|| श्रीरमणलहरी ||
॥ नमो भगवते श्रीमते रमणाय ॥
यतो जन्माद्यस्य प्रभवति च यः कूटनिलयो
मुदा यन्माहात्म्यं प्रणिगदति नित्यं श्रुतिगणः ।
शिवं शुद्धं शान्तं निरवधिसुखं सत्यममलं
परं वन्देऽहं तत्किमपि रमणाख्यं चितिमहः ॥ १॥
मतो हृत्पद्मोसावरुणगिरिराजोऽखिलभुवो
यदन्तश्चैतन्यं तदिह रमणो दक्षिणगतः ।
सतां सर्वेषां यो हृदि हि रमते स्वात्मकलया
नमस्तस्मै भूम्ने हृदयरमणायानवरतम् ॥ २॥
जडं देहं नश्यद्घटपटनिभं चिद्विरहितं
ततो नाहं तद्यन्न हि भवति सुप्तौ प्रतिदिनम् ।
अतः कोऽहं तत्त्वं त्विति वरधियान्वेषितवतः
सतः सोऽहंसस्फूर्तिर्हृदरुणगिरौ भाति रमणः ॥ ३॥
मनःसङ्कल्पोऽयं त्रिभुवनमयो दृश्यनिचयो
ममैते सङ्कल्पा इति शितधियाऽऽलोक्य सततम् ।
अहं को वेत्यन्तर्हृदि निजविमर्शे परिणते
चिदानन्दः सोऽहं स्फुरति भगवांस्तत्र रमणः ॥ ४॥
जराद्यूर्मिव्राताऽऽकुलविषमसंसारजलधे-
स्त्रिधातप्ताञ्जीवान्नरमृगखगाद्यान्करुणया ।
समुद्धर्तुं शोणाचलतटनिवासी कलियुगे
सदानन्दः सिद्धो जयति रमणाख्यः स भगवान् ॥ ५॥
अहिंसासिद्धान्तप्रणिहितदयाधर्मसयुजां
यतीनां बौद्धानां जिनदशवलाखण्डमतिनाम् ।
यिशूपद्भक्तानां तदनु रमणेशान भगवन्
जिनोऽसि त्वं बुद्धः क्रमश इह हीशामसिरसि ॥ ६॥
कुरानध्येत्रीणामिह जगति मोहम्मदगुरोः
समागच्छन्तीनां शमितमनसेस्लामविधितः ।
प्रजानां सम्प्राप्यं यदुत परमं दैवमुदितं
खुदाचालाहस्त्वं रमणभगवन्न्योमतनुमन् ॥ ७॥
पदार्थानूचे गौतममुनिवरः षोडशतया
कणादस्सप्तैवेत्यवददथ वैशेषिक ऋषिः ।
पदार्थानामेषां त्रिगुणविकृतानामणुभुवां
परं पारं ब्रह्मंस्त्वमसि रमणाशेषरमण ॥ ८॥
अनादी प्रोक्तौ हि प्रकृतिपुरुषौ विश्वजनकौ
ययोर्भेदज्ञानाद्भवति मनुजो मुक्तपुरुषः ।
इदं साङ्ख्यं ज्ञानं समकथयदादौ तु कपिल-
स्त्वमेवैतत्तत्त्वं परममसि कैवल्यरमण ॥ ९॥
अहिभ्रान्तीरज्ज्वां रजतधिषणा शुक्तिपुटके
तथैवं चिद्रूपे निरवधिसुखे विश्वकलना ।
इतीदं यत्तत्त्वं परमसुखदं शाङ्करमते
तदद्वैतं धाम त्वमसि भगवत्पाद रमण ॥ १०॥
जगद्रङ्गे चित्रे ललितपटमाल्यादिलसिते
नटास्त्वेते सर्वे स्थलजलखगाः प्राणिनिवहाः ।
महामायाऽजा या चपलचपला सैव सुनटी ।
महासूत्राचार्यो रमण सकलं त्वं भ्रमयसि ॥ ११॥
त्वमग्निस्त्वं सोमस्त्वमसि पवनस्त्वं जलमसि
