Shri Ganesh

ब्रह्माण्यकृता श्रीगणेशस्तुतिः

Ganeshastutih Brahmanyakrrita Sanskrit

Shri GaneshStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| ब्रह्माण्यकृता श्रीगणेशस्तुतिः ||

॥ श्रीगणेशाय नमः ॥

ब्रह्माण्यूचुः ।
नमस्ते परेशाय विघ्नाधिपाय परेषां सदा सौख्यदात्रे हिताय ।
स्वसंवेद्यरूपाय चानन्ददाय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ १९॥

अनाथाय नाथाय सर्वात्मनां ते सदा मोहहीनाय नेतिधराय ।
शिवायाथ त्रैविध्यभावप्रदात्रे निजानन्दयोगाय ढुण्ढे नमस्ते ॥ २०॥

समायाथ मायास्वरूपाय द्वन्द्वप्रकाशाय सर्वात्मकायैव विष्णो ।
महानन्दरूपाय सर्वातिगाय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ २१॥

सदा सत्यरूपाय सर्वात्मने ते विकारैर्विहीनाय सूर्याय भूम्ने ।
अनन्ताय भेदादिभिर्वर्जिताय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ २२॥

अपारस्वरूपाय नानामयाय विहारेषु सक्ताय पूर्णात्मकाय ।
महाशक्तये शक्तिरूपाय मोहिन् निजानन्दयोगाय ढुण्ढे नमस्ते ॥ २३॥

निरोधस्वरूपां समास्थाय बुद्धिं निजानन्दभ्रान्तिप्रदां सिद्धिरूपाम् ।
प्रविश्यैव तुर्येषु बिम्बात्मकाय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ २४॥

ततः साङ्ख्यरूपं विनिर्माय तुर्यैस्तदाकाररूपाय वै बोधकाय ।
सदा स्वात्मनिष्ठाय सङ्कल्पहन्त्रे निजानन्दयोगाय ढुण्ढे नमस्ते ॥ २५॥

ततो बोधरूपं विनिर्माय बोधस्वरूपाय मायामयाकारधाम्ने ।
सदा खेलकायाथ नानाप्रचारिन्निजानन्दयोगाय ढुण्ढे नमस्ते ॥ २६॥

ततो देहिरूपाय निर्माय तं वै सदैकप्रबोधाय भ्रान्तेर्धराय ।
स्वतो भ्रान्तिहीनाय सोऽहम्प्रदाय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ २७॥

ततो बिन्दुमात्राय निर्माय बिन्दुं चतुर्धा चतुष्पादरूपेण खेलिन् ।
अनन्तस्वरूपाय देहप्रचार निजानन्दयोगाय ढुण्ढे नमस्ते ॥ २८॥

ततो नादरूपं विनिर्माय नादस्वरूपाय तत्स्थाय चैतन्यदाय ।
अजायाथ त्रैविध्यदेहस्थिताय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ २९॥

समास्थाय बाह्यान्तरे संस्थिताय विनिर्माय सौषुप्तरूपं परात्मन् ।
तदाकाररूपेण चानन्ददाय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ ३०॥

सदा स्वप्नरूपाय सर्वान्तरस्थाय सूक्ष्माय सत्त्वात्मने खेलकाय ।
विनिर्माय सूक्ष्मं त्रिधा संस्थिताय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ ३१॥

नमस्ते प्रभो स्थूलरूपाय तत्र विनिर्माय जागृत्तदाकाररूप ।
सदा ह्यन्नभूताय बाह्यात्मकाय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ ३२॥

गणांस्ते गणेशात्मरूपेण सृष्टांस्तवांशांश्च तान् रक्ष ब्रह्मेश दासान् ।
सदा पादपद्मे रतांस्ते कुरुष्व निजानन्दयोगाय ढुण्ढे नमस्ते ॥ ३३॥

गजाकारतुण्डाय लम्बोदराय चतुर्बाहवे शूर्पकर्णाय तुभ्यम् ।
त्रिनेत्राय पाशाङ्कुशाद्यैर्युताय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ ३४॥

नराकाररूपाय कण्ठादधस्तात्तथा ह्येकदन्ताय रक्ताम्बराय ।
महाऽऽखुध्वजायाऽऽखुवाहाय नित्यं निजानन्दयोगाय ढुण्ढे नमस्ते ॥ ३५॥

अनन्तप्रसूतिश्च ते वामभागे महासिद्धिरूपा तथा दक्षिणाङ्गे ।
धृते पूर्णमाये परे देवदेव निजानन्दयोगाय ढुण्ढे नमस्ते ॥ ३६॥

