Misc

श्री धर्मशास्ता स्तोत्रम् (शृङ्गेरि जगद्गुरु विरचितम्)

Sri Dharma Sastha Stotram By Sringeri Jagadguru Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री धर्मशास्ता स्तोत्रम् (शृङ्गेरि जगद्गुरु विरचितम्) ||

जगत्प्रतिष्ठाहेतुर्यः धर्मः श्रुत्यन्तकीर्तितः ।
तस्यापि शास्ता यो देवस्तं सदा समुपाश्रये ॥ १ ॥

श्रीशङ्करार्यैर्हि शिवावतारैः
धर्मप्रचाराय समस्तकाले ।
सुस्थापितं शृङ्गमहीध्रवर्ये
पीठं यतीन्द्राः परिभूषयन्ति ॥ २ ॥

तेष्वेव कर्मन्दिवरेषु विद्या-
-तपोधनेषु प्रथितानुभावः ।
विद्यासुतीर्थोऽभिनवोऽद्य योगी
शास्तारमालोकयितुं प्रतस्थे ॥ ३ ॥

धर्मस्य गोप्ता यतिपुङ्गवोऽयं
धर्मस्य शास्तारमवैक्षतेति ।
युक्तं तदेतद्युभयोस्तयोर्हि
सम्मेलनं लोकहिताय नूनम् ॥ ४ ॥

कालेऽस्मिन् कलिमलदूषितेऽपि धर्मः
श्रौतोऽयं न खलु विलोपमाप तत्र ।
हेतुः खल्वयमिह नूनमेव नाऽन्यः
शास्ताऽस्ते सकलजनैकवन्द्यपादः ॥ ५ ॥

ज्ञानं षडास्यवरतातकृपैकलभ्यं
मोक्षस्तु तार्क्ष्यवरवाहदयैकलभ्यः ।
ज्ञानं च मोक्ष उभयं तु विना श्रमेण
प्राप्यं जनैः हरिहरात्मजसत्प्रसादात् ॥ ६ ॥

यमनियमादिसमेतैः यतचित्तैर्योगिभिः सदा ध्येयम् ।
शास्तारं हृदि कलये धातारं सर्वलोकस्य ॥ ७ ॥

शबरगिरिनिवासः सर्वलोकैकपूज्यः
नतजनसुखकारी नम्रहृत्तापहारी ।
त्रिदशदितिजसेव्यः स्वर्गमोक्षप्रदाता
हरिहरसुतदेवः सन्ततं शं तनोतु ॥ ८ ॥

इति शृङ्गेरि जगद्गुरु श्रीभारतीतीर्थमहास्वामि विरचितं धर्मशास्ता स्तोत्रम् ।

Found a Mistake or Error? Report it Now

श्री धर्मशास्ता स्तोत्रम् (शृङ्गेरि जगद्गुरु विरचितम्) PDF

Download श्री धर्मशास्ता स्तोत्रम् (शृङ्गेरि जगद्गुरु विरचितम्) PDF

श्री धर्मशास्ता स्तोत्रम् (शृङ्गेरि जगद्गुरु विरचितम्) PDF

Leave a Comment

Join WhatsApp Channel Download App