त्वमर्कस्त्वं पृथ्वी वियदपि महत्तारकगणः ।
तथा विश्वे देवास्त्वमसि वरुणस्त्वं सुरपति-
र्यमो रुद्रोऽसि त्वं रमण धनदो गीष्पतिरसि ॥ १२॥
जगत्स्रष्टा ब्रह्मा भवसि भगवन् सृष्टिसमये
जगत्त्राता विष्णुस्त्वमसि किल विश्वम्भरवपुः ।
महादेवोऽसि त्वं निखिलभवसंहारविभव-
स्त्रयोऽप्येते देवास्तव रमण लीलाविलसिताः ॥ १३॥
शिवस्त्वं शैवानां हरिरसि मुकुन्दाङ्घिसुहृदां
भवानी शाक्तानां गणपभजकानां गणपतिः ।
रविस्त्वं सौराणामसि हुतवहस्त्वं हि यजतां
द्विजानां सावित्री वद रमण किं किं न भवसि ॥ १४॥
मणिद्वीपे नीपोपवनगतचिन्तामणिगृहे
समासीना पाशाङ्कुश वरभयापोहनभुजा ।
त्रिणेत्रा रक्ताभा शशधरकिरीटाऽतुलकृपा
स्मितास्या किं न त्वं रमण भुवनाधीश्वरवधूः ॥ १५॥
पिता पाता नेता त्वमसि विषमे साधनपथे
प्रभो माताऽसि त्वं ह्यनुपमदयामूर्तिरमला ।
गुरुस्त्वं चोद्धर्ता सुखरहित संसारजलधे-
स्त्रिरूपो भासि त्वं रमणभगवंस्ते पदजुषाम् ॥ १६॥
मुमुक्षूणां मान्या त्वमसि भगवन्मुक्तिलतिका
सुखेच्छूनां नॄणां त्वमसि सुखसोपानपदवी ।
मखासक्तानां त्वं ह्यसि विवृतवैतानकविधि-
स्तपोनिष्ठानां त्वं रमण महितः सिद्धिमहिमा ॥ १७॥
निराकारोऽपि त्वं भवसि विविधाकारविभव-
स्त्वमद्वैती द्वैती ननु लससि विश्वात्मकतनुः ।
त्वमेकोऽनेकात्मा स्फुरसि निखिलाकाररुचिरः
प्रकाशोऽदृश्यश्च त्वमसि रमणाचार्य भगवन् ॥ १८॥
विराडग्निर्विश्वस्त्वमसि महसा जाग्रति तथा
हिरण्यान्तः स्वप्ने भवसि पवनस्तैजस इति ।
सुषुप्तावीशस्त्वं दिनकरतनुः प्राज्ञ उदित-
स्तुरीये धाम्नि त्वं रमण हृदये ह्योमिति पदम् ॥ १९॥
मनो न त्वं बुद्धिर्न भवसि तया नेन्द्रियगण-
स्त्वहङ्कारो न त्वं प्रकृतिरसि न त्वं न विकृतिः ।
अविद्याऽनादिस्त्वं न भवसि न दृग्दृश्यनिचय-
श्चिदानन्दः सत्यं त्वमसि परमं ब्रह्मरमण ॥ २०॥
वसिष्ठो नैव त्वं भवसि न तथा गौतममुनि-
र्भरद्वाजोऽत्रिस्त्वं न हि बहुमतः कौशिक उत ।
न वा मारीचस्त्वं सुभग जमदग्निस्त्वमपि नो
महः सप्तर्षीणामयि रमण लोकोत्तरमसि ॥ २१॥
कलेर्दोषान्नानाकलुषमतिपाषण्डकलिते
विधर्मेऽस्मिन्विश्वे पिबति तव वाक्यामृतकणान् ।
जनौघः सर्वोऽपि श्रवणबलतस्तृप्तिमयते
प्रभावः सम्पूर्णस्तव रमण जागर्ति जगति ॥ २२॥
अहो धन्येयं ते जननवशतो भारतमही
