सोम स्तोत्र PDF हिन्दी
Download PDF of Soma Stotram Hindi
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ हिन्दी
सोम स्तोत्र हिन्दी Lyrics
|| सोम स्तोत्र ||
श्वेताम्बरोज्ज्वलतनुं सितमाल्यगन्धं
श्वेताश्वयुक्तरथगं सुरसेविताङ्घ्रिम्।
दोर्भ्यां धृताभयगदं वरदं सुधांशुं
श्रीवत्समौक्तिकधरं प्रणमामि चन्द्रम्।
आग्नेयभागे सरथो दशाश्वश्चात्रेयजो यामुनदेशजश्च।
प्रत्यङ्मुखस्थश्चतुरश्रपीठे गदाधरो नोऽवतु रोहिणीशः।
चन्द्रं नमामि वरदं शङ्करस्य विभूषणम्।
कलानिधिं कान्तरूपं केयूरमकुटोज्ज्वलम्।
वरदं वन्द्यचरणं वासुदेवस्य लोचनम्।
वसुधाह्लादनकरं विधुं तं प्रणमाम्यहम्।
श्वेतमाल्याम्बरधरं श्वेतगन्धानुलेपनम्।
श्वेतछत्रोल्लसन्मौलिं शशिनं प्रणमाम्यहम्।
सर्वं जगज्जीवयसि सुधारसमयैः करैः।
सोम देहि ममारोग्यं सुधापूरितमण्डलम्।
राजा त्वं ब्राह्मणानां च रमाया अपि सोदरः।
राजा नाथश्चौषधीनां रक्ष मां रजनीकर।
शङ्करस्य शिरोरत्नं शार्ङ्गिणश्च विलोचनम्।
तारकाणामधीशस्त्वं तारयाऽस्मान्महापदः।
कल्याणमूर्ते वरद करुणारसवारिधे।
कलशोदधिसञ्जात कलानाथ कृपां कुरु।
क्षीरार्णवसमुद्भूत चिन्तामणिसहोद्भव।
कामितार्थान् प्रदेहि त्वं कल्पद्रुमसहोदर।
श्वेताम्बरः श्वेतविभूषणाढ्यो गदाधरः श्वेतरुचिर्द्विबाहुः।
चन्द्रः सुधात्मा वरदः किरीटी श्रेयांसि मह्यं प्रददातु देवः।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowसोम स्तोत्र

READ
सोम स्तोत्र
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
