श्री विष्णु पादादिकेशान्तवर्णन स्तोत्रम् PDF संस्कृत

Download PDF of Vishnu Padadi Kesantha Varnana Stotram Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत

|| श्री विष्णु पादादिकेशान्तवर्णन स्तोत्रम् || लक्ष्मीभर्तुर्भुजाग्रे कृतवसति सितं यस्य रूपं विशालं नीलाद्रेस्तुङ्गशृङ्गस्थितमिव रजनीनाथबिम्बं विभाति । पायान्नः पाञ्चजन्यः स दितिसुतकुलत्रासनैः पूरयन्स्वै- -र्निध्वानैर्नीरदौघध्वनिपरिभवदैरम्बरं कम्बुराजः ॥ १ ॥ आहुर्यस्य स्वरूपं क्षणमुखमखिलं सूरयः कालमेतं ध्वान्तस्यैकान्तमन्तं यदपि च परमं सर्वधाम्नां च धाम । चक्रं तच्चक्रपाणेर्दितिजतनुगलद्रक्तधाराक्तधारं शश्वन्नो विश्ववन्द्यं वितरतु विपुलं शर्म धर्मांशुशोभम् ॥ २ ॥ अव्यान्निर्घातघोरो हरिभुजपवनामर्शनाध्मातमूर्ते- -रस्मान्विस्मेरनेत्रत्रिदशनुतिवचःसाधुकारैः सुतारः ।...

READ WITHOUT DOWNLOAD
श्री विष्णु पादादिकेशान्तवर्णन स्तोत्रम्
Share This
Download this PDF