ह्यवाची दिग्धन्या तव पदसरोजाङ्कनवशात् ।
शिवाकारो धन्यस्त्वरुणगिरिरुत्तुङ्ग शिखरो
महर्षे यत्र त्वं विहरसि सतामाप्त रमण ॥ २३॥
सुराः सिद्धाः साध्या यमनियमयुक्ताः सुतपसः
सुरर्षिब्रह्मर्षिप्रभृतय उतान्ये च यमिनः ।
मुहूर्ते ब्राह्मे तु श्रुतिमधुरनानास्तुतिपराः
नमन्ति त्वां ब्रह्मन् रमण करुणापूर्णजलधे ॥ २४॥
स्फुरच्छान्तिज्योत्स्नातुलितशिवकैलासमहिमा
लसत्कैवल्यश्रीहसितहरिवैकुण्ठगरिमा ।
विरागैश्चर्याभासुविजितसुधासागरयशाः
कृपाब्धेः शोणाद्रौ जयति रमणस्याश्रमवरः ॥ २५॥
कपोले वामे स्वं करकमलमाधाय विमले
शयानश्चोत्तानं क्षितिजगतनेत्राब्जयुगलः ।
ऋषिः शान्तः सोऽहंस्फुरणपरमानन्दमुदितः
शिवः पूर्णः साक्षी जयति रमणः शोणकटके ॥ २६॥
स्मितं वक्त्रे शुभ्रं करकमलमुद्रा सुखकरी
स्वभावस्थौ पादौ निजसहजभावस्थितमनाः ।
वसानः कौपीनं धवलमवधूताखिलतमाः
परात्मा शोणाद्रौ रमणभगवान्भाति भयहृत् ॥ २७॥
कटाक्षक्षेपस्ते हरति हृदयध्वान्तमखिलं
दयादृष्टिः पूर्णा प्रकटयति विज्ञानमिहिरम् ।
ददातीषद्धास्यं प्रणतमनुजायात्मपदवी-
ममेयस्ते धन्यो रमणमहिमा वागविषयः ॥ २८॥
रकारोऽग्निर्ब्रह्मन् दहति सहसा सञ्चितमलं
मकारश्चन्द्रोऽयं हरति तपनं सिञ्चति सुधाम् ।
णकारश्चार्को हन्त्यलघु निबिडाज्ञानतिमिरं
विभूतिस्त्वन्नाम्नो जयति रमणेशान जगति ॥ २९॥
समुद्धर्तुं लोकान्कलिमलहतांस्तप्तहृदयान्
सुराणां सेनानीः सदयमवतीर्णस्त्वमधुना ।
अवेक्ष्य प्रत्यक्षं रमणभगवंस्त्वामनुजगौ
कविः कण्ठेकाव्यो गणपतिमुनिस्सूरितिलकः ॥ ३०॥
प्रसादात्सम्प्रार्थ्यादपि सुरवरेभ्यस्तव कृपां
परं मत्त्वा छित्त्वा तृणमिव निजाज्ञाननिगडम् ।
विनिद्रश्चिद्रूपे निरवधिसुखे मज्जति सुधीः
स पुण्यानां मन्ये रमण परिणामः परगुरो ॥ ३१॥
असारे संसारे विषयमृगतृष्णाभ्रमितधी-
श्चरन्नानायोनौ प्रबलतरसत्कर्मवशतः ।
इदानीं सम्प्राप्तश्चरणकमलं ते भयहरं
महर्षे ब्रह्मर्षे रमणभगवस्त्वं हि शरणम् ॥ ३२॥
फलासक्तः कुर्वन्विविधमनिशं कर्म बहुधा
भ्रमन्नानातीर्थं भुवि बत पठञ्छास्त्रनिकरम् ।
अशान्तः सर्वत्राविदितनिजरूपोऽहमधुना
शरण्यं प्राप्तस्त्वां रमणभगवंस्त्वं हि शरणम् ॥ ३३॥
जपन्नानामन्त्रान्त्स्तवमपि सुराणां विरचयन्
लिखन्यन्त्रांस्तान्त्रं मतमपि विशन्वैदिकमुत ।
