Shri Kali Maa

श्री मंगल चंडिका स्तोत्रम्

Mangal Chandika Stotram Sanskrit Lyrics

Shri Kali Maa ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

॥ श्री मंगल चंडिका स्तोत्रम् ॥

॥ध्यान॥

“ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवी मङ्गलचण्डिके ।
ऐं क्रूं फट् स्वाहेत्येवं चाप्येकविन्शाक्षरो मनुः ॥

पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः ।
दशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ॥

मन्त्रसिद्धिर्भवेद् यस्य स विष्णुः सर्वकामदः ।
ध्यानं च श्रूयतां ब्रह्मन् वेदोक्तं सर्व सम्मतम् ॥

देवीं षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम् ।
सर्वरूपगुणाढ्यां च कोमलाङ्गीं मनोहराम् ॥

श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम् ।
वन्हिशुद्धांशुकाधानां रत्नभूषणभूषिताम् ॥

बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितम् ।
बिम्बोष्टिं सुदतीं शुद्धां शरत्पद्मनिभाननाम् ॥

ईषद्धास्यप्रसन्नास्यां सुनीलोल्पललोचनाम् ।
जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसंपदाम् ॥

मङ्गलाधिष्टातृदेवि मङ्गलानां च मङ्गले ।
संसारसागरे घोरे पोतरुपां वरां भजे ॥

देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने ।
प्रयतः संकटग्रस्तो येन तुष्टाव शंकरः ॥

|| शंकर उवाच ||

रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके ।
हारिके विपदां राशेर्हर्षमङ्गलकारिके ॥

हर्षमङ्गलदक्षे च हर्षमङ्गलचण्डिके ।
शुभे मङ्गलदक्षे च शुभमङ्गलचण्डिके ॥

मङ्गले मङ्गलार्हे च सर्व मङ्गलमङ्गले ।
सतां मन्गलदे देवि सर्वेषां मन्गलालये ॥

पूज्या मङ्गलवारे च मङ्गलाभीष्टदैवते ।
पूज्ये मङ्गलभूपस्य मनुवंशस्य संततम्॥

मङ्गलाधिष्टातृदेवि मङ्गलानां च मङ्गले ।
संसार मङ्गलाधारे मोक्षमङ्गलदायिनि ॥

सारे च मङ्गलाधारे पारे च सर्वकर्मणाम् ।
प्रतिमङ्गलवारे च पूज्ये च मङ्गलप्रदे ॥

स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्गलचण्डिकाम् ।
प्रतिमङ्गलवारे च पूजां कृत्वा गतः शिवः॥

देव्याश्च मङ्गलस्तोत्रं यः श्रुणोति समाहितः ।
तन्मङ्गलं भवेच्छश्वन्न भवेत् तदमङ्गलम् ॥

॥इति श्री ब्रह्मवैवर्ते श्री मंगल चंडिका स्तोत्रम् संपूर्णम्॥

Read in More Languages:

Found a Mistake or Error? Report it Now

श्री मंगल चंडिका स्तोत्रम् PDF

Download श्री मंगल चंडिका स्तोत्रम् PDF

श्री मंगल चंडिका स्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App