Download HinduNidhi App
Misc

श्री शास्ता पञ्चाक्षर स्तोत्रम्

Sri Sastha Panchakshara Stotram Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

|| श्री शास्ता पञ्चाक्षर स्तोत्रम् ||

ओङ्कारमूर्तिमार्तिघ्नं देवं हरिहरात्मजम् ।
शबरीपीठनिलयं शास्तारं प्रणतोऽस्म्यहम् ॥ १ ॥

नक्षत्रनाथवदनं नाथं त्रिभुवनावनम् ।
नमिताशेषभुवनं शास्तारं प्रणतोऽस्म्यहम् ॥ २ ॥

मन्मथायुतसौन्दर्यं महाभूतनिषेवितम् ।
मृगयारसिकं शूरं शास्तारं प्रणतोऽस्म्यहम् ॥ ३ ॥

शिवप्रदायिनं भक्तदैवतं पाण्ड्यबालकम् ।
शार्दूलदुग्धहर्तारं शास्तारं प्रणतोऽस्म्यहम् ॥ ४ ॥

वारणेन्द्रसमारूढं विश्वत्राणपरायणम् ।
वेत्रोद्भासिकराम्भोजं शास्तारं प्रणतोऽस्म्यहम् ॥ ५ ॥

यक्षिण्यभिमतं पूर्णापुष्कलापरिसेवितम् ।
क्षिप्रप्रसादकं नित्यं शास्तारं प्रणतोऽस्म्यहम् ॥ ६ ॥

इति श्री शास्ता पञ्चाक्षर स्तोत्रम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री शास्ता पञ्चाक्षर स्तोत्रम् PDF

श्री शास्ता पञ्चाक्षर स्तोत्रम् PDF

Leave a Comment