Download HinduNidhi App
Misc

श्री सायिबाबा प्रार्थनाष्टकम्

Sai Baba Prarthana Ashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

|| श्री सायिबाबा प्रार्थनाष्टकम् ||

शान्तचित्ता महाप्रज्ञा सायिनाथा दयाघना ।
दयासिन्धो सत्स्वरूपा मायातमविनाशक ॥ १ ॥

जातिगोत्रातीतसिद्धा अचिन्त्यकरुणालया ।
पाहि मां पाहि मां नाथा शिर्डी ग्रामनिवासया ॥ २ ॥

ज्ञानसूर्य ज्ञानदाता सर्वमङ्गलकारका ।
भक्तचित्तमरालस्त्वं शरणागतरक्षका ॥ ३ ॥

सृष्टिकर्ता विधाता त्वं पाता त्वं इन्दिरापतिः ।
जगत्रयं लयं नेता रुद्रस्त्वं सुनिश्चितम् ॥ ४ ॥

वसुधायां वित्तस्थानं कुत्र नास्ति त्वया विना ।
सर्वज्ञस्त्वं सायिनाथ सर्वेषां हृदये असि ॥ ५ ॥

सर्वापराधान् क्षमस्व त्वं इयं मे अस्ति याचना ।
अभक्तिसंशययोः लहरी शीघ्रं शीघ्रं निवारय ॥ ६ ॥

त्वं धेनुः बालवत्सोहं चन्द्रश्चन्द्रमणिस्तथा ।
गङ्गासदृश त्वत्पादान् सादरं प्रणमाम्यहम् ॥ ७ ॥

निधेहि शिरसि मे त्वं कृपयाः करपञ्जरम् ।
शोकचिन्तापहर त्वं गणो हि किङ्करस्तवः ॥ ८ ॥ [गणुरेषः]

॥ इति श्री सायिनाथ प्रार्थनाष्टकम् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री सायिबाबा प्रार्थनाष्टकम् PDF

श्री सायिबाबा प्रार्थनाष्टकम् PDF

Leave a Comment