Shiva

श्रीशिवास्तुतिकदम्बम्

Shivastutikadambam Sanskrit

Shiva ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीशिवास्तुतिकदम्बम् ||

कमलानि साम्यमाप्तुं तप्यन्त्यद्यापि कण्ठदघ्नजले
यत्पादयोरहर्निशमनिशं नौमि तां राजराजेशीम् ॥ १॥

कमलासखकमलोद्भवकामारिप्रमुखनिर्जरैःसेव्याम् ।
विमलामतिलघुधिषणां ददतीं नौमि नम्राय कामाक्षीम् ॥ २॥

वलमानकदम्बमालिकां ललनामिन्दुशिखामणेः पराम् ।
तुलनारहितास्यपङ्कजां कलये चेतसि शैलराट्सुताम् ॥ ३॥

तामरसतुल्यचरणां श्यामपयोवाहकान्तिकचलसिताम् ।
सामनुतदिव्यचरितां सोमसमास्यां नमामि गिरिबालाम् ॥ ४॥

नयनजितपद्मगर्वे नय नतमेनं महापदवीम् ।
मतिमति महेशमानिनि मतिमन्मनुजार्च्यमानपदपद्मे ॥ ५॥

नारदमुखमुनिचिन्त्यां नीरदगर्वापहारिकेशततिम् ।
पारदसमानवर्णां शारदचन्द्राननां भजे गौरीम् ॥ ६॥

पङ्कजसमानवक्त्रामङ्कगतां बालचन्द्रचूडस्य ।
सङ्कर्षणादिविनुतां शङ्करचरणार्चनां नमामि शिवाम् ॥ ७॥

पाकारिमुखसुरेड्यां केकानीकाशवचनसद्भङ्गीम् ।
कोकारिशिशुवतंसां शोकापहरां नमामि शिवदयिताम् ॥ ८॥

बाहुजितपङ्कजस्रजमाहुर्यां कालिदासमुखकवयः ।
तां हुतवहाभवस्त्रां मुहुर्मुहुर्नमामि जगदम्बाम् ॥ ९॥

यवकोटिसूक्ष्मरूपे खजितपरपुष्टगर्वसर्वस्वे ।
नवनवकवित्वदायिनि शिवमानसहंसि मां पाहि ॥ १०॥

यावकसमानवर्णं तावकमम्बाङ्घ्रिपङ्कजद्वन्द्वम् ।
स्तावकसुखततिदं खलु पावकशशिसूर्यमण्डलान्तःस्थे ॥ ११॥

वाचां ततिं ददानां मोचां नीचां विधातुमतिचतुराम् ।
प्राचां वचसां गेयामाचान्ताघां नमामि गिरितनयाम् ॥ १२॥

पालितदिविजे पृथ्वीपालितनिजदासनिकुरुम्बे ।
पर्वतपतितनयेऽव सुपर्वतरोर्दर्पहरणचतुरे माम् ॥ १३॥

सरसिजमुखि नम्राग्रेसरसिद्धिविधायिनि क्षिप्रम् ।
भवजलधिपारदा त्वं भव जलजास्ये भवानि मम तरसा ॥ १४॥

इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीशिवास्तुतिकदम्बं सम्पूर्णम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download श्रीशिवास्तुतिकदम्बम् PDF

श्रीशिवास्तुतिकदम्बम् PDF

Leave a Comment

Join WhatsApp Channel Download App