Download HinduNidhi App
Shiva

सदाशिव कवचम्

Sadashiv Kavacham Sanskrit

ShivaKavach (कवच संग्रह)हिन्दी
Share This

|| सदाशिव कवचम् ||

श्रीआनन्दभैरव उवाच

शैलजे देवदेवेशि सर्वाम्नायप्रपूजिते ।
सर्वं मे कथितं देवि कवचं न प्रकाशितम् ॥

प्रासादाख्यस्य मन्त्रस्य कवचं मे प्रकाशय ।
सदाशिवमहादेवभावितं सिद्धिदायकम् ॥

अप्रकाश्यं महामन्त्रं भैरवीभैरवोदयम् ।
सर्वरक्षाकरं देवि यदि स्नेहोऽस्ति मां प्रति ॥

श्रीआनन्दभैरवी उवाच

श्रूयतां भगवन्नाथ महाकाल कुलार्णव ।
प्रासादमन्त्रकवचं सदाशिवकुलोदयम् ॥

प्रासादमन्त्रदेवस्य वामदेव ऋषिः स्मृतः ।
पङ्क्तिश्छन्दश्च देवेशः सदाशिवोऽत्र देवता ॥

साधकाभीष्टसिद्धौ च विनियोगः प्रकीर्तितः ।
शिरो मे सर्वदा पातु प्रासादाख्यः सदाशिवः ॥

षडक्षरस्वरूपो मे वदनं तु महेश्वरः ।
अष्टाक्षरशक्तिरुद्धश्चक्षुषी मे सदाऽवतु ॥

पञ्चाक्षरात्मा भगवान् भुजौ मे परिरक्षतु ।
मृत्युञ्जयस्त्रिबीजात्मा आयू रक्षतु मे सदा ॥

वटमूलसमासीनो दक्षिणामूर्तिरव्ययः ।
सदा मां सर्वतः पातु षट्त्रिंशद्वर्णरूपधृक् ॥

द्वाविंशार्णात्मको रुद्रः कुक्षिं मे परिरक्षतु ।
त्रिवर्णाढ्यो नीलकण्ठः कण्ठं रक्षतु सर्वदा ॥

चिन्तामणिर्बीजरूपोऽर्धनारीश्वरो हरः ।
सदा रक्षतु मे गुह्यं सर्वसम्पत्प्रदायकः ॥

एकाक्षरस्वरूपात्मा कूटव्यापी महेश्वरः ।
मार्तण्डो भैरवो नित्यं पादौ मे परिरक्षतु ॥

तुम्बुराख्यो महाबीजस्वरूपस्त्रिपुरान्तकः ।
सदा मारणभूमौ च रक्षतु त्रिदशाधिपः ॥

ऊर्ध्वमूर्ध्वानमीशानो मम रक्षतु सर्वदा ।
दक्षिणास्यं तत्पुरुषोऽवतु मे गिरिनायकः ॥

अघोराख्यो महादेवः पूर्वास्यं परिरक्षतु ।
वामदेवः पश्चिमास्यं सदा मे परिरक्षतु ॥

उत्तरास्यं सदा पातु सद्योजातस्वरूपधृक् ।
मृत्युजेता सदा पातु जलेऽरण्ये महाभये ॥

पर्वते विषमस्थाने विषहर्ता सदाऽवतु ।
कालरुद्रः सदा पातु सर्वाङ्गं कालदेवता ॥

कालाग्निरुद्रः सम्पातु महाव्याधिभयादिषु ।
अकालतारकः पातु खड्गधारी सदाशिवः ॥

कवची वामदेवश्च सदा पातु महाभये ।
कालभक्षः पातु रुद्रो रुरुकः क्षेत्रपालकः ॥

मातृकामण्डलं पातु सम्पूर्णचन्द्रशेखरः ।
चिरायुः शाकिनीभर्ता चायुषं पातु मे सदा ॥

सिंहस्कन्धः सदा पातु रुद्राणीवल्लभोऽवतु ।
भालं पातु वज्रदम्भालेखकः क्रान्तिरूपकः ॥

