Download HinduNidhi App
Misc

श्री मट्टपल्लि नृसिंहाष्टकम् (पुत्रप्राप्तिकरम्)

Sri Mattapalli Narasimha Stotram Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

|| श्री मट्टपल्लि नृसिंहाष्टकम् (पुत्रप्राप्तिकरम्) ||

प्रह्लादवरदं श्रेष्ठं राज्यलक्ष्म्या समन्वितम् ।
पुत्रार्थं प्रार्थये देवं मट्टपल्याधिपं हरिम् ॥ १ ॥

भरद्वाज हृदयान्ते वासिनं वासवानुजम् ।
पुत्रार्थं प्रार्थये देवं मट्टपल्याधिपं हरिम् ॥ २ ॥

सुश्रोण्या पूजितं नित्यं सर्वकामदुघं हरिम् ।
पुत्रार्थं प्रार्थये देवं मट्टपल्याधिपं हरिम् ॥ ३ ॥

महायज्ञस्वरूपं तं गुहायां नित्यवासिनम् ।
पुत्रार्थं प्रार्थये देवं मट्टपल्याधिपं हरिम् ॥ ४ ॥

कृष्णातीरविहारं तं कृष्णां रक्षितवान् स्वयम् ।
पुत्रार्थं प्रार्थये देवं मट्टपल्याधिपं हरिम् ॥ ५ ॥

यममोहितक्षेत्रेऽस्मिन् नित्यवासप्रियं परम् ।
पुत्रार्थं प्रार्थये देवं मट्टपल्याधिपं हरिम् ॥ ६ ॥

चक्रिणा पूजितं सम्यक् चक्रिणं सर्वतोमुखम् ।
पुत्रार्थं प्रार्थये देवं मट्टपल्याधिपं हरिम् ॥ ७ ॥

योगानन्दं नित्यानन्दं निगमागमसेवितम् ।
पुत्रार्थं प्रार्थये देवं मट्टपल्याधिपं हरिम् ॥ ८ ॥

श्रीनृसिंहं हृदि ध्यात्वा मुक्कूर् नृहरिणा कृतम् ।
ये पठन्त्यष्टकं नित्यं इष्टप्राप्तिर्भविष्यति ॥ ९ ॥

इति श्रीमुक्कूर् लक्ष्मीनृसिंहस्वामिना अनुगृहीतं पुत्रप्राप्तिकरं नाम श्री मट्टपल्लि नृसिंहाष्टकम् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री मट्टपल्लि नृसिंहाष्टकम् (पुत्रप्राप्तिकरम्) PDF

श्री मट्टपल्लि नृसिंहाष्टकम् (पुत्रप्राप्तिकरम्) PDF

Leave a Comment