विष्णु दशावतार स्तुति PDF हिन्दी
Download PDF of Vishnu Dashavatara Stuti Hindi
Misc ✦ Stuti (स्तुति संग्रह) ✦ हिन्दी
विष्णु दशावतार स्तुति हिन्दी Lyrics
|| विष्णु दशावतार स्तुति ||
मग्ना यदाज्या प्रलये पयोधा बुद्धारितो येन तदा हि वेदः।
मीनावताराय गदाधराय तस्मै नमः श्रीमधुसूदनाय।
कल्पान्तकाले पृथिवीं दधार पृष्ठेऽच्युतो यः सलिले निमग्नाम्।
कूर्मावताराय नमोऽस्तु तस्मै पीताम्बराय प्रियदर्शनाय।
रसातलस्था धरणी किलैषा दंष्ट्राग्रभागेन धृता हि येन।
वराहरूपाय जनार्दनाय तस्मै नमः कैटभनाशनाय।
स्तम्भं विदार्य प्रणतं हि भक्तं रक्ष प्रह्लादमथो विनाश्य।
दैत्यं नमो यो नरसिंहमूर्तिर्दीप्तानलार्कद्युतये तु तस्मै।
छलेन योऽजश्च बलिं निनाय पातालदेशं ह्यतिदानशीलम्।
अनन्तरूपश्च नमस्कृतः स मया हरिर्वामनरूपधारी।
पितुर्वधामर्षरर्येण येन त्रिःसप्तवारान्समरे हताश्च।
क्षत्राः पितुस्तर्पणमाहितञ्च तस्मै नमो भार्गवरूपिणे ते।
दशाननं यः समरे निहत्य,बद्धा पयोधिं हरिसैन्यचारी।
अयोनिजां सत्वरमुद्दधार सीतापतिं तं प्रणमामि रामम्।
विलोलनेनं मधुसिक्तवक्त्रं प्रसन्नमूर्तिं ज्वलदर्कभासम्।
कृष्णाग्रजं तं बलभद्ररूपं नीलाम्बरं सीरकरं नमामि।
पद्मासनस्थः स्थिरबद्धदृष्टिर्जितेन्द्रियो निन्दितजीवघातः।
नमोऽस्तु ते मोहविनाशकाय जिनाय बुद्धाय च केशवाय।
म्लेच्छान् निहन्तुं लभते तु जन्म कलौ च कल्की दशमावतारः।
नमोऽस्तु तस्मै नरकान्तकाय देवादिदेवाय महात्मने च।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowविष्णु दशावतार स्तुति
READ
विष्णु दशावतार स्तुति
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