निरूपकः सदा पातु खेचरीखेचरप्रियः ।
रत्नमालाधरः पातु रक्तमुखीश्वरोऽवतु ॥

वदनं चक्षुषी कर्णौ पातु पञ्चाननो मम ।
वेदध्वनिः सदा पातु नासारन्ध्रद्वयं मम ॥

कपालधारकः पातु गण्डयुग्मं युगान्तकृत् ।
रक्तजिह्वापतिः पातु ममोष्ठाधरवासिनम् ॥

दन्तावलियुगं पातु भृगुरामेश्वरः शिवः ।
तालुमूलं सदा पातु विश्वभोजी रसामृतम् ॥

जिह्वाग्रं वाक्पतीशश्च भवानीशः शिवो मम ।
मुखवृत्तं सदा पातु महासेनः कवीश्वरः ॥

क्रोधनाथः सदा पातु दक्षहस्तादिमूलकम् ।
दक्षकूर्परमापातु तदग्रं कुक्कुरेश्वरः ॥

चिरजीवी सदा पातु चाङ्गुलीमूलदेशकम् ।
अङ्गुल्यग्रं सदा ब्रह्मा ब्रह्मलिङ्गधरः प्रभुः ॥

विद्यापतिः पार्वतीशो वामहस्तादिमूलकम् ।
पातु वामकूर्परं मे वामकेश्वर ईश्वरः ॥

कुण्डवासी सदा पातु कूर्पराग्रं कुलाचलः ।
वेदमातृपतिः पातु कामधेनुपतिः प्रभुः ॥

ममाङ्गुलीमूलदेशं पातु पञ्चमुखो मम ।
वामाङ्गुल्यग्रभागं मे पातु पर्वतपूजितः ॥

तनुमूलाग्रभागं मे कूर्मचक्रधरः प्रभुः ।
शाकिनीवल्लभः पातु दक्षाङ्घ्रिमध्यदेशकम् ॥

गुल्फाग्रं गर्गरीनाथः पादाग्रं मूलदेवता ।
अभयावल्लभः पातु दक्षाङ्गुल्यग्रभागकम् ॥

पातु स्मरहरो योगी वामोरुमूलदेशकम् ।
वामपादमध्यदेशं मध्यदेशेश्वरोऽवतु ॥

पातु मे भगवाञ्छम्भुर्मम गुल्फाग्रदेशकम् ।
मूलदेशं वामपादं पातु मेऽङ्गुष्ठमूलकम् ॥

कारणात्मा नीलकण्ठः प्रभाधारी यमान्तकः ।
अङ्गुष्ठाग्रं सदा पातु सुषुम्नानाडिकेश्वरः ॥

महारुद्रेश्वरः पातु मम नाभिमनोभवम् ।
उदरं गगनाधारः कामहर्ता हृदम्बुजम् ॥

सर्वानन्दात्मकः पातु मम स्कन्धयुगं शिवः ।
हृदयाद् दक्षहस्ताग्रपर्यन्तं पातु शोकहा ॥

हृदयाद् वामहस्ताग्रपर्यन्तं परमेश्वरः ।
हृदयान्मम दक्षाङ्घ्रिनखान्तं मे शिवोऽवतु ॥

सदानन्दा सदा पातु हृदाद्यङ्घ्रिं तु उन्मदः ।
वासुकीवल्लभः पातु हृदादिगुददेशकम् ॥

अनन्तनाथ आपातु हृदादिमूर्धदेशकम् ।
व्यापकः सर्वदा पातु सदाशिव उमापतिः ॥

तारात्मकः कायसिद्धः शक्तीशः शुक्रदेवता ।
पञ्चचूडः सदा पातु पञ्चतत्त्वाङ्गरूपकम् ॥

