|| सिद्धि लक्ष्मी स्तुति ||
आकारब्रह्मरूपेण ओंकारं विष्णुमव्ययम् ।
सिद्धिलक्ष्मि! परालक्ष्मि! लक्ष्यलक्ष्मि नमोऽस्तु ते ॥
याः श्रीः पद्वने कदम्बशिखरे राजगृहे कुंजरे
श्वेते चाश्वयुते वृषे च युगले यज्ञे च यूपस्थिते ।
शंखे देवकुले नरेन्द्रभवने गंगातटे गोकुले
या श्रीस्तिष्ठति सर्वदा मम गृहे भूयात् सदा निश्चला ॥
या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी
गम्भीरावर्तनाभिः स्तनभरनमिता शुद्धवस्त्रोत्तरीया ।
लक्ष्मिर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैः स्नापिता हेमकुम्भै-
र्नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमांगल्ययुक्ता ॥
॥ इति सिद्धिलक्ष्मीस्तुतिः समाप्ता ॥
- hindiश्री महालक्ष्मी स्तुति
- malayalamമഹാലക്ഷ്മീ സ്തുതി
- teluguమహాలక్ష్మీ స్తుతి
- tamilமகாலட்சுமி ஸ்துதி
- kannadaಮಹಾಲಕ್ಷ್ಮೀ ಸ್ತುತಿ
- hindiमहालक्ष्मी स्तुति
- englishShri MhaLakshmi Stuti
Found a Mistake or Error? Report it Now