श्री कृष्ण षोडशोपचार पूजा
|| श्री कृष्ण षोडशोपचार पूजा || पुनः सङ्कल्पम् – पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ मम मनोवाञ्छित फलावाप्त्यर्थं ब्रह्मज्ञान सिद्ध्यर्थं श्रीकृष्ण परब्रह्म पूजां करिष्ये ॥ ध्यानम् – कस्तूरीतिलकं ललाटफलके वक्षःस्थले कौस्तुभं नासाग्रे वरमौक्तिकं करतले वेणुं करे कङ्कणम् । सर्वाङ्गे हरिचन्दनं च कलयन् कण्ठे च मुक्तावलिं गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥ ध्यायामि बालकं कृष्णं मात्रङ्के स्तन्यपायिनम्…