शीर्षादिपादपर्यन्तं कामधेनुः सदाऽवतु ।
जलेऽरण्ये घोरवने सङ्कटे च महापथे ॥

प्रान्तरे पातु गुप्ताक्षः कामराजः परापरः ।
अर्धनारीश्वरः पातु मातृकापरमेश्वरः ॥

मातृकामन्त्रपुटितः स्वस्वस्थानं सदावतु ।
धर्मात्मा धर्मसन्धिं मे पिङ्गलां पातु चण्डिकाम् ॥

विह्वलः सर्वदा पातु भोलानाथः सदाऽवतु ।
सर्वदेशे सर्वपीठे कामरूपे विशेषतः ॥

सर्वदा योगिनीनाथः परमात्मा सदाऽवतु ।
कामरूपाख्यपीठादि पञ्चाशत् पीठदेवताः ॥

पञ्चाशत्पीठमाया तु कामरूपं सदाशिवः ।
भवो रुद्रो महेशश्च शङ्करो मन्मथान्तकः ॥

गुह्यकेशः पापहर्ता कपाली शूलधारकः ।
पञ्चवक्त्रो दशभुजो भुजङ्गभूषणो हरः ॥

महाकालो महारुद्रो महावीरो हृदि स्थितः ।
महादेवो महागुह्यो महामाया महागुणः ॥

पशुपतिर्विरूपाक्षो हरीशो धवलेश्वरः ।
वटुकेशः क्रमाचार्यः पञ्चशूली हृदुद्भवः ॥

उन्मनीशः साहसिकः पराख्यः पर्वतेश्वरः ।
सर्वात्मा च महात्मा च शिवात्मा च श्मशानगः ॥

क्रोधवीरः कालकारी सूक्ष्मधर्मा धुरन्धरः ।
श्यामकः क्रूरहर्ता च गणेशः कालमाधवः ॥

ज्ञानात्मा कपिलात्मा च सिद्धात्मा योगिनीपतिः ।
कोटिसूर्यप्रतीकाश एकपञ्चाशदीश्वराः ॥

सदा पान्तु मातृकस्थाः स्थितिसर्गलयात्मकाः ।
आदिपीठं कामरूपं काञ्चीपीठं तदन्तिके ॥

अयोध्यापीठनगरं तदूर्ध्वे जालकन्धरम् ।
जालन्धरं तदूर्ध्वे तु सिद्धपीठं तदन्तिके ॥

कालीपीठं तदूर्ध्वे तु चण्डिकापीठमग्रके ।
अष्टपुरीमहापीठं कण्ठदेशं सदाशिवः ॥

सदा पातु महावीरः कालधर्मी परात्परः ।
मधुपुरीमहापीठं चाष्टपुरान्तरस्थितम् ॥

मायावतीमहापीठं तदूर्ध्वे परिकीर्तितम् ।
वाराणसीमहापीठं धर्मपीठं तदन्तिके ॥

ज्वालामुखीमहापीठं तदन्तःस्थं प्रकीर्तितम् ।
तदूर्ध्वे च महापीठं ज्वलन्तीपीठमेव च ॥

तदूर्ध्वे पूणगिर्याख्यं कुरुक्षेत्रं तदन्तिके ।
उड्डियानं तदूर्ध्वे तु कमलापीठमेव च ॥

हरिद्वारं महापीठं बदरीपीठमेव च ।
व्यासपीठं नारदाख्यं तदूर्ध्वे वाडवानलम् ॥

हिङ्गुलादं तदूर्ध्वे तु लङ्कापीठं तदूर्ध्वके ।
तदूर्ध्वे शारदापीठं रतिपीठं तदूर्ध्वके ॥

लिङ्गपीठं कलापीठं द्वारकापीठमेव च ।
कपालपीठं हर्याख्ये वरदापीठमुत्तरे ॥

कालीपीठं तदूर्ध्वे तु तारापीठं तदूर्ध्वके ।
उग्रतारामहापीठं महोग्रापीठमेव च ॥

नीलसरस्वतीपीठं जरापीठं तदूर्ध्वके ।
तदूर्ध्वे गगनापीठं खेचरीपीठमेव च ॥

तदूर्ध्वे तारिणीपीठं सहस्रदलमध्यके ।
कर्त्रीपीठं तदूर्ध्वे च देवीपीठं तदूर्ध्वके ॥

