Misc

शंकराचार्य भुजंग स्तोत्र

Shankaracharya Bhujangam Stotram Hindi Lyrics

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| शंकराचार्य भुजंग स्तोत्र ||

कृपासागरायाशुकाव्यप्रदाय प्रणम्राखिलाभीष्टसन्दायकाय।
यतीन्द्रैरुपास्याङ्घ्रिपाथोरुहाय प्रबोधप्रदात्रे नमः शङ्कराय।

चिदानन्दरूपाय चिन्मुद्रिकोद्यत्करायेशपर्यायरूपाय तुभ्यम्।
मुदा गीयमानाय वेदोत्तमाङ्गैः श्रितानन्ददात्रे नमः शङ्कराय।

जटाजूटमध्ये पुरा या सुराणां धुनी साद्य कर्मन्दिरूपस्य शम्भोः।
गले मल्लिकामालिकाव्याजतस्ते विभातीति मन्ये गुरो किं तथैव।

नखेन्दुप्रभाधूतनम्रालिहार्दान्धकार- व्रजायाब्जमन्दस्मिताय।
महामोहपाथोनिधेर्बाडबाय प्रशान्ताय कुर्मो नमः शङ्कराय।

प्रणम्रान्तरङ्गाब्जबोधप्रदात्रे दिवारात्रमव्याहतोस्राय कामम्।
क्षपेशाय चित्राय लक्ष्मक्षयाभ्यां विहीनाय कुर्मो नमः शङ्कराय।

प्रणम्रास्यपाथोजमोदप्रदात्रे सदान्तस्तमस्तोमसंहारकर्त्रे।
रजन्यामपीद्धप्रकाशाय कुर्मो ह्यपूर्वाय पूष्णे नमः शङ्कराय।

नतानां हृदब्जानि फुल्लानि शीघ्रं करोम्याशु योगप्रदानेन नूनम्।
प्रबोधाय चेत्थं सरोजानि धत्से प्रफुल्लानि किं भो गुरो ब्रूहि मह्यम्।

प्रभाधूतचन्द्रायुतायाखिलेष्टप्रदायानतानां समूहाय शीघ्रम्।
प्रतीपाय नम्रौघदुःखाघपङ्क्तेर्मुदा सर्वदा स्यान्नमः शङ्कराय।

विनिष्कासितानीश तत्त्वावबोधान्नतानां मनोभ्यो ह्यनन्याश्रयाणि।
रजांसि प्रपन्नानि पादाम्बुजातं गुरो रक्तवस्त्रापदेशाद्बिभर्षि।

मतेर्वेदशीर्षाध्वसम्प्रापकायानतानां जनानां कृपार्द्रैः कटाक्षैः।
ततेः पापबृन्दस्य शीघ्रं निहन्त्रे स्मितास्याय कुर्मो नमः शङ्कराय।

सुपर्वोक्तिगन्धेन हीनाय तूर्णं पुरा तोटकायाखिलज्ञानदात्रे।
प्रवालीयगर्वापहारस्य कर्त्रे पदाब्जम्रदिम्ना नमः शङ्कराय।

भवाम्भोधिमग्नाञ्जनान्दुःख- युक्ताञ्जवादुद्दिधीर्षुर्भवा- नित्यहोऽहम्।
विदित्वा हि ते कीर्तिमन्यादृशां भो सुखं निर्विशङ्कः स्वपिम्यस्तयत्नः।

Found a Mistake or Error? Report it Now

शंकराचार्य भुजंग स्तोत्र PDF

Download शंकराचार्य भुजंग स्तोत्र PDF

शंकराचार्य भुजंग स्तोत्र PDF

Leave a Comment

Join WhatsApp Channel Download App