दकारादि श्री दुर्गा सहस्रनाम स्तोत्रम्
|| दकारादि श्री दुर्गा सहस्रनाम स्तोत्रम् || श्री देव्युवाच । मम नाम सहस्रं च शिवपूर्वविनिर्मितम् । तत्पठ्यतां विधानेन तथा सर्वं भविष्यति ॥ १ ॥ इत्युक्त्वा पार्वती देवि श्रावयामास तच्च तान् । तदेव नामसाहस्रं दकारादि वरानने ॥ २ ॥ रोगदारिद्र्यदौर्भाग्यशोकदुःखविनाशकम् । सर्वासां पूजितं नाम श्रीदुर्गा देवता मता ॥ ३ ॥ निजबीजं भवेद्बीजं मन्त्रं कीलकमुच्यते । सर्वाशापूरणे…