स्वरूपाज्ञानेन प्रबलतमसाच्छादितमति-
स्त्वयाभासां धाम्ना सदयमवलोक्योऽहमधुना ॥ ३४॥
महामोहेनाहो विषमविषयानेव भजतः
स्वतत्त्वावस्थानं त्यजत उदये दुर्लभतमम् ।
विहायान्तर्दृष्टिं बहिरविरतं धावत इह
प्रभो क्षन्तव्यं मे रमण चपलस्यापचरितम् ॥ ३५॥
त्रयी ज्ञानं योगस्त्विति विदितमार्गत्रयपरा
यथेच्छं गच्छन्तु स्वरुचिमनुसृत्यात्र मनुजाः ।
अहं तु त्वत्पादाम्बुजशरणदीक्षाविमलधी-
र्जगत्सर्वं लोके रमणभगवन्स्वप्नसदृशम् ॥ ३६॥
पथः सर्वान्हित्वा भ्रमणपरितप्तः श्रमयुतः
प्रपन्नोऽहं भक्तः पदसरसिजं ते ह्यभयदम् ।
शरण्यः शक्तो मां रमणभगवन्नोद्धरसि चे-
त्त्वदन्यं कं लोके शरणमधुना यामि कथय ॥ ३७॥
निबद्धं हृद्ग्रन्थिं मम सपदि सम्भेदय विभो
समस्तं सञ्छिन्धि त्वमथ भगवन् संशयमपि ।
क्षयं द्राक्सर्वाणि प्रणय मम कर्माणि दयया
परं त्वं स्वात्मानं प्रथय रमणेशान हृदये ॥ ३८॥
त्वमात्मा विश्वेषां हृदयकुहरे भासि विमलः
परात्मंस्ते दिव्यं पदसरसिजद्वन्द्वमधुना ।
प्रपन्नोऽस्मि ब्रह्मन् गुरुरमण मां शाधि कृपया
यथाहं गच्छेयं भवजलधिपारं तव पदम् ॥ ३९॥
अहं दैन्यागारस्त्वमसि विभवानां जननभू-
र्महामूढोऽहं त्वं ह्यसि निखिलविज्ञाननिलयः ।
पिपासाश्रान्तोऽहं त्वमसि शिवपीयूषलहरी
गुरुस्त्वं शिष्योऽहं रमणभगवन्पाहि दयया ॥ ४०॥
कराले सिंहास्ये यदि पतति हा प्राणिनिकरः
प्रणष्टो निर्जीवो भवति विकलश्च प्रकृतितः ।
तवाचार्यस्यैवं ह्यमलकरुणादृष्टिकलया
भवेन्नष्टो जीवो भुवि रमण मन्येऽद्भुतमिदम् ॥ ४१॥
मुमुक्षुर्जिज्ञासुर्य इह मनुजः पूर्वसुकृतैः
श्वपाको गोरुण्डो यवनकुलजो वा भवतु किम् ।
स याति त्वद्वक्त्रप्रसरदुपदेशात्मसुधया
परं मृत्योः पारं रमण तव साम्यं च भजति ॥ ४२॥
सभाष्यं सिद्धान्तं तव महितसद्दर्शनगतं
हृदा पायं पायं रमणभगवन् पण्डितगणः ।
प्रहृष्टस्तृप्तात्मा भवति गतसन्देहतिमिरो
न कस्मै त्वद्वाणी दिशति शिवकैवल्यपदवीम् ॥ ४३॥
कुतोऽयं संसारः प्रभवति कुतोऽज्ञानतिमिरं
कुतो जीवेशानौ भवति कथमद्वैतधिषणा ।
स्वतत्त्वस्य ज्ञाने किमिह गुरुशिष्यत्वकथनं
चिदानन्दाकारे जयति रमणे श्रीभगवति ॥ ४४॥
अनित्ये लोकेऽस्मिन्नसुखभरितेऽवाप्य जननं
परं नित्यं सत्यं हृदयरमणं शाश्वतसुखम् ।
भवन्तं प्राप्ता ये रमणभगवन् पुण्यपुरुषाः
