|| श्रीपार्वतीश्रीकण्ठस्तोत्रम् ||
(श्रीगरलपुरतः प्रस्थानसमये)
बहुभ्यो घस्रेभ्यस्तव पदसरोजातयुगलं
निरीक्ष्याहं मोदं बहुलमगमं शैलतनये ।
भविष्यान्मातस्त्वत्पदयुगसरोजातविरहा-
द्भवेद्यः खेदस्तं शमय हृदयाब्जे विलसनात् ॥ १॥
प्रभोऽष्टमूर्ते मम चित्तमध्ये संस्थाप्य चैकां तव मूर्तिमारात् ।
अपि स्थितस्य प्रमुदं विधेहि का ते क्षतिस्तेन कृपापयोधे ॥ २॥
मन्मूर्तिमेकां तव पादमूले दधासि यस्माच्छशिबालमौले ।
तस्माच्च मन्मानसपङ्कजाते त्वया विधेया तव मूर्तिरेका ॥ ३॥
आकाशस्य विभुत्वात्तत्रस्थत्वाच्च पादपद्मस्य ।
तव नटनाथ पदं मच्चित्ते स्फुरताद्धि यत्र कुत्रापि ॥ ४॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीपार्वतीश्रीकण्ठस्तोत्रं सम्पूर्णम् ।
- englishShri Ardha Naariishvara Stotram
- sanskritप्रद्युम्नकृतं पार्वतीस्तोत्रम्
- sanskritजैमिनिमुनिकृतं पार्वतीस्तोत्रम् ५
- sanskritअन्धककृतं पार्वतीस्तोत्रम्
- sanskritश्रीपार्वतीसहस्रनामस्तोत्रम्
- teluguమంగళ గౌరీ స్తోత్రం
- teluguసిద్ధ మంగళ స్తోత్రం
- malayalamശൈലപുത്രീ സ്തോത്രം
- tamilசைலபுத்ரி ஸ்தோத்திரம்
- kannadaಶೈಲಪುತ್ರೀ ಸ್ತೋತ್ರಂ
- hindiशैलपुत्री स्तोत्र
- sanskritउमा महेश्वर स्तोत्रम्
- sanskritबुधादिभिः कृतं शिवपार्वतीस्तोत्रम्
- sanskritश्रीस्वयंवरा पार्वती मन्त्रमालास्तोत्रम्
- malayalamപാർവതീ പഞ്ചക സ്തോത്രം
Found a Mistake or Error? Report it Now