Download HinduNidhi App
Misc

नवग्रह कवचम्

Navagraha Kavacham Hindi

MiscKavach (कवच संग्रह)हिन्दी
Share This

|| नवग्रह कवचम् ||

शिरो मे पातु मार्तांडो कपालं रोहिणीपतिः ।
मुखमंगारकः पातु कंठश्च शशिनंदनः ॥ 1 ॥

बुद्धिं जीवः सदा पातु हृदयं भृगुनंदनः ।
जठरं च शनिः पातु जिह्वां मे दितिनंदनः ॥ 2 ॥

पादौ केतुः सदा पातु वाराः सर्वांगमेव च ।
तिथयोऽष्टौ दिशः पांतु नक्षत्राणि वपुः सदा ॥ 3 ॥

अंसौ राशिः सदा पातु योगाश्च स्थैर्यमेव च ।
गुह्यं लिंगं सदा पांतु सर्वे ग्रहाः शुभप्रदाः ॥ 4 ॥

अणिमादीनि सर्वाणि लभते यः पठेद् धृवम् ।
एतां रक्षां पठेद् यस्तु भक्त्या स प्रयतः सुधीः ॥ 5 ॥

स चिरायुः सुखी पुत्री रणे च विजयी भवेत् ।
अपुत्रो लभते पुत्रं धनार्थी धनमाप्नुयात् ॥ 6 ॥

दारार्थी लभते भार्यां सुरूपां सुमनोहराम् ।
रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बंधनात् ॥ 7 ॥

जले स्थले चांतरिक्षे कारागारे विशेषतः ।
यः करे धारयेन्नित्यं भयं तस्य न विद्यते ॥ 8 ॥

ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः ।
सर्वपापैः प्रमुच्येत कवचस्य च धारणात् ॥ 9 ॥

नारी वामभुजे धृत्वा सुखैश्वर्यसमन्विता ।
काकवंध्या जन्मवंध्या मृतवत्सा च या भवेत् ।
बह्वपत्या जीववत्सा कवचस्य प्रसादतः ॥ 10 ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download नवग्रह कवचम् PDF

नवग्रह कवचम् PDF

Leave a Comment