श्रीनृसिंहसरस्वतीस्तोत्रम् २
|| श्रीनृसिंहसरस्वतीस्तोत्रम् २ || प्राग्ब्रह्म त्वमजोऽक्रियोऽपि बहुलं स्यामित्यभूद्धीस्तया सृष्ट्वैवाण्डभुवं ततो जगदिदं सृष्टं सधर्मं गुणैः । स्वैः स्वं भो रमयन्विहंसि सदरीनत्रावतीर्यानिशम् वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥ १॥ कल्याकृष्टहृदुझ्झितक्रतुनर-त्रस्ताध्वराशीर्मुदे प्रातः सूर्य इवोदितोऽस्यज महामोहान्धकारं ग्रसन् । सद्धर्माश्रमसेतुमत्र शिथिलप्रायं सुदार्ढ्यां नयन् वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥ २॥ सर्वानन्दनिधानरूपममलं स त्वं सुखं मूर्तिमत् प्रादुष्कृत्य जनत्रयान्तरमृग-क्रीडावनं पावनम्…



