Sai Baba

श्री सायिनाथ अष्टकम्

Sri Sainath Ashtakam Hindi

Sai BabaAshtakam (अष्टकम संग्रह)हिन्दी
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री सायिनाथ अष्टकम् ||

पत्रिग्राम समुद्भूतं द्वारकामायि वासिनं
भक्ताभीष्टप्रदं देवं सायिनाथं नमाम्यहम् ॥

महोन्नत कुलेजातं क्षीराम्बुधि समे शुभे
द्विजराजं तमोघ्नं तं सायिनाथं नमाम्यहम् ॥

जगदुद्धारणार्थं यो नररूपधरो विभुः
योगिनं च महात्मानं सायिनाथं नमाम्यहम् ॥

साक्षात्कारे जये लाभे स्वात्मारामो गुरोर्मुखात्
निर्मलं मम गात्रं च सायिनाथं नमाम्यहम् ॥

यस्य दर्शन मात्रेण नश्यन्ति व्याधि कोटयः
सर्वे पापाः प्रणश्यन्ति सायिनाथं नमाम्यहम् ॥

नरसिंहादि शिष्याणां ददौ योऽनुग्रहं गुरुः
भवबन्धापहर्तारं सायिनाथं नमाम्यहम् ॥

धनाढ्यान् च दरिद्रान्यः समदृष्ट्येव पश्यति
करुणासागरं देवं सायिनाथं नमाम्यहम् ॥

समाधिस्थोपि यो भक्त्या समतीर्थार्थदानतः
अचिन्त्य महिमानन्तं सायिनाथं नमाम्यहम् ॥

|| इथी श्री सायिनाथ अष्टकम् ||

Read in More Languages:

Found a Mistake or Error? Report it Now

श्री सायिनाथ अष्टकम् PDF

Download श्री सायिनाथ अष्टकम् PDF

श्री सायिनाथ अष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App