|| शंकराचार्य करावलम्ब स्तोत्र ||
ओमित्यशेषविबुधाः शिरसा यदाज्ञां
सम्बिभ्रते सुममयीमिव नव्यमालाम्।
ओङ्कारजापरतलभ्यपदाब्ज स त्वं
श्रीशङ्करार्य मम देहि करावलम्बम्।
नम्रालिहृत्तिमिरचण्डमयूखमालिन्
कम्रस्मितापहृतकुन्दसुधांशुदर्प।
सम्राट यदीयदयया प्रभवेद्दरिद्रः
श्रीशङ्करार्य मम देहि करावलम्बम्।
मस्ते दुरक्षरततिर्लिखिता विधात्रा
जागर्तु साध्वसलवोऽपि न मेऽस्ति तस्याः।
लुम्पामि ते करुणया करुणाम्बुधे तां
श्रीशङ्करार्य मम देहि करावलम्बम्।
शम्पालतासदृशभास्वरदेहयुक्त
सम्पादयाम्यखिलशास्त्रधियं कदा वा।
शङ्कानिवारणपटो नमतां नराणां
श्रीशङ्करार्य मम देहि करावलम्बम्।
कन्दर्पदर्पदलनं कितवैरगम्यं
कारुण्यजन्मभवनं कृतसर्वरक्षम्।
कीनाशभीतिहरणं श्रितवानहं त्वां
श्रीशङ्करार्य मम देहि करावलम्बम्।
राकासुधाकरसमानमुखप्रसर्प–
द्वेदान्तवाक्यसुधया भवतापतप्तम्।
संसिच्य मां करुणया गुरुराज शीघ्रं
श्रीशङ्करार्य मम देहि करावलम्बम्।
यत्नं विना मधुसुधासुरदीर्घिकाव-
धीरिण्य आशु वृणते स्वयमेव वाचः।
तं त्वत्पदाब्जयुगलं बिभृते हृदा यः
श्रीशङ्करार्य मम देहि करावलम्बम्।
विक्रीता मधुना निजा मधुरता दत्ता मुदा द्राक्षया
क्षीरैः पात्रधियाऽर्पिता युधि जिताल्लब्धा बलादिक्षुतः।
न्यस्ता चोरभयेन हन्त सुधया यस्मादतस्तद्गिरां
माधुर्यस्य समृद्धिरद्भुततरा नान्यत्र सा वीक्ष्यते।
Found a Mistake or Error? Report it Now
