Shri Krishna

गर्गकृतं श्रीकृष्णस्तोत्रम्

Kaliyapatnyasurasakrritamshrikrrishnastotram Sanskrit Lyrics

Shri KrishnaStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| गर्गकृतं श्रीकृष्णस्तोत्रम् ||

गर्ग उवाच ।
हे कृष्ण जगतां नाथ भक्तानां भयभञ्जन ।
प्रसन्नो भव मामीश देहि दास्यं पदाम्बुजे ॥ १९३॥

त्वत्पित्रा मे धनं दत्तं तेन मे किं प्रयोजनम् ।
देहि मे निश्चलां भक्तिं भक्तानामभयप्रद ॥ १९४॥

अणिमादिकसिद्धिषु योगेषु मुक्तिषु प्रभो ।
ज्ञानतत्त्वेऽमरत्वे वा किञ्चिन्नास्ति स्पृहा मम ॥ १९५॥

इन्द्रत्वे वा मनुत्वे वा स्वर्गलोकफले चिरम् ।
नास्ति मे मनसो वाञ्छा त्वत्पादसेवनं विना ॥ १९६॥

सालोक्यं सार्ष्टिसारूप्ये सामीप्यैकत्वमीप्सितम् ।
नाहं गृह्णामि ते ब्रह्मंस्त्वत्पादसेवनं विना ॥ १९७॥

गोलोके वापि पाताले वासे नास्ति मनोरथः ।
किन्तु ते चरणाम्भोजे सन्ततं स्मृतिरस्तु मे ॥ १९८॥

त्वन्मन्त्रं शङ्करात्प्राप्य कतिजन्मफलोदयात् ।
सर्वज्ञोऽहं सर्वदर्शी सर्वत्र गतिरस्तु मे ॥ १९९॥

कृपां कुरु कृपासिन्धो दीनबन्धो पदाम्बुजे ।
रक्ष मामभयं दत्त्वा मृत्युर्मे किं करिष्यति ॥ २००॥

सर्वेषामीश्वरः सर्वस्त्वत्पादाम्भोजसेवया ।
मृत्युञ्जयोऽन्तकालश्च बभूव योगिनां गुरुः ॥ २०१॥

ब्रह्मा विधाता जगतां त्वत्पादाम्भोजसेवया ।
यस्यैकदिवसे ब्रह्मन्पतन्तीन्द्राश्चतुर्दश ॥ २०२॥

त्वत्पादसेवया धर्मः साक्षी च सर्वकर्मणाम् ।
पाता च फलदाता च जित्वा कालं सुदुर्जयम् ॥ २०३॥

सहस्रवदनः शेषो यत्पादाम्बुजसेवया ।
धत्ते सिद्धार्थवद्विश्वं शिवः कण्ठे विषं यथा ॥ २०४॥

सर्वसम्पद्विधात्री या देवीनां च परात्परा ।
करोति सततं लक्ष्मीः केशैस्त्वत्पादमार्जनम् ॥ २०५॥

प्रकृतिर्बीजरूपा सा सर्वेषां शक्तिरूपिणी ।
स्मारंस्मारं त्वत्पदाब्जं बभूव तत्परावरा ॥ २०६॥

पार्वती सर्वरूपा सा सर्वेषां बुद्धिरूपिणी ।
त्वत्पादसेवया कान्तं ललाभ शिवमीश्वरम् ॥ २०७॥

विद्याधिष्ठात्री देवी या ज्ञानमाता सरस्वती ।
पूज्या बभूव सर्वेषां सम्पूज्य त्वत्पदाम्बुजम् ॥ २०८॥

सावित्री वेदजननी पुनाति भुवनत्रयम् ।
ब्रह्मणो ब्राह्मणानां च गतिस्त्वत्पादसेवया ॥ २०९॥

क्षमा जगद्विभर्तुं च रत्नगर्भा वसुन्धरा ।
प्रसूतिः सर्वसस्यानां त्वत्पादपद्मसेवया ॥ २१०॥

राधा ममांशसम्भूता तव तुल्या च तेजसा ।
स्थित्वा वक्षसि ते पादं सेवतेऽन्यस्य का कथा ॥ २११॥

यथा शर्वादयो देवा देव्यः पद्मादयो यथा ।
सनाथं कुरु मामीश ईश्वरस्य समा कृपा ॥ २१२॥

न यास्यामि गृहं नाथ न गृह्णामि धनं तव ।
कृत्वा मां रक्ष पादाब्जसेवायां सेवकं रतम् ॥ २१३॥

इति स्तुत्वा साश्रुनेत्रः पपात चरणे हरेः ।
रुरोद च भृशं भक्त्या पुलकाञ्चितविग्रहः ॥ २१४॥

इति श्रीब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे पूर्वे त्रयोदशाध्यायान्तर्गतं
गर्गकृतं श्रीकृष्णस्तोत्रं समाप्तम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download गर्गकृतं श्रीकृष्णस्तोत्रम् PDF

गर्गकृतं श्रीकृष्णस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App