Download HinduNidhi App
Misc

श्री नागेश्वर स्तुतिः

Sri Nageshwara Stuti Sanskrit

MiscStuti (स्तुति संग्रह)संस्कृत
Share This

|| श्री नागेश्वर स्तुतिः ||

यो देवः सर्वभूतानामात्मा ह्याराध्य एव च ।
गुणातीतो गुणात्मा च स मे नागः प्रसीदतु ॥ १ ॥

हृदयस्थोऽपि दूरस्थः मायावी सर्वदेहिनाम् ।
योगिनां चित्तगम्यस्तु स मे नागः प्रसीदतु ॥ २ ॥

सहस्रशीर्षः सर्वात्मा सर्वाधारः परः शिवः ।
महाविषस्यजनकः स मे नागः प्रसीदतु ॥ ३ ॥

काद्रवेयोमहासत्त्वः कालकूटमुखाम्बुजः ।
सर्वाभीष्टप्रदो देवः स मे नागः प्रसीदतु ॥ ४ ॥

पातालनिलयो देवः पद्मनाभसुखप्रदः ।
सर्वाभीष्टप्रदो यस्तु स मे नागः प्रसीदतु ॥ ५ ॥

नागनारीरतो दक्षो नारदादि सुपूजितः ।
सर्वारिष्टहरो यस्तु स मे नागः प्रसीदतु ॥ ६ ॥

पृदाकुदेवः सर्वात्मा सर्वशास्त्रार्थपारगः ।
प्रारब्धपापहन्ता च स मे नागः प्रसीदतु ॥ ७ ॥

लक्ष्मीपतेः सपर्यङ्कः शम्भोः सर्वाङ्गभूषणः ।
यो देवः पुत्रदो नित्यं स मे नागः प्रसीदतु ॥ ८ ॥

फणीशः परमोदारः शापपापनिवारकः ।
सर्वपापहरो यस्तु स मे नागः प्रसीदतु ॥ ९ ॥

सर्वमङ्गलदो नित्यं सुखदो भुजगेश्वरः ।
यशः कीर्तिं च विपुलां श्रियमायुः प्रयच्छतु ॥ १० ॥

मनोवाक्कायजनितं जन्मजन्मान्तरार्जितम् ।
यत्पापं नागदेवेश विलयं यातु सम्प्रति ॥ ११ ॥

नीरोगं देहपुष्टिं च सर्ववश्यं धनागमम् ।
पशुधान्याभिवृद्धिं च यशोवृद्धिं च शाश्वतम् ॥ १२ ॥

परवाक् स्तम्भिनीं विद्यां वाग्मित्वं सूक्ष्मबुद्धिताम् ।
पुत्रं वंशकरं श्रेष्ठं देहि मे भक्तवत्सल ॥ १३ ॥

इति श्री नागेश्वर स्तुतिः ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री नागेश्वर स्तुतिः PDF

श्री नागेश्वर स्तुतिः PDF

Leave a Comment