Shri Ram

श्रीकालूरामाचार्यनिर्मितं श्रीरामब्रह्माष्टकं

Shriramabrahmashtakamkaluramacharya Sanskrit

Shri RamAshtakam (अष्टकम संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीकालूरामाचार्यनिर्मितं श्रीरामब्रह्माष्टकं ||

नमस्कृत्य गुरं रामानन्दं भाष्यकृतं तथा ।
मुक्तिदमष्टकं कुर्वे श्रीरामब्रह्मणः शुभम् ॥ १॥

सर्जको जगतो यश्च जगतः पालकश्च यः ।
जगत्संहारको यश्च रामं ब्रह्म नमामि तम् ॥ २॥

येन सम्पादिता वेदाः प्रदत्ता ब्रह्मणे तथा ।
ब्रह्मा चोत्पादितो येन रामं ब्रह्म नमामि तम् ॥ ३॥

आमनन्ति च वेदा हि सर्वे नित्यं च यत्पदम् ।
श्रुतिवृन्दान्वितं रम्यं रामं ब्रह्म नमामि तम् ॥ ४॥

यस्यानन्दस्य वेत्ता हि न विभेति कुतश्चन ।
ध्येयानन्दमयं ध्येयं रामं ब्रह्म नमामि तम् ॥ ५॥

सर्वं भवति विज्ञातं यस्य विज्ञानतः किल ।
उपादानं हि सर्वेषां रामं ब्रह्म नमामि तम् ॥ ६॥

नरो यस्य प्रपत्त्या हि सर्वेभ्योऽभयतामियात् ।
सर्वशक्तिं च सर्वेशं रामं ब्रह्म नमामि तम् ॥ ७॥

यश्च लभ्यो हि सर्वेषां स्वभक्त्यैवार्चिरादिना ।
भजनीयं दयाम्भोधिं रामं ब्रह्म नमामि तम् ॥ ८॥

दिव्यदेहगुणो यश्च निर्दोषो दिव्यभूषणः ।
दिव्यधामप्रदं दिव्यं रामं ब्रह्म नमामि तम् ॥ ९॥

द्वारपीठेश्वरश्रीमत्कालूरामार्यनिर्मितः ।
पठतामष्टकं चेदं भवताद् भक्तिमुक्तिदम् ॥ १०॥

इति श्रीकालूरामाचार्यनिर्मितं श्रीरामब्रह्माष्टकं सम्पूर्णम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download श्रीकालूरामाचार्यनिर्मितं श्रीरामब्रह्माष्टकं PDF

श्रीकालूरामाचार्यनिर्मितं श्रीरामब्रह्माष्टकं PDF

Leave a Comment

Join WhatsApp Channel Download App