Shri Krishna

इन्द्रकृतं श्रीकृष्णस्तोत्रम्

Indrakrishnastotra Sanskrit Lyrics

Shri KrishnaStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| इन्द्रकृतं श्रीकृष्णस्तोत्रम् ||

श्रीगणेशाय नमः ॥

इन्द्र उवाच ।
अक्षरं परमं ब्रह्म ज्योतीरूपं सनातनम् ।
गुणातीतं निराकारं स्वेच्छामयमनन्तजम् ॥ १॥

भक्तध्यानाय सेवायै नानारूपधरं वरम् ।
शुक्लरक्तपीतश्यामं युगानुक्रमणेन च ॥ २॥

शुक्लतेजःस्वरूपं च सत्ये सत्यस्वरूपिणम् ।
त्रेतायां कुङ्कुमाकारं ज्वलन्तं ब्रह्मतेजसा ॥ ३॥

द्वापरे पीतवर्णं च शोभितं पीतवाससा ।
कृष्णवर्णं कलौ कृष्णं परिपूर्णतमं प्रभुम् ॥ ४॥

नवधाराधरोत्कृष्टश्यामसुन्दरविग्रहम् ।
नन्दैकनन्दनं वन्दे यशोदानन्दनं प्रभुम् ॥ ५॥

गोपिकाचेतनहरं राधाप्राणाधिकं परम् ।
विनोदमुरलीशब्दं कुर्वन्तं कौतुकेन च ॥ ६॥

रूपेणाप्रतिमेनैव रत्नभूषणभूषितम् ।
कन्दर्पकोटिसौन्दर्यं विभ्रतं शान्तमीश्वरम् ॥ ७॥

क्रीडन्तं राधया सार्धं वृन्दारण्ये च कुत्रचित् ।
कृत्रचिन्निर्जनेऽरण्ये राधावक्षःस्थलस्थितम् ॥ ८॥

जलक्रीडां प्रकुर्वन्तं राधया सह कुत्रचित् ।
राधिकाकबरीभारं कुर्वन्तं कुत्रचिद्वने ॥ ९॥

कुत्रचिद्राधिकापादे दत्तवन्तमलक्तकम् ।
राधार्चवितताम्बूलं गृह्णन्तं कुत्रचिन्मुदा ॥ १०॥

पश्यन्तं कुत्रचिद्राधां पश्यन्तीं वक्रचक्षुषा ।
दत्तवन्तं च राधायै कृत्वा मालां च कुत्रचित् ॥ ११॥

कुत्रचिद्राधया सार्धं गच्छन्तं रासमण्डलम् ।
राधादत्तां गले मालां धृतवन्तं च कुत्रचित् ॥ १२॥

सार्धं गोपालिकाभिश्च विहरन्तं च कुत्रचित् ।
राधां गृहीत्वा गच्छन्तं तां विहाय च कुत्रचित् ॥ १३॥

विप्रपत्नीदत्तमन्नं भुक्तवन्तं च कुत्रचित् ।
भुक्तवन्तं तालफलं बालकैः सह कुत्रचित् ॥ १४॥

वस्त्रं गोपालिकानां च हरन्तं कुत्रचिन्मुदा ।
गवां गणं व्याहरन्तं कुत्रचिद्बालकैः सह ॥ १५॥

कालीयमूर्ध्नि पादाब्जं दत्तवन्तं च कुत्रचित् ।
विनोदमुरलीशब्दं कुर्वन्तं कुत्रचिन्मुदा ॥ १६॥

गायन्तं रम्यसङ्गीतं कुत्रचिद्बालकैः सह ।
स्तुत्वा शक्रः स्तवेन्द्रेण प्रणनाम हरिं भिया ॥ १७॥

पुरा दत्तेन गुरुणा रणे वृत्रासुरेण च ।
कृष्णेन दत्तं कृपया ब्रह्मणे च तपस्यते ॥ १८॥

एकादशाक्षरो मन्त्रः कवचं सर्वलक्षणम् ।
दत्तमेतत्कुमाराय पुष्करे ब्रह्मणा पुरा ॥ १९॥

तेन चाङ्गिरसे दत्तं गुरवेऽङ्गिरसा मुने ।
इदमिन्द्रकृतं स्तोत्रं नित्यं भक्त्या च यः पठेत् ॥ २०॥

इह प्राप्य दृढां भक्तिमन्ते दास्यं लभेद्ध्रुवम् ।
जन्ममृत्युजराव्याधिशोकेभ्यो मुच्यते नरः ॥ २१॥

न हि पश्यति स्वप्नेऽपि यमदूतं यमालयम् ॥ २२॥

॥ इति श्रीब्रह्मवैवर्ते इन्द्रकृतं श्रीकृष्णस्तोत्रं समाप्तम् ॥

इति ब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे एकविंशाध्यायान्तर्गतं
इन्द्रकृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download इन्द्रकृतं श्रीकृष्णस्तोत्रम् PDF

इन्द्रकृतं श्रीकृष्णस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App