स्वसंवेद्यनाम्नि पुरे संस्थिताय प्रमोदादिभिः सेव्यमानाय तुभ्यम् ।
तथेक्षोः समुद्रे सुलीलाकराय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ ३७॥

समाधिस्वरूपं गणेशं स्तुवीमः कथं ब्रह्मणां ब्रह्मभूतं महात्मन् ।
तथापि स्वबुद्ध्या प्रमाणैः स्तुतोऽसि निजानन्दयोगाय ढुण्ढे नमस्ते ॥ ३८॥

वयं धन्यरूपा गणाधीश ते वै स्तवेनाऽथ पूजादिना दीनबन्धो ।
नमस्ते नमस्ते प्रसीदाऽऽशु भूमन् निजानन्दयोगाय ढुण्ढे नमस्ते ॥ ३९॥

मुद्गल उवाच ।
एवं स्तुत्वा गणाधीशं प्रणेमुस्तं प्रजापते ।
ब्रह्माणि तान्यथोवाच हर्षितः स गजाननः ॥ ४०॥

(फलश‍ृतिः ।)
श्रीगणेश उवाच ।
वरान् ब्रूत हृदिस्थान् वै ब्रह्माणि तुष्टिमागतः ।
दास्याम्यनेन स्तोत्रेण तपसा दुर्लभानपि ॥ ४१॥

भवत्कृतमिदं स्तोत्रं मम सन्तोषकारकम् ।
भविष्यति न सन्देहः सर्वसिद्धिप्रदायकम् ॥ ४२॥

यः पठेत् पाठयेद्वाऽपि श्रावयेन्मानवोत्तमः ।
स भुक्त्वा ह्यखिलान् भोगानन्ते स्वानन्दगो भवेत् ॥ ४३॥

विजयप्रदमेतद्धि पुत्रपौत्रप्रदं भवेत् ।
धनधान्यपशूनां तु दायकं प्रभविष्यति ॥ ४४॥

अङ्गहीनजनानां तु स्वङ्गदं रोगनाशनम् ।
अलक्ष्मीसङ्कटस्यैव दहनं पाठकारिणाम् ॥ ४५॥

विद्या ज्ञानादिकं सर्वं लभतेऽनेन निश्चितम् ।
भुक्तिं मुक्तिं ब्रह्मभूयं पठनात् श्रवणात् किल ॥ ४६॥

षट्कर्मसाधने सिद्धं परकृत्यविनाशनम् ।
राजबन्धहरं चैव भविष्यति सुसेविनाम् ॥ ४७॥

एकविंशतिवारं चैकविंशति दिनानि यः ।
पठते स लभेत् सर्वमीप्सितं नात्र संशयः ॥ ४८॥

एवं गणपतेर्वाक्यं श्रुत्वा ब्रह्माणि विघ्नपम् ।
प्रणम्य हर्षयुक्तानि जगुस्तं च प्रजापते ॥ ४९॥

ब्रह्माण्यूचुः ।
वरदोऽसि गणाधीश तदा ते भक्तिमुत्तमाम् ।
देहि यया महामोहो नश्यत्यत्र न संशयः ॥ ५०॥

निजव्यापारजं देहि बोधं कथय सर्वप ।
कार्यं तच्च करिष्यामस्त्वदाज्ञावशगानि भोः ॥ ५१॥

सदाऽस्मन्निकटे नाथ तिष्ठ स्वभक्तकारणात् ।
निर्विघ्नं कुरु सर्वत्र गजानन नमोऽस्तु ते ॥ ५२॥

त्वत्समानि कुरुष्व त्वमस्मान् पादाश्रितानि ते ।
भजतां सर्वदातॄणि त्वत्प्रसादान्नमोऽस्तु ते ॥ ५३॥

यद्यदिच्छामहे नाथ तत्तत्तु सफलं भवेत् ।
सत्यसङ्कल्पजं सौख्यं देहि नो गणनायक ॥ ५४॥

एवं तेषां वचः श्रुत्वा भक्तिभावेन तोषितः ।
तथेति तान्यथोक्त्वासावन्तर्धानं चकार ह ॥ ५५॥

अष्टौ विनायकाः प्रोक्तास्तद्रूपेण गजाननः ।
तेषां सामीप्यगो भूत्वाऽतिष्ठत् सर्वार्थसिद्धये ॥ ५६॥

एतत् सर्वं समाख्यातं स्वसंवेद्यस्य चेष्टितम् ।
श्रवणात् पठनान्नॄणां सर्वसिद्धिप्रदायकम् ॥ ५७॥

इति ब्रह्माण्यकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download ब्रह्माण्यकृता श्रीगणेशस्तुतिः PDF

ब्रह्माण्यकृता श्रीगणेशस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App