राजराजेश्वरीपीठं षोडशीपीठमेव च ।
सहस्रदलमध्ये तु सहस्रपीठमेव च ॥

मध्ये एकजटापीठं कर्त्रीतीरकलोपरि ।
षोडशीमुखविद्याभिर्वेष्टिता तारिणीकला ॥

काली नीला महाविद्या त्वरिता छिन्नमस्तका ।
वाग्वादिनी चान्नपूर्णा देवी प्रत्यङ्गिरा पुनः ॥

कामाख्या वासली बाला मातङ्गी शैलवासिनी ।
षोडशी भुवनेशानी भैरवी बगलामुखी ॥

धूमावती वेदमाता हरसिद्धा च दक्षिणा ।
एता विद्या महाविद्याः शिवसेवनशोभिताः ॥

द्वाविंशतिमहाविद्या द्वारं द्वाविंशतिस्थलम् ।
महापीठे सहस्रारे सर्वदा पान्तु मां कलाः ॥

सदाशिवः शक्तियुक्तः पातु चण्डेश्वरो हरः ।
पञ्चामराधरः पातु देवीनाथः सदाऽवतु ॥

पार्वतीप्राणनाथो मे सर्वाङ्गं पातु सर्वदा ।
अघोरनाथ ईशानो वरदो मदनान्तकः ॥

यज्ञहर्ता दक्षखण्डो वीरभद्रो दिगम्बरः ।
अष्टादशभुजो रौद्रो नीलपङ्कजलोचनः ॥

त्रिलोचनः कालकामो महारुद्रो गणेश्वरः ।
काकिनीवल्लभः शूली योगकर्ता महेश्वरः ॥

वागीश्वरः स्मरहरो महामन्त्रो हलायुधः ।
श्रीनाथः पूजितो बालो बालेन्द्रो बलवाहनः ॥

बलरामः कृष्णरामो गोविन्दो माधवीश्वरः ।
जितामित्रेश्वरश्चूडामणीशो मानदः सुखी ॥

मुखं वृन्दावनं पातु षड्दलाम्भोरुहस्थितम् ।
वैष्णवीवल्लभः पातु ब्रह्माणं कुलकुण्डली ॥

विष्णुनाथः सदा पातु ब्रह्माग्निं गरुडध्वजः ।
ज्वालामालाधरः पातु कालानलधरोऽवतु ॥

काकिनीवल्लभः पातु ईश्वरो भैरवेश्वरः ।
महारुद्रो नीलकण्ठो मणिपूरं सुलाकिनीम् ॥

सदा पातु मणिगृहं रुद्राणीप्रियवल्लभः ।
महारुद्रो नीलकण्ठो महाविष्णुं सदावतु ॥

राकिणीं विष्णुलक्ष्मीं च पातु मे वैष्णवीं कलाम् ।
सदाशिवो नीलकण्ठो मम पातु हृदि स्थलम् ॥

ईश्वरं परमात्मानं मम रक्षतु शाकिनीम् ।
सदाशिवं सदा पातु द्विदलस्थोऽपरो हरः ॥

हाकिनीशक्तितः पातु सहस्रारं शिवोऽवतु ।
तारानाथविधिः पातु सहस्रारनिवासिनीम् ॥

महाकाशं सदा पातु तदधो वायुमण्डलम् ।
वह्निमण्डलमापातु तदधः शाकिनीश्वरः ॥

तदात्मकः सदा पातु कीलालं कौलदेवता ।
पृथिवीं पार्थिवः पातु सर्वदैकं सदाशिवः ॥

इत्थं रक्षाकरं नाथ कवचं देवदुर्लभम् ।
प्रातःकाले पठेद्यस्तु सोऽभीष्टं फलमाप्नुयात् ॥

