Misc

श्रीमधुसूदनस्तोत्रम्

Madhusudana Stotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीमधुसूदनस्तोत्रम् ||

श्रीगणेशाय नमः ॥

ओमिति ज्ञानमात्रेण रोगाजीर्णेन निर्जिता ।
कालनिद्रां प्रपन्नोऽस्मि त्राहि मां मधुसूदन ॥ १॥

न गतिर्विद्यते चान्या त्वमेव शरणं मम ।
पापपङ्के निमग्नोऽस्मि त्राहि मां मधुसूदन ॥ २॥

मोहितो मोहजालेन पुत्रदारगृहादिषु ।
तृष्णया पीड्यमानोऽस्मि त्राहि मां मधुसूदन ॥ ३॥

भक्तिहीनं च दीनं च दुःखशोकातुरं प्रभो ।
अनाश्रयमनाथं च त्राहि मां मधुसूदन ॥ ४॥

गतागतेन श्रान्तोऽस्मि दीर्घसंसारवर्त्मसु ।
येन भूयो न गच्छामि त्राहि मां मधुसूदन ॥ ५॥

बहवो हि मया दृष्टाः क्लेशाश्चैव पृथक् पृथक् ।
गर्भवासे महद्दुःखं त्राहि मां मधुसूदन ॥ ६॥

तेन देव प्रपन्नोऽस्मि त्राणार्थं त्वत्परायणः ।
दुःखार्णवपरित्राणात् त्राहि मां मधुसूदन ॥ ७॥

वाचा यच्च प्रतिज्ञातं कर्मणा नोपपादितम् ।
तत्पापार्जितमग्नोऽस्मि त्राहि मां मधुसूदन ॥ ८॥

सुकृतं न कृतं किञ्चिद्दुष्कृतं च कृतं मया ।
संसारघोरे मग्नोऽस्मि त्राहि मां मधुसूदन ॥ ९॥

देहान्तरसहस्रेषु चान्योन्यभ्रामितो मया ।
तिर्यक्त्वं मानुषत्वं च त्राहि मां मधुसूदन ॥ १०॥

वाचयामि यथोन्मत्तः प्रलपामि तवाग्रतः ।
जरामरणभीतोऽस्मि त्राहि मां मधुसूदन ॥ ११॥

यत्र यत्र च यातोऽस्मि स्त्रीषु वा पुरुषेषु च ।
तत्र तत्राचला भक्तिस्त्राहि मां मधुसूदन ॥ १२॥

गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः ।
अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः ॥ १३॥

ऊर्ध्वपातालमर्त्येषु व्याप्तं लोकं जगत्त्रयम् ।
द्वादशाक्षरात्परं नास्ति वासुदेवेन भाषितम् ॥ १४॥

द्वादशाक्षरं महामन्त्रं सर्वकामफलप्रदम् ।
गर्भवासनिवासेन शुकेन परिभाषितम् ॥ १५॥

द्वादशाक्षरं निराहारो यः यः पठेद्धरिवासरे ।
स गच्छेद्वैष्णवं स्थानं यत्र योगेश्वरो हरिः ॥ १६॥

इति श्रीशुकदेवविरचितं मधुसूदनस्तोत्रं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download श्रीमधुसूदनस्तोत्रम् PDF

श्रीमधुसूदनस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App