Download HinduNidhi App
Misc

श्री राघवेन्द्र अष्टकम्

Sri Raghavendra Ashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

|| श्री राघवेन्द्र अष्टकम् ||

जय तुङ्गातटवसते वर मन्त्रालयमूर्ते ।
कुरु करुणां मयि भीते परिमलततकीर्ते ॥

तव पादार्चनसक्ते तव नामामृतमत्ते
दिशदिव्यां दृशमूर्ते तव सन्तत भक्ते ॥

कृतगीतासुविवृत्ते कविजनसंस्तुतवृत्ते ।
कुरु वसतिं मम चित्ते परिवृत भक्तार्ते ॥

योगीन्द्रार्चितपादे योगिजनार्पितमोदे ।
तिम्मण्णान्वयचन्द्रे रमतां मम हृदयम् ॥

तप्तसुकाञ्चनसदृशे दण्डकमण्डलहस्ते ।
जपमालावरभूषे रमतां मम हृदयम् ॥

श्रीरामार्पितचित्ते काषायाम्बरयुक्ते ।
श्रीतुलसीमणिमाले रमतां मम हृदयम् ॥

मध्वमुनीडिततत्त्वं व्याख्यान्तं परिवारे ।
ईडेहं सततं मे सङ्कटपरिहारम् ॥

वैणिकवंशोत्तंसं वरविद्वन्मणिमान्यम् ।
वरदाने कल्पतरुं वन्दे गुरुराजम् ॥

सुशमीन्द्रार्यकुमारै-र्विद्येन्द्रैर्गुरुभक्त्या ।
रचिता श्रीगुरुगाथा सज्जनमोदकरी ॥

इति श्री सुविद्येन्द्रतीर्थ विरचित श्री राघवेन्द्र अष्टकम् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री राघवेन्द्र अष्टकम् PDF

श्री राघवेन्द्र अष्टकम् PDF

Leave a Comment