Misc

श्री वरदराज स्तोत्रम्

Sri Varadaraja Stotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री वरदराज स्तोत्रम् ||

श्रीमद्वरदराजेन्द्रः श्रीवत्साङ्कः शुभप्रदः ।
तुण्डीरमण्डलोल्लासी तापत्रयनिवारकः ॥ १ ॥

सत्यव्रतक्षेत्रवासी सत्यसज्जनपोषकः ।
सर्गस्थित्युपसंहारकारी सुगुणवारिधिः ॥ २ ॥

हरिर्हस्तिगिरीशानो हृतप्रणवदुष्कृतः ।
तत्त्वरूपत्वष्टृकृत काञ्चीपुरवराश्रितः ॥ ३ ॥

ब्रह्मारब्धाश्वमेधाख्यमहामखसुपूजितः ।
वेदवेद्यो वेगवतीवेगभीतात्मभूस्तुतः ॥ ४ ॥

विश्वसेतुर्वेगवतीसेतुर्विश्वाधिकोऽनघः ।
यथोक्तकारिनामाढ्यो यज्ञभृद्यज्ञरक्षकः ॥ ५ ॥

ब्रह्मकुण्डोत्पन्नदिव्यपुण्यकोटिविमानगः ।
वाणीपत्यर्पितहयवपासुरभिलाधरः ॥ ६ ॥

वरदाभयहस्ताब्जो वनमालाविराजितः ।
शङ्खचक्रलसत्पाणिश्शरणागतरक्षकः ॥ ७ ॥

इमं स्तवं तु पापघ्नं पुरुषार्थप्रदायकम् ।
पठतां शृण्वतां भक्त्या सर्वसिद्धिर्भवेद्ध्रुवम् ॥ ८ ॥

इति श्रीनारदपुराणे वरदराजस्तोत्रम् ।

Found a Mistake or Error? Report it Now

श्री वरदराज स्तोत्रम् PDF

Download श्री वरदराज स्तोत्रम् PDF

श्री वरदराज स्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App