|| श्री ज्वालामुखी स्तोत्रम् – २ ||
जाज्वल्यमानवपुषा दशदिग्विभागान्
सन्दीपयन्त्यभयपद्मगदावराढ्या ।
सिंहस्थिता शशिकलाभरणा त्रिनेत्रा
ज्वालामुखी हरतु मोहतमः सदा नः ॥ १ ॥
आब्रह्मकीटजननीं महिषीं शिवस्य
मुग्धस्मितां प्रलयकोटिरविप्रकाशम् ।
ज्वालामुखीं कनककुण्डलशोभितांसां
वन्दे पुनः पुनरपीह सहस्रकृत्वः ॥ २ ॥
देदीप्यमानमुकुटद्युतिभिश्च देवै-
-र्दासैरिव द्विगुणिताङ्घ्रिनखप्रदीप्तिम् ।
ज्वालामुखीं सकलमङ्गलमङ्गलां ता-
-मम्बां नतोऽस्म्यखिलदुःखविपत्तिदग्ध्रीम् ॥ ३ ॥
क्षित्यब्हुताशपवनाम्बरसूर्यचन्द्र-
-यष्ट्राख्यमूर्तिममलानपि पावयन्तीम् ।
ज्वालामुखीं प्रणतकल्पलतां शिवस्य
साम्राज्यशक्तिमतुलां महतीं नमामि ॥ ४ ॥
नौमीश्वरीं त्रिजगतोऽभयदानशौण्डां
ज्वालामहार्यभवजालहरां नमामि ।
मोहान्धकारहरणे विमलेन्दुकान्तिं
देवीं सदा भगवतीं मनसा स्मरामि ॥ ५ ॥
दुष्कर्मवायुभिरितस्तत एव दीप्तैः
पापज्वलज्ज्वलनजातशिखाकलापैः ।
दग्धं च जीवयतु मां परितो लुठन्तं
देवी दयार्द्रहृदयामृतपूर्णदृष्ट्या ॥ ६ ॥
ज्वालामुखी ज्वलदनल्पलयाग्रिकोटि-
-रोचिष्मती रविशशिप्रतिभानकर्त्री ।
भक्तस्य भर्गवपुषा भवभर्जनाय
भूयात् सदाभ्युदयदानवदान्यमुख्या ॥ ७ ॥
त्वं चौषधीशमुकुटाऽहमसाध्यरोग-
-स्त्वं चित्प्रदीप्तिरहमत्र भवान्ध्यमग्नः ।
त्वं चाम्ब कल्पतरुरेवमहं च भिक्षु-
-र्ज्वलामुखि प्रकुरु देवि यथोचितं मे ॥ ८ ॥
यद्ध्यानकेसरिसमाक्रमणोत्थभीते-
-र्मर्मव्यथाजनकदुःखशतानि सद्यः ।
गोमायवन्ति परितो भृशकान्दिशीका-
-नस्मांश्च पालयतु सैव भवाब्धिदुःखात् ॥ ९ ॥
ज्वालामुखि क्षणमपीह विलम्बमम्ब
नार्तो ह्यनर्थपतितः सहते विपन्नः ।
हस्तस्थितामृतकमण्डलुवारिणैव
मां मूर्छितं झटिति जीवय तापतप्तम् ॥ १० ॥
बाह्यान्ध्यनाशनविधौ रविचन्द्रवाह्नि-
-ज्योतींषि देवि दयायाऽजनयः पुरा त्वम् ।
एतत्तु रूपमखिलान्तरमोहरात्रि-
-ध्वान्तान्तकारि तव यत् स्फुरतादतोऽन्तः ॥ ११ ॥
मन्ये त्रिधामनयने नयनत्रयं ते
भक्तार्तिनाशननिमित्तविलोकनाय ।
मातः परं यदपि देवि तथाप्यधन्य-
-स्त्वद्दृष्टिपातरहितोस्म्यहहाहतोऽस्मि ॥ १२ ॥
सत्यं ब्रवीमि शृणु चित्त मदान्ध मूर्ख
मा गाः कदापि विषयान्विषमान्विषाक्तान् ।
ईशीमपारकरुणां भवभीतिभेत्रि-
-मम्बां भजस्व सततं परसौख्यदात्रीम् ॥ १३ ॥
त्वं मे महेशि जननी परमार्तिहर्त्री
त्वं मे पिता हिततमस्त्वमहेतुबन्धुः ।
त्वं मे भवाब्धितरणे दृढनौस्त्वमेव
दुःखामयाधिहरणे चतुरश्च वैद्यः ॥ १४ ॥
ज्वालां जगज्जननसंहरणस्थितीनां
हेतुं गतिं मुषितलज्जितदुःखितानाम् ।
उन्मोचनां च भवबन्धनदुर्गतीनां
त्वां नौमि नौमि शरणं शरणागतानाम् ॥ १५ ॥
ज्वालामुखीस्तवमिमं शृणुयात्पठेद्वा
यः श्रद्धया परमया बहुभक्तियुक्तः ।
भूयात्स दग्धबहुजन्मशतार्जिताऽघो
-ऽविज्ञोप्यनेकजननाथितराज्यभूमिः ॥ १६ ॥
इति श्री ज्वालामुखी स्तोत्रम् ॥
Found a Mistake or Error? Report it Now