरदकलभोद्दामनिनदः ।…

श्रीयमुनालहरी

|| श्रीयमुनालहरी || यद्दीनेषु धरासुतारमण ते नेत्रद्वयं जात्वपि प्रान्तेक्षाकनिताखिलार्त्यपगमद्ध्यानाद्यकुर्वत्स्वपि । नित्यं प्रेमदयोर्जितं निविशते तत्सन्ततं भक्तितः त्वत्सेवैकहृदः कथं न विषयीकुर्यात्तथा नः कृशान् ॥ १॥ मुग्धं राम तवाननं सहृदयं लोकस्य सम्पश्यतो नेत्रं विस्तृतपक्ष्मविभ्रममितो नापैति लक्ष्म्या यया । शीतांशुं विमलं न सा बहुशरद्राकोद्भवास्वेकदा श्रीष्वप्यार्य गतासु तादृशि मनाग्लक्ष्येत भिन्ने किमु ॥ २॥ चन्द्रं तवाननसमं द्रुहिणो विधातु- मेकैकया प्रतिदिनं कलया…

श्रीनर्मदालहरी

|| श्रीनर्मदालहरी || नर्मदे हरसम्भूते हरलिङ्गार्चनादृते । हरलिङ्गाञ्चिततटे जयाघं नर्मदे हर ॥ नमः प्रातर्मातर्गिरिशदुहितर्नर्मद उत । क्षपायां रेवे ते नम इतमते मेकलसुते ॥ नमो नित्यं सत्यं हि त उदकमत्यन्तकमकम् । हरत्याधिं सा त्वमखिलविषहे मेऽर्पय सुखम् ॥ १॥ महेशाङ्गोद्भूता सुरवरनराणामभिमता । युता सिद्धैर्याता प्रसभमिव पाश्चात्यजलधिम् ॥ वृता भीमेनैषा हृतभजकदोषा वरवृषा । सुभूषा सद्वेषा रुचिरवपुषा भात्यतिरुषा ॥…

गायत्री लहरी

|| गायत्री लहरी || अमन्दानन्देनामरवरगृहे वास निरतां- नरं गायन्तं या भुवि भवभयात्त्रायत इह । सुरेशैः सम्पूज्यां मुनिगणनुतां तां सुखकरीं नमामो गायत्रीं निखिलमनुजाघौघशमनीम् ॥ १॥ अवामा संयुक्तं सकलमनुजैर्जाप्यमभितो- ह्यपायात्पायाद्भूरथ भुवि भुवः स्वः पदमिति । पदं तन्मे पादाववतु सवितुश्चैव जघने- वरेण्यं श्रोणिं मे सततमवतान्नाभिमपि च ॥ २॥ पदं भर्गो देवस्य मम हृदयं धीमहि तथा- गलम्पायान्नित्यं धिय इह…

बाणासुरकृतं श्रीगणेशस्तोत्रम्

|| बाणासुरकृतं श्रीगणेशस्तोत्रम् || ॥ श्रीगणेशाय नमः ॥ बाणासुर उवाच । विघ्नेशाय परेशाय भक्तविघ्नविदारिणे । अभक्तविघ्नकर्त्रे ते विघ्नविघ्नाय वै नमः ॥ ४९॥ विनायकाय देवेश दैत्येशनायकाय ते । निरङ्कुशाय सातत्यं गणेशाय नमो नमः ॥ ५०॥ ज्येष्ठराजाय ज्येष्ठाय ज्येष्ठपूज्याय ते नमः । सर्वपूज्यादिपूज्याय परेशेश नमो नमः ॥ ५१॥ लम्बोदराय सर्वाय मात्रे पित्रे तदात्मने । आदिमध्यान्तहीनाय हेरम्बाय नमो…

श्रीगणेशस्तोत्रं प्रह्लादकृतम्

|| श्रीगणेशस्तोत्रं प्रह्लादकृतम् || श्री गणेशाय नमः । अधुना श‍ृणु देवस्य साधनं योगदं परम् । साधयित्वा स्वयं योगी भविष्यसि न संशयः ॥ १॥ स्वानन्दः स्वविहारेण संयुक्तश्च विशेषतः । सर्वसंयोगकारित्वाद् गणेशो मायया युतः ॥ २॥ विहारेण विहीनश्चाऽयोगो निर्मायिकः स्मृतः । संयोगाभेद हीनत्वाद् भवहा गणनायकः ॥ ३॥ संयोगाऽयोगयोर्योगः पूर्णयोगस्त्वयोगिनः । प्रह्लाद गणनाथस्तु पूर्णो ब्रह्ममयः परः ॥ ४॥…

पाशाय बन्धमोक्षकरं श्रीगणेशस्तोत्रम्

|| पाशाय बन्धमोक्षकरं श्रीगणेशस्तोत्रम् || ॥ श्रीगणेशाय नमः ॥ अहमुवाच । पाशाय शस्त्रराजाय नमस्ते बन्धरूपिणे । मोक्षरूपाय वै तुभ्यं गणेशकरभूषण ॥ १॥ मोहो मायामयः प्रोक्तो बन्धदः सर्वजन्तवे । गणेशज्ञानयुक्तश्चेद् बन्धहीनो नरो भवेत् ॥ २॥ तदेव बन्धरूपाख्यं शस्त्रं तस्य महात्मनः । त्वमेव पाशरूपं वै बन्धमोक्षकरं महत् ॥ ३॥ ये त्वां शरणमापन्नास्तेषां ते बन्धजं भयम् । नास्ति…

Join WhatsApp Channel Download App