कृतार्थत्वं तेषां कथमिव कवीन्द्रः कथयतु ॥ ४५॥
विदित्वा यं देवं तरति भुवि मृत्युं तनुधरो
यतो नान्यः पन्था इति भणति मुक्त्यै श्रुतिरपि ।
त्वमेवायं देवो हृदयरमणः सर्वजगतां
महात्मन्त्सम्पूज्ये जगति महिमा ते विजयते ॥ ४६॥
विना स्वात्मज्ञानं क्वचन मनुजः कोऽपि विमलां
कदाचिद्यात्युर्व्यां कथमपि न निर्वाणपदवीम् ।
इति ज्ञानज्योतिः प्रकटितवतो भारतभुवि
प्रभा ते ब्रह्माण्डे रमण लसतीशानयशसा ॥ ४७॥
अहं ब्रह्मास्मीति श्रुतिहृदि वचस्तत्त्वमसि चे-
त्ययं ह्यात्मा ब्रह्मेत्यपि गदितमित्थं यदमलम् ।
चिदानन्दः सत्यं तदसि रमण ब्रह्म परमं
ह्यहं त्वं त्वं चाहं ननु रमण नानास्ति किमिह ॥ ४८॥
परं ब्रह्मानन्दं विमलमनघं शाश्वतमजं
शिवं पूर्णं शान्तं परमशुभरूपं ह्यभिनवम् ।
प्रपञ्चातीतं शं त्रिगुणरहितं नित्यमुदितं
महर्षिं वन्दे श्रीरमणभगवन्तं हृदि मुदा ॥ ४९॥
नमस्ते पूर्णाय त्रिभुवनमयायाखिलविदे
नमस्ते नित्याय प्रकृतिरहितायात्ममहसे ।
नमस्ते शुद्धाय प्रणतजननाथाय विभवे
नमस्ते भूम्ने श्रीरमणगुरवे श्रीभगवते ॥ ५०॥
नमो मह्यं कर्त्रे निखिलभुवनाधारवपुषे
नमो मह्यं ज्ञात्रे वयुनमयरूपाय कवये ।
नुमो मह्यं धात्रे नगवरनिवासाय मुनये
नमो मह्यं भर्त्रे हृदयरमणायेह सततम् ॥ ५१॥
विशेषार्था लघ्वी “नरपतिमृगेन्द्रेण” भणिता
पुनाना स्वात्मानं रमणलहरीयं विजयते ।
अनेन स्तोत्रेण स्मरति रमणं यः शुभमतिः
प्रसादस्तस्यास्य प्रवहति परस्याखिलगुरोः ॥ ५२॥
इति श्रीनरेन्द्रकेसरिशर्मप्रणीता श्रीरमणलहरी ॥
श्रीरमणार्पणमस्तु ॥
Read in More Languages:- sanskritश्रीशिवानन्दलहरी
- sanskritशिव मानस पूजा स्तोत्र
- sanskritविश्वेशलहरी
- hindiआशुतोष शशाँक शेखर
- hindiशिव तांडव स्तोत्रम् अर्थ सहित
- hindiश्री शिवमानसपूजा स्तोत्रम् अर्थ सहित
- hindiश्री शिवमहिम्न स्तोत्रम् अर्थ सहित
- hindiश्री शिवाष्टकम् स्तोत्रम् अर्थ सहित
- hindiश्री शिवरक्षा स्तोत्रम्
- hindiश्री शिव पंचाक्षर स्तोत्रम्
- hindiश्री शिवमानसपूजा स्तोत्रम्
- sanskritश्री शिवसहस्रनाम स्तोत्रम्
- teluguశివతాండవ స్తోత్రానికి మూలం
- kannadaಶಿವ ತಾಂಡವ ಸ್ತೋತ್ರಮ್
- tamilசிவ தாண்டவ ஸ்தோத்திரம்
Found a Mistake or Error? Report it Now