पूजाकाले पठेद्यस्तु कवचं साधकोत्तमः ।
कीर्तिश्रीकान्तिमेधायुर्बृंहितो भवति ध्रुवम् ॥

अप्रकाश्यं महावीरकवचं सर्वसिद्धिदम् ।
ज्ञानमात्रेण भूर्लोके जेता कालस्य योगिराट् ॥

अस्य धारणमात्रेण कालसूत्रान्तको भवेत् ।
अस्य धारणपाठेन सर्वज्ञो भवति ध्रुवम् ॥

सर्वे व्यासवशिष्ठादिमहासिद्धाश्च योगिनः ।
पठित्वा धारयित्वा ते प्रधानास्तत्त्वचिन्तकाः ॥

कण्ठे यो धारयेदेतत् कवचं त्वत्स्वरूपकम् ।
मद्वक्त्राम्भोरुहोद्भूतं विद्यावाक्सिद्धिदायकम् ॥

युद्धे विजयमाप्नोति द्यूते वादे च साधकः ।
कवचं धारयेद्यस्तु साधको दक्षिणे भुजे ॥

देवा मनुष्या गन्धर्वास्तस्य वश्या न संशयः ।
कवचं शिरसा यस्तु धारयेद् यतमानसः ॥

करस्थास्तस्य देवेशि अणिमाद्यष्टसिद्धयः ।
भूर्जपत्रे त्विमां विद्यां शुक्लपट्टेन वेष्टिताम् ॥

रजतोदरसंविष्टां कृत्वा च धारयेत् सुधीः ।
संप्राप्य महतीं लक्ष्मीमन्ते तव शरीरधृक् ॥

यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन ।
शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् ॥

योगिने ज्ञानयुक्ताय देयं धर्मात्मने सदा ।
अन्यथा सिद्धिहानिः स्यात्सत्यं सत्यं न संशयः ॥

तव स्नेहान्महादेव कथितं कवचं शुभम् ।
न देयं कवचं सिद्धं यदीच्छेदात्मनो हितम् ॥

यदि भाग्यफलेनापि कवचं यदि लभ्यते ।
धूर्तो वा कपटी वापि खलो वा दुर्ग्रहस्थितः ॥

निजकर्मफलत्यागमवश्यं खलु कारयेत् ।
तदा सिद्धिमवाप्नोति धर्मधाराधरो भवेत् ॥

सिद्धिपूजाफलं तस्य दिवसे दिवसे सुधीः ।
धूर्ततां खलतां मिथ्यां कापट्यं स विहाय च ॥

राजराजेश्वरो भूत्वा जीवन्मुक्तो न संशयः ।
योऽर्चयेद् गन्धपुष्पाद्यैः कवचं मन्मुखोदितम् ॥

तेनार्चिता महादेव सर्वदेवा न संशयः ।
राजसिकं मानसिकं तामसिकं परन्तपः ॥

हृद्ये मानसिकं ध्यायन् पूजा राजसिकं स्मृतम् ।
तामसिकं लोकमध्ये कवचार्चा त्रिधा मता ॥

सिद्धकवचमाख्यातं केवलं ज्ञानसिद्धये ।
मोक्षाय जगतां शम्भोः प्रियाय परमेश्वर ॥

तन्त्रेऽस्मिन् सारसङ्केतं पूजाऽप्यारोपणादिकम् ।
अन्तःकरणमध्ये तु सर्वकार्यमुदीरयेत् ॥

राज्ये च प्रपठेत् स्तोत्रं कवचं ज्ञानसिद्धये ।
इति ते कथितं नाथ परमात्मनि मङ्गलम् ॥

यस्याराधनमात्रेण शिवत्वमुत किं प्रभो ॥

इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे
षट्चक्रप्रकाशे भैरवीभैरवसंवादे सदाशिवकवचपाठो नाम
चतुःसप्ततितमः पटलः ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App
सदाशिव कवचम् PDF

Download सदाशिव कवचम् PDF

सदाशिव कवचम् PDF

Leave a Comment