Download HinduNidhi App
Hanuman Ji

श्री हनुमत पञ्चरत्नं स्तोत्र

Hanumat Pancharatnam Stotram Sanskrit

Hanuman JiStotram (स्तोत्र निधि)संस्कृत
Share This

॥श्री हनुमत पञ्चरत्नं स्तोत्र॥

वीताखिल-विषयेच्छं
जातानन्दाश्र पुलकमत्यच्छम् ।
सीतापति दूताद्यं वातात्मजमद्य
भावये हृद्यम् ॥

तरुणारुण मुख-कमलं
करुणा-रसपूर-पूरितापाङ्गम् ।
सञ्जीवनमाशासे मञ्जुल-
महिमानमञ्जना-भाग्यम ॥

शम्बरवैरि-शरातिगमम्बुजदल-
विपुल-लोचनोदारम् ।
कम्बुगलमनिलदिष्टम् बिम्ब-
ज्वलितोष्ठमेकमवलम्बे ॥

दूरीकृत-सीतार्तिः प्रकटीकृत-
रामवैभव-स्फूर्ति ।
दारित-दशमुख-कीर्तिः पुरतो
मम भातु हनुमतो मूर्तिः ॥

वानर-निकराध्यक्षं दानवकुल-
कुमुद-रविकर-सदृशम् ।
दीन-जनावन-दीक्षं पवन
तपः पाकपुञ्जमद्राक्षम् ॥

एतत्-पवन-सुतस्य स्तोत्रं यः
पठति पञ्चरत्नाख्यम् ।
चिरमिह-निखिलान् भोगान् भुङ्क्त्वा
श्रीराम-भक्ति-भाग्-भवति ॥

॥ इति श्रीमच्छंकर-भगवतः कृतौ
श्री हनुमत पञ्चरत्नं स्तोत्र संपूर्णम् ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री हनुमत पञ्चरत्नं स्तोत्र PDF

श्री हनुमत पञ्चरत्नं स्तोत्र PDF

Leave a Comment