Shri Ganesh

काशिराजकृता श्रीगणेशस्तुतिः

Ganeshastutih Kashirajakrrita Sanskrit

Shri GaneshStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| काशिराजकृता श्रीगणेशस्तुतिः ||

नृप उवाच ।
नमामि ते नाथ पदारविन्दं ब्रह्मादिभिर्ध्येयतमं शिवाय ।
यत्पद्मपाशासिपरश्वधादि(सु)चिह्नितं विघ्नहरं निजानाम् ॥ २७॥

यदर्च्यते विष्णुशिवादिभिः सुरैरनेककार्यार्थकरैर्नरैश्च ।
अनेकशो विघ्नविनाशदक्षं संसारतप्तामृतवृष्टिकारि ॥ २८॥

नमामि ते नाथ मुखारविन्दं त्रिलोचनं वह्निरवीन्दुतारम् ।
कृपाकटाक्षामृतसेचनेन तापत्रयोन्मूलनदृष्टशक्ति ॥ २९॥

नमामि ते नाथ करारविन्दमनेकहेतिक्षतदैत्यसङ्घम् ।
अनेकभक्ताभयदं सुरेश ! संसारकूपोत्तरणावलम्बम् ॥ ३०॥

त्वमेव सत्त्वात्मतया बिभर्षि सृजस्यजो राजसतामवाप्य ।
तमोगुणाधारतया च हंसि चराचरं ते वशगं गणेश ॥ ३१॥

यः शुद्धचेता भजतेऽनिशं त्वामाक्रम्य विघ्नान् परिधावसि त्वम् ।
स त्वां वशे कृत्य सुखं हि शेते वत्सं यथा गौरिव धावसि त्वम् ॥ ३२॥

येऽन्ये भजन्तः समवाप्य तापान् संसारचक्रे बहुधा भ्रमन्तः ।
कदापि तेऽनुग्रहमाप्य तेऽपि भजन्ति मानुष्यमवाप्य तेऽपि ॥ ३३॥

धरारजः कोऽपि मिमीत नाके तारा गणं वारिमुचां चधाराः ।
नालं गुणानां गणानां हि कर्तुं शेषो विधाता तव वर्षपूगैः ॥ ३४॥

निराकृतेस्ते यदि नाकृतिः स्यादुपासनाकर्मविधिर्वृथा स्यात् ।
गुणप्रपञ्चः प्रकृतेर्विलासो जनस्य भोगश्च तथा कथं स्यात् ॥ ३५॥

सत्सङ्गतिश्चेत् सदनुग्रहः स्यात् सकर्मनिष्ठा सदनुस्मृतिश्च ।
चित्तस्य शुद्धिर्महती कृपा ते ज्ञानं विमुक्तिश्च न दुर्लभा स्यात् ॥ ३६॥

क उवाच ।
इति स्तोत्रं समाकर्ण्य परितुष्टो विनायकः ।
उवाच काशीराजं स वरं वृणु हृदि स्थितम् ॥ ३७॥

नृप उवाच ।
जातं वरस्य कृत्यं मे यत्राहं हि समागतः ।
इतः पुनर्जन्ममृती न स्यातां तद् विधीयताम् ॥ ३८॥

फलश्रुतिः –
क उवाच ।
स्तोत्रेण प्रीतस्तं प्राह तथेति दिव्यदेहिनम् ।
स्थापयामास निकटे कल्पकोटियुगावधि ॥ ३९॥

मुने ! स्तोत्रं मया तस्मात् प्राप्तं तस्य प्रसादतः ।
नारदाय मया प्रोक्तं नारदो गौतमाय च ॥ ४०॥

प्राह सोऽपि मुनीन् सर्वान् सर्वकामफलप्रदम् ।
ज्ञानदं मोक्षदं विघ्ननाशनं पावनं परम् ॥ ४१॥

यः पठेत् स लभेद्भक्तिं गणेशसन्निधौ नरः ।
विद्याकामो लभेद् विद्यां त्रिसन्ध्यं यः पठेन्नरः ॥ ४२॥

पुत्रकामो लभेत् पुत्रान् जयकामो लभेज्जयम् ।
एवं सर्वं समाख्यातं यद् यत् पृष्टं त्वया मुने ॥ ४३॥

इति काशिराजकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download काशिराजकृता श्रीगणेशस्तुतिः PDF

काशिराजकृता श्रीगणेशस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App