काली कर्पूर स्तोत्रम्
|| काली कर्पूर स्तोत्रम् || कर्पूरं मधमान्त्यस्वरपरिरहितं सेन्दुवामाक्षियुक्तं बीजं ते मातरेतत्त्रिपुरहरवधु त्रिःकृतं ये जपन्ति । तेषां गद्यानि पद्यानि च मुकुहुहरादुल्लसन्त्येव वाचः स्वच्छन्दं ध्वान्तधाराधरुरुचिरुचिरे सर्वसिद्धिं गतानाम्॥ १॥ ईशान सेन्दुवामश्रवणपरिगतो बीजमन्यन्महेशि! द्वन्द्वं ते मन्दचेता यदि जपति जनो वारूमेकं कदाचित् । जित्वा वाचामधीशं धनमपि चिरं मोहयन्नम्बुजाक्षीवृन्दं चन्द्रार्धचूडे प्रभवति स महाघोरबालावतंसे॥ २॥ ईशो वैश्वानरस्थः शशधरविलसद् वामनेत्रेण युक्तो बीजं ते…