Shri Ganesh

सदेवर्षिर्दक्षकृतं श्रीगणेशस्तोत्रम्

Ganeshastotram Sadevarshirdakshakrritam Sanskrit Lyrics

Shri Ganesh ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| सदेवर्षिर्दक्षकृतं श्रीगणेशस्तोत्रम् ||

॥ श्रीगणेशाय नमः ॥

सदेवर्षिर्दक्ष उवाच ।
नमस्ते गणेशाय सर्वात्मने ते सदा भक्तिमोहेन मोहात्मकाय ।
महेशादिदेवैः शुकाद्यैः स्तुताय ह्ययोगाय संयोगधारिन्नमस्ते ॥ २६॥

गजाननाय वै तुभ्यं नमः परशुपाणये ।
गदाधराय शङ्खं वै धारिणे ते नमो नमः ॥ २७॥

विघ्नेशाय परेशाय महाविघ्नविदारिणे ।
अनाथाय सनाथाय हेरम्बाय नमो नमः ॥ २८॥

नमो नमस्तेऽस्तु महोदराय स्वभक्तसंरक्षणतत्पराय ।
अभक्तकामान् विनिहन्तृकाय सदा सुशान्तिप्रद ते नमो वै ॥ २९॥

ब्रह्मेशाय नमस्तुभ्यं सदा स्वानन्दवासिने ।
सिद्धिबुद्धिवरायैव मूषकध्वजिने नमः ॥ ३०॥

दैत्यमस्तकधाराय दितिपुत्राय ते नमः ।
कण्ठाधो देवकायाय नमो सुरसुराय ते ॥ ३१॥

योगाय सर्वात्मकसर्वपूज्य मायाविनां मोहकराय तुभ्यम् ।
मायाप्रचालाय सुसिद्धिदाय धर्मस्थपालाय तु शूलपाणे ॥ ३२॥

अनन्तलीलया नाथ स्वयं खेलसि मायया ।
तत्र किं वर्णयाम्येवाऽतो ब्रवीमि नमो नमः ॥ ३३॥

सदा योगस्वरूपाय भक्तिभावप्रदाय ते ।
भक्तिप्रियाय पूर्णाय भक्तवत्सल ते नमः ॥ ३४॥

प्रसीद पाहि विघ्नेश दासं ते भक्तिलालसम् ।
मां मुद्गलस्य शिष्यं वै भक्तराजस्य मानद ॥ ३५॥

एवमुक्त्वा गणेशानं प्रणनाम प्रजापतिः ।
अनु तं देवविप्राद्याः प्रणेमुस्तं परात्परम् ॥ ३६॥

तमुत्थाप्य गणाधीशो जगाद वच उत्तमम् ।
दक्षं मुद्गलमालोक्य स्वभक्तं भक्तपालकः ॥ ३७॥

(फलश‍ृतिः ।)
श्रीगणेश उवाच ।
वरान् वृणु प्रजानाथ दास्ये ते तुष्टिमागतः ।
श्रवणेन पुराणस्य स्तोत्रेण मनसीप्सितान् ॥ ३८॥

त्वया कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् ।
यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः ॥ ३९॥

ब्रह्मप्रदं सुशान्तेश्च दायकं भक्तिवर्धनम् ।
भविष्यति महाप्राज्ञ परं मत्प्रीतिवर्धनम् ॥ ४०॥

गणेशवचनं श्रुत्वा दक्षो हर्षसमन्वितः ।
प्रणम्य तं जगादाऽथ भक्तिनम्रात्मकन्धरः ॥ ४१॥

इति सदेवर्षिर्दक्षकृतं श्रीगणेशस्तोत्रं सम्पूर्णम् ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download सदेवर्षिर्दक्षकृतं श्रीगणेशस्तोत्रम् PDF

सदेवर्षिर्दक्षकृतं श्रीगणेशस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App