Shri Ganesh

देवाकृतं सङ्कष्टनाशनं गणेशस्तोत्रम्

Sankashtanashanam Ganeshastotram Devakrritam Sanskrit Lyrics

Shri GaneshStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| देवाकृतं सङ्कष्टनाशनं गणेशस्तोत्रम् ||

॥ श्रीगणेशाय नमः ॥

देवा ऊचुः ।
नमो नमस्ते परमार्थरूप ! नमो नमस्तेऽखिलकारणाय ।
नमो नमस्तेऽखिलकारकाय सर्वेन्द्रियाणामधिवासिनेऽपि ॥ ४२॥

नमो नमो भूतमयाय तेऽस्तु नमो नमो भूतकृते सुरेश ! ।
नमो नमः सर्वधियां प्रबोध ! नमो नमो विश्वलयोद्भवाय ॥ ४३॥

नमो नमो विश्वभृतेऽखिलेश ! नमो नमः कारणकारणाय ।
नमो नमो वेदविदामदृश्य ! नमो नमः सर्ववरप्रदाय ॥ ४४॥

नमो नमो वागविचारभूत ! नमो नमो विघ्ननिवारणाय ।
नमो नमोऽभक्तमनोरथघ्न ! नमो नमो भक्तमनोरथज्ञ ॥ ४५॥

नमो नमोऽभक्तमनोरथेश ! नमो नमो विश्वविधानदक्ष ! ।
नमो नमो दैत्यविनाशहेतो ! नमो नमः सङ्कटनाशकाय ॥ ४६॥

नमो नमः कारुणिकोत्तमाय नमो नमो ज्ञानमयाय तेऽस्तु ।
नमो नमोऽज्ञानविनाशनाय नमो नमो भक्तविभूतिदाय ॥ ४७॥

नमो नमोऽभक्तविभूतिहन्त्रे नमो नमो भक्तविमोचनाय ।
नमो नमोऽभक्त विबन्धनाय नमो नमस्ते प्रविभक्तमूर्ते ॥ ४८॥

नमो नमस्तत्वविबोधकाय नमो नमस्तत्वविदुत्तमाय ।
नमो नमस्तेऽखिलकर्मसाक्षिणे नमो नमस्ते गुणनायकाय ॥ ४९॥

ब्रह्मोवाच ।
एवं स्तुतः सुरैर्देवो द्विरदानन ईश्वरः ।
उवाच परमप्रीतो हर्षयत् सुरसत्तमान् ॥ ५०॥

गणेश उवाच ।
स्तोत्रेण तपसा चैव सुराः सन्तुष्टिमागतः ।
ददामि सकलाभीष्टं तद् वृणुध्वं सुरेश्वराः ॥ ५१॥

देवा ऊचुः ।
यदि तुष्टोऽसि देवेश ! त्रिपुरं जहि दानवम् ।
सर्वेषामधिकारान् नो गृहीत्वा यस्तु तिष्ठति ॥ ५२॥

त्वयैवास्याभयं दत्तं सर्वामरसमूहतः ।
अतः स्म सङ्कटं प्राप्ताः सङ्कटान् मोचयाऽऽशु नः ॥ ५३॥

त्वामेव शरणं प्राप्ता एष एव वरो हि नः ।
गणेश उवाच ।
वारयिष्ये भयं सर्वं तस्माद् घोरतराद् हि वः ॥ ५४॥

भवत्कृतमिदं स्तोत्रमतिप्रीतिकरं मम ।
सङ्कष्टनाशनमिति विख्यातं च भविष्यति ॥ ५५॥

पठतां श‍ृण्वतांचैव सर्वकामप्रदं नृणाम् ।
त्रिसन्ध्यं यः पठेदेतत् सङ्कष्टं नाप्नुयात क्वचित् ॥ ५६॥

इति देवाकृतं सङ्कष्टनाशनं गणेशस्तोत्रं सम्पूर्णम् ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download देवाकृतं सङ्कष्टनाशनं गणेशस्तोत्रम् PDF

देवाकृतं सङ्कष्टनाशनं गणेशस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App