|| देवाकृता श्रीगजाननस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
देवा ऊचुः ।
गजाननाय पूर्णाय साङ्ख्यरूपमयाय ते ।
विदेहेन च सर्वत्र संस्थिताय नमो नमः ॥ २२॥
अमेयाय च हेरम्बाय ते परशुधारक ।
मूषकवाहनायैव विघ्नेशाय नमो नमः ॥ २३॥
अनन्तविभवायैव परेषां पररूपिणे ।
गुहाग्रजाय देवाय शिवपुत्राय ते नमः ॥ २४॥
पार्वतीनन्दनायैव देवानां पालकाय ते ।
सर्वेषां पूज्यदेहाय गणेशाय नमो नमः ॥ २५॥
स्वानन्दवासिने तुभ्यं शिवस्य कुलदैवत ।
विष्ण्वादीनां विशेषेण कुलदेवाय ते नमः ॥ २६॥
योगाकाराय सर्वेषां योगशान्तिप्रदाय च ।
ब्रह्मेशाय नमस्तुभ्यं ब्रह्मभूयप्रदाय ते ॥ २७॥
सिद्धिबुद्धिपते नाथ सिद्धिबुद्धिप्रदायिने ।
मायिने मायिकेभ्यश्च मोहदाय नमो नमः ॥ २८॥
लम्बोदराय वै तुभ्यं सर्वोदरगताय च ।
अमायिने च मायाया आधाराय नमो नमः ॥ २९॥
गजः सर्वस्य बीजं यत्तेन चिह्नेन विघ्नप ।
योगिनस्त्वां प्रजानन्ति तदाकारा भवन्ति ते ॥ ३०॥
तेन त्वं गजवक्त्रश्च किं स्तुमस्त्वां गजानन ।
वेदादयो विकुण्ठाश्च शङ्कराद्याश्च देवपाः ॥ ३१॥
शुकादयश्च शेषाद्याः स्तोतुं शक्ता भवन्ति न ।
तथापि संस्तुतोऽसि त्वं स्फूर्त्या त्वद्दर्शनात्मना ॥ ३२॥
गजाननं प्रणेमुस्तमेवमुक्त्वा शिवादयः ।
स तानुवाच प्रीतात्मा भक्तिभावेन तोषितः ॥ ३३॥
(फलश्रुतिः)
श्रीगजानन उवाच ।
भवत्कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् ।
पठते शृण्वते देवा ब्रह्मभूयप्रदायकम् ॥ ३४॥
इति देवाकृता श्रीगजाननस्तुतिः सम्पूर्णा ॥
Read in More Languages:- hindiवक्रतुंड स्तुति
- sanskritश्री विनायक स्तुतिः
- tamilஶ்ரீ விநாயக ஸ்துதி꞉
- kannadaಶ್ರೀ ವಿನಾಯಕ ಸ್ತುತಿಃ
- teluguశ్రీ వినాయక స్తుతిః
- sanskritश्री हेरम्ब स्तुति
- sanskritगोकर्ण गणाधिपस्तुती
- sanskritस्वायम्भुवकृता श्रीगणेशस्तुतिः
- sanskritससर्वस्वानन्दकृता श्रीगणेशस्तुतिः
- sanskritसर्वेकृता श्रीगणेशस्तुतिः
- sanskritश्र्योङ्काराकृता श्रीगणेशस्तुतिः
- sanskritशौनकौर्वौकृता श्रीगणेशस्तुतिः
- sanskritशेषकृता श्रीगणेशस्तुतिः
- sanskritशिवकृता श्रीगणेशस्तुतिः
- sanskritशनिश्चरकृता श्रीगणेशस्तुतिः
Found a Mistake or Error? Report it Now

