|| देवाकृतं सङ्कष्टनाशनं गणेशस्तोत्रम् ||
॥ श्रीगणेशाय नमः ॥
देवा ऊचुः ।
नमो नमस्ते परमार्थरूप ! नमो नमस्तेऽखिलकारणाय ।
नमो नमस्तेऽखिलकारकाय सर्वेन्द्रियाणामधिवासिनेऽपि ॥ ४२॥
नमो नमो भूतमयाय तेऽस्तु नमो नमो भूतकृते सुरेश ! ।
नमो नमः सर्वधियां प्रबोध ! नमो नमो विश्वलयोद्भवाय ॥ ४३॥
नमो नमो विश्वभृतेऽखिलेश ! नमो नमः कारणकारणाय ।
नमो नमो वेदविदामदृश्य ! नमो नमः सर्ववरप्रदाय ॥ ४४॥
नमो नमो वागविचारभूत ! नमो नमो विघ्ननिवारणाय ।
नमो नमोऽभक्तमनोरथघ्न ! नमो नमो भक्तमनोरथज्ञ ॥ ४५॥
नमो नमोऽभक्तमनोरथेश ! नमो नमो विश्वविधानदक्ष ! ।
नमो नमो दैत्यविनाशहेतो ! नमो नमः सङ्कटनाशकाय ॥ ४६॥
नमो नमः कारुणिकोत्तमाय नमो नमो ज्ञानमयाय तेऽस्तु ।
नमो नमोऽज्ञानविनाशनाय नमो नमो भक्तविभूतिदाय ॥ ४७॥
नमो नमोऽभक्तविभूतिहन्त्रे नमो नमो भक्तविमोचनाय ।
नमो नमोऽभक्त विबन्धनाय नमो नमस्ते प्रविभक्तमूर्ते ॥ ४८॥
नमो नमस्तत्वविबोधकाय नमो नमस्तत्वविदुत्तमाय ।
नमो नमस्तेऽखिलकर्मसाक्षिणे नमो नमस्ते गुणनायकाय ॥ ४९॥
ब्रह्मोवाच ।
एवं स्तुतः सुरैर्देवो द्विरदानन ईश्वरः ।
उवाच परमप्रीतो हर्षयत् सुरसत्तमान् ॥ ५०॥
गणेश उवाच ।
स्तोत्रेण तपसा चैव सुराः सन्तुष्टिमागतः ।
ददामि सकलाभीष्टं तद् वृणुध्वं सुरेश्वराः ॥ ५१॥
देवा ऊचुः ।
यदि तुष्टोऽसि देवेश ! त्रिपुरं जहि दानवम् ।
सर्वेषामधिकारान् नो गृहीत्वा यस्तु तिष्ठति ॥ ५२॥
त्वयैवास्याभयं दत्तं सर्वामरसमूहतः ।
अतः स्म सङ्कटं प्राप्ताः सङ्कटान् मोचयाऽऽशु नः ॥ ५३॥
त्वामेव शरणं प्राप्ता एष एव वरो हि नः ।
गणेश उवाच ।
वारयिष्ये भयं सर्वं तस्माद् घोरतराद् हि वः ॥ ५४॥
भवत्कृतमिदं स्तोत्रमतिप्रीतिकरं मम ।
सङ्कष्टनाशनमिति विख्यातं च भविष्यति ॥ ५५॥
पठतां शृण्वतांचैव सर्वकामप्रदं नृणाम् ।
त्रिसन्ध्यं यः पठेदेतत् सङ्कष्टं नाप्नुयात क्वचित् ॥ ५६॥
इति देवाकृतं सङ्कष्टनाशनं गणेशस्तोत्रं सम्पूर्णम् ॥
Read in More Languages:- hindiऋणहर्ता श्री गणेश स्तोत्रम्
- marathiश्री गणपति अथर्वशीर्ष स्तोत्रम
- gujaratiશ્રી ગણપતિ અથર્વશીર્ષ સ્તોત્રમ
- hindiश्री गणपति अथर्वशीर्ष स्तोत्रम हिन्दी पाठ अर्थ सहित (विधि – लाभ)
- sanskritश्री भानुविनायक स्तोत्रम्
- hindiसिद्धि विनायक स्तोत्र
- tamilஶ்ரீ பா⁴நுவிநாயக ஸ்தோத்ரம்
- kannadaಶ್ರೀ ಭಾನುವಿನಾಯಕ ಸ್ತೋತ್ರಂ
- teluguశ్రీ భానువినాయక స్తోత్రం
- sanskritश्री अष्टविनायकस्तोत्रम्
- hindiएकदन्त शरणागति स्तोत्रम्
- englishShri Gajanana Stotram
- englishShri Ganeshashtak Stotram
- englishShri Ganadhipat Stotram
- hindiश्री गणाधिपत स्तोत्रम् अर्थ सहित
Found a Mistake or Error? Report it Now

