Shiva

श्रीशिवास्तुतिकदम्बम्

Shivastutikadambam Sanskrit

ShivaStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीशिवास्तुतिकदम्बम् ||

कमलानि साम्यमाप्तुं तप्यन्त्यद्यापि कण्ठदघ्नजले
यत्पादयोरहर्निशमनिशं नौमि तां राजराजेशीम् ॥ १॥

कमलासखकमलोद्भवकामारिप्रमुखनिर्जरैःसेव्याम् ।
विमलामतिलघुधिषणां ददतीं नौमि नम्राय कामाक्षीम् ॥ २॥

वलमानकदम्बमालिकां ललनामिन्दुशिखामणेः पराम् ।
तुलनारहितास्यपङ्कजां कलये चेतसि शैलराट्सुताम् ॥ ३॥

तामरसतुल्यचरणां श्यामपयोवाहकान्तिकचलसिताम् ।
सामनुतदिव्यचरितां सोमसमास्यां नमामि गिरिबालाम् ॥ ४॥

नयनजितपद्मगर्वे नय नतमेनं महापदवीम् ।
मतिमति महेशमानिनि मतिमन्मनुजार्च्यमानपदपद्मे ॥ ५॥

नारदमुखमुनिचिन्त्यां नीरदगर्वापहारिकेशततिम् ।
पारदसमानवर्णां शारदचन्द्राननां भजे गौरीम् ॥ ६॥

पङ्कजसमानवक्त्रामङ्कगतां बालचन्द्रचूडस्य ।
सङ्कर्षणादिविनुतां शङ्करचरणार्चनां नमामि शिवाम् ॥ ७॥

पाकारिमुखसुरेड्यां केकानीकाशवचनसद्भङ्गीम् ।
कोकारिशिशुवतंसां शोकापहरां नमामि शिवदयिताम् ॥ ८॥

बाहुजितपङ्कजस्रजमाहुर्यां कालिदासमुखकवयः ।
तां हुतवहाभवस्त्रां मुहुर्मुहुर्नमामि जगदम्बाम् ॥ ९॥

यवकोटिसूक्ष्मरूपे खजितपरपुष्टगर्वसर्वस्वे ।
नवनवकवित्वदायिनि शिवमानसहंसि मां पाहि ॥ १०॥

यावकसमानवर्णं तावकमम्बाङ्घ्रिपङ्कजद्वन्द्वम् ।
स्तावकसुखततिदं खलु पावकशशिसूर्यमण्डलान्तःस्थे ॥ ११॥

वाचां ततिं ददानां मोचां नीचां विधातुमतिचतुराम् ।
प्राचां वचसां गेयामाचान्ताघां नमामि गिरितनयाम् ॥ १२॥

पालितदिविजे पृथ्वीपालितनिजदासनिकुरुम्बे ।
पर्वतपतितनयेऽव सुपर्वतरोर्दर्पहरणचतुरे माम् ॥ १३॥

सरसिजमुखि नम्राग्रेसरसिद्धिविधायिनि क्षिप्रम् ।
भवजलधिपारदा त्वं भव जलजास्ये भवानि मम तरसा ॥ १४॥

इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीशिवास्तुतिकदम्बं सम्पूर्णम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download श्रीशिवास्तुतिकदम्बम् PDF

श्रीशिवास्तुतिकदम्बम् PDF

Leave a Comment

Join WhatsApp Channel Download App