सुदर्शन कवच PDF हिन्दी
Download PDF of Sudarshan Kavach Hindi
Misc ✦ Kavach (कवच संग्रह) ✦ हिन्दी
सुदर्शन कवच हिन्दी Lyrics
|| सुदर्शन कवच ||
प्रसीद भगवन् ब्रह्मन् सर्वमन्त्रज्ञ नारद।
सौदर्शनं तु कवचं पवित्रं ब्रूहि तत्त्वतः।
श्रुणुश्वेह द्विजश्रेष्ट पवित्रं परमाद्भुतम्।
सौदर्शनं तु कवचं दृष्टाऽदृष्टार्थ साधकम्।
कवचस्यास्य ऋषिर्ब्रह्मा छन्दोनुष्टुप् तथा स्मृतम्।
सुदर्शन महाविष्णुर्देवता सम्प्रचक्षते।
ह्रां बीजं शक्ति रद्रोक्ता ह्रीं क्रों कीलकमिष्यते।
शिरः सुदर्शनः पातु ललाटं चक्रनायकः।
घ्राणं पातु महादैत्य रिपुरव्यात् दृशौ मम।
सहस्रारः शृतिं पातु कपोलं देववल्लभः।
विश्वात्मा पातु मे वक्त्रं जिह्वां विद्यामयो हरिः।
कण्ठं पातु महाज्वालः स्कन्धौ दिव्यायुधेश्वरः।
भुजौ मे पातु विजयी करौ कैटभनाशनः।
षट्कोण संस्थितः पातु हृदयं धाम मामकम्।
मध्यं पातु महावीर्यः त्रिनेत्रो नाभिमण्डलम्।
सर्वायुधमयः पातु कटिं श्रोणिं महाध्युतिः।
सोमसूर्याग्नि नयनः ऊरु पातु च ममकौ।
गुह्यं पातु महामायः जानुनी तु जगत्पतिः।
जङ्घे पातु ममाजस्रं अहिर्बुध्न्यः सुपूजितः।
गुल्फौ पातु विशुद्धात्मा पादौ परपुरञ्जयः।
सकलायुध सम्पूर्णः निखिलाङ्गं सुदर्शनः।
य इदं कवचं दिव्यं परमानन्द दायिनम्।
सौदर्शनमिदं यो वै सदा शुद्धः पठेन्नरः।
तस्यार्थ सिद्धिर्विपुला करस्था भवति ध्रुवम्।
कूष्माण्ड चण्ड भूताध्याः येच दुष्टाः ग्रहाः स्मृताः।
पलायन्तेऽनिशं पीताः वर्मणोस्य प्रभावतः।
कुष्टापस्मार गुल्माद्याः व्यादयः कर्महेतुकाः।
नश्यन्त्येतन् मन्त्रिताम्बु पानात् सप्त दिनावधि।
अनेन मन्त्रिताम्मृत्स्नां तुलसीमूलः संस्थिताम्।
ललाटे तिलकं कृत्वा मोहयेत् त्रिजगन् नरः।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowसुदर्शन कवच

READ
सुदर्शन कवच
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
