Download HinduNidhi App
Misc

मातङ्गी स्तोत्रम् (देवी षट्कम्)

Sri Matangi Stotram 4 Devi Shatkam Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

|| मातङ्गी स्तोत्रम् (देवी षट्कम्) ||

अम्ब शशिबिम्बवदने कम्बुग्रीवे कठोरकुचकुम्भे ।
अम्बरसमानमध्ये शम्बररिपुवैरिदेवि मां पाहि ॥ १ ॥

कुन्दमुकुलाग्रदन्तां कुङ्कुमपङ्केन लिप्तकुचभाराम् ।
आनीलनीलदेहामम्बामखिलाण्डनायकीं वन्दे ॥ २ ॥

सरिगमपधनिरतान्तां वीणासङ्क्रान्तचारुहस्तां ताम् ।
शान्तां मृदुलस्वान्तां कुचभरतान्तां नमामि शिवकान्ताम् ॥ ३ ॥

अवटुतटघटितचूलीताडिततालीपलाशताटङ्काम् ।
वीणावादनवेलाकम्पितशिरसं नमामि मातङ्गीम् ॥ ४ ॥

वीणारसानुषङ्गं विकचमदामोदमाधुरीभृङ्गम् ।
करुणापूरितरङ्गं कलये मातङ्गकन्यकापाङ्गम् ॥ ५ ॥

दयमानदीर्घनयनां देशिकरूपेण दर्शिताभ्युदयाम् ।
वामकुचनिहितवीणां वरदां सङ्गीत मातृकां वन्दे ॥ ६ ॥

स्मरेत् प्रथमपुष्पिणीं रुधिरबिन्दु नीलाम्बरां
गृहितमधुपात्रकां मदविघूर्णनेत्राञ्चलाम् ।
करस्फुरितवल्लकीं विमलशङ्खताटङ्किनीं
घनस्तनभरालसां गलितचेलिकां श्यामलाम् ॥ ७ ॥

सकुङ्कुमविलेपनामलकचुम्बिकस्तूरिकां
समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।
अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां
जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ॥ ८ ॥

माणिक्यवीणामुपलालयन्तीं
मदालसां मञ्जुलवाग्विलासाम् ।
माहेन्द्रनीलद्युतिकोमलाङ्गीं
मातङ्गकन्यां मनसा स्मरामि ॥ ९ ॥

इति देवीषट्कं नाम श्री मातङ्गी स्तोत्रम् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download मातङ्गी स्तोत्रम् (देवी षट्कम्) PDF

मातङ्गी स्तोत्रम् (देवी षट्कम्) PDF

Leave a Comment