|| ब्रह्माद्यर्षिगणाकृता श्रीगणेशस्तुतिः ||
भृगुरुवाच ।
नमो नमस्तेऽखिल लोकनाथ ! नमो नमस्तेऽखिललोकधामन् ।
नमो नमस्तेऽखिललोककारिन् ! नमो नमस्तेऽखिललोकहारिन् ॥ १०॥
नमो नमस्ते सुरशत्रुनाश ! नमो नमस्ते हृतभक्तपोष ! ।
नमो नमस्ते निजभक्तिपोष ! नमो नमस्ते लघुभक्तितोष ! ॥ ११॥
निराकृते ! नित्यनिरस्तमाय ! परात्परब्रह्ममयस्वरूप ! ।
क्षराक्षरातीत गुणैर्विहीन ! दीनानुकम्पिन् ! भगवन् ! नमस्ते ॥ १२॥
निरामयायाखिलकामपूर ! निरञ्जनायाखिलदैत्यदारिन् ! ।
नित्याय सत्याय परोपकारिन् ! समाय सर्वत्र नमो नमस्ते ॥ १३॥
इति ब्रह्माद्यर्षिगणाकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
Read in More Languages:- hindiवक्रतुंड स्तुति
- sanskritश्री विनायक स्तुतिः
- tamilஶ்ரீ விநாயக ஸ்துதி꞉
- kannadaಶ್ರೀ ವಿನಾಯಕ ಸ್ತುತಿಃ
- teluguశ్రీ వినాయక స్తుతిః
- sanskritश्री हेरम्ब स्तुति
- sanskritगोकर्ण गणाधिपस्तुती
- sanskritस्वायम्भुवकृता श्रीगणेशस्तुतिः
- sanskritससर्वस्वानन्दकृता श्रीगणेशस्तुतिः
- sanskritसर्वेकृता श्रीगणेशस्तुतिः
- sanskritश्र्योङ्काराकृता श्रीगणेशस्तुतिः
- sanskritशौनकौर्वौकृता श्रीगणेशस्तुतिः
- sanskritशेषकृता श्रीगणेशस्तुतिः
- sanskritशिवकृता श्रीगणेशस्तुतिः
- sanskritशनिश्चरकृता श्रीगणेशस्तुतिः
Found a Mistake or Error? Report it Now

