Download HinduNidhi App
Misc

श्री मीनाक्षी द्वादश स्तोत्रम्

Minakshi Dvadash Stotram Sanskrit

MiscStotram (स्तोत्र निधि)हिन्दी
Share This

|| श्री मीनाक्षी द्वादश स्तोत्रम् ||

या देवी जगतां कर्त्री शङ्करस्यापि शङ्करी ।
नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥

सकृदाराध्य यां सर्वमभीष्टं लभते नरः ।
नमस्तस्यै मुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥

यस्याः प्रसादलेशेन भोरामोक्षौ न दुर्लभौ ।
नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥

यया शिवोऽपि युक्तः सन् पञ्चकृत्यं करोति हि ।
नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥

यस्याः प्रीत्यर्थमनिशं लास्यं कुर्वन् शिवो बभौ ।
नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥

लक्ष्मीसरस्वतीमुख्या यस्यास्तेजःकणोद्भवाः ।
नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥

या देवी मुक्तिकामानां ब्रह्मविद्याप्रदायिनी ।
नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥

यस्याः प्रणाममात्रेण वर्धन्ते सर्वसम्पदः ।
नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥

या स्तुता सर्वपापघ्नी सर्वोपद्रवनाशिनी ।
नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥

या ध्याता परमा शक्तिः सर्वसिद्धिकरी शिवा ।
नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥

यया देव्यापि विरहितः शिवोऽपि हि निरर्थकः ।
नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥

चराचरं जगत् सर्वं यस्याः पादसमुद्भवम् ।
नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥

इति श्रीमीनाक्षीद्वादशस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री मीनाक्षी द्वादश स्तोत्रम् PDF

श्री मीनाक्षी द्वादश स्तोत्रम् PDF

Leave a Comment