Misc

श्री मातङ्गी स्तोत्रम्

Sri Matangi Stotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री मातङ्गी स्तोत्रम् ||

नमामि देवीं नवचन्द्रमौलिं
मातङ्गिनीं चन्द्रकलावतंसाम् ।
आम्नायवाक्यैः प्रतिपादनार्थे
प्रबोधयन्तीं शुकमादरेण ॥ १ ॥

कृतार्थयन्तीं पदवीं पदाभ्यां
आस्फालयन्तीं कलवल्लकीं ताम् ।
मातङ्गिनीं सद्धृदयान् धिनोमि
निलांशुकां शुद्धनितम्बचेलाम् ॥ २ ॥

तालीदलेनार्पित कर्णभूषां
माध्वीमदोद्घूर्णित नेत्रपद्माम् ।
घनस्तनीं शम्भुवधूं नमामि
तडिल्लताकान्तिमनर्घ्यभूषाम् ॥ ३ ॥

नमस्ते मातङ्ग्यै मृदुमुदित तन्व्यै तनुमतां
परश्रेयोदायै कमलचरणध्यानमनसाम् ।
सदा संसेव्यायै सदसिविबुधैर्दिव्यधिषणैः
दयार्द्रायै देव्यै दुरितदलनोद्दण्डमनसे ॥ ४ ॥

परं मातस्ते यो जपतिमनुमेवोग्रहृदयः
कवित्वं कल्पानां कलयति सुकल्पः प्रतिपदम् ।
अपि प्रायोरम्यां मृतमयपदायस्यललिता
वटीचाद्यावाणी नटति रसनायां च फलिता ॥ ५ ॥

सर्वलक्षणसम्युक्ता पुष्पिणीमर्चयेच्छिवे ।
मतङ्गमुनिनोक्तं च सद्यः सिद्धिकरं भुवि ॥ ६ ॥

इति श्री मातङ्गी स्तोत्रम् ।

Found a Mistake or Error? Report it Now

श्री मातङ्गी स्तोत्रम् PDF

Download श्री मातङ्गी स्तोत्रम् PDF

श्री मातङ्गी स्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App