
आदित्य कवचम् PDF मराठी
Download PDF of Aditya Kavacham Marathi
Surya Dev ✦ Kavach (कवच संग्रह) ✦ मराठी
आदित्य कवचम् मराठी Lyrics
|| आदित्य कवचम् (Aditya Kavacham Marathi PDF) ||
ध्यानं
उदयाचल मागत्य वेदरूप मनामयं
तुष्टाव परया भक्त वालखिल्यादिभिर्वृतम् ।
देवासुरैः सदावंद्यं ग्रहैश्चपरिवेष्टितं
ध्यायन् स्तवन् पठन् नाम यः सूर्य कवचं सदा ॥
कवचं
घृणिः पातु शिरोदेशं, सूर्यः फालं च पातु मे
आदित्यो लोचने पातु श्रुती पातः प्रभाकरः
घ्रूणं पातु सदा भानुः अर्क पातु तथा
जिह्वं पातु जगन्नाधः कंठं पातु विभावसु
स्कंधौ ग्रहपतिः पातु, भुजौ पातु प्रभाकरः
अहस्करः पातु हस्तौ हृदयं पातु भानुमान्
मध्यं च पातु सप्ताश्वो, नाभिं पातु नभोमणिः
द्वादशात्मा कटिं पातु सविता पातु सक्थिनी
ऊरू पातु सुरश्रेष्टो, जानुनी पातु भास्करः
जंघे पातु च मार्तांडो गुल्फौ पातु त्विषांपतिः
पादौ ब्रद्नः सदा पातु, मित्रो पि सकलं वपुः
वेदत्रयात्मक स्वामिन् नारायण जगत्पते
आयतयामं तं कंचि द्वेद रूपः प्रभाकरः
स्तोत्रेणानेन संतुष्टो वालखिल्यादिभि र्वृतः
साक्षात् वेदमयो देवो रधारूढः समागतः
तं दृष्ट्या सहसॊत्थाय दंडवत्प्रणमन् भुवि
कृतांजलि पुटो भूत्वा सूर्या स्याग्रे स्तुवत्तदा
वेदमूर्तिः महाभागो ज्ञानदृष्टि र्विचार्य च
ब्रह्मणा स्थापितं पूर्वं यातायाम विवर्जितं
सत्त्व प्रधानं शुक्लाख्यं वेदरूप मनामयं
शब्दब्रह्ममयं वेदं सत्कर्म ब्रह्मवाचकं
मुनि मध्यापयामासप्रधमं सविता स्वयं
तेन प्रथम दत्तेन वेदेन परमेश्वरः
याज्ञवल्क्यो मुनिश्रेष्टः कृतकृत्यो भवत्तदा
ऋगादि सकलान् वेदान् ज्ञातवान् सूर्य सन्निधौ
इदं स्तोत्रं महापुण्यं पवित्रं पापनाशनं
यःपठेच्च्रुणुया द्वापि सर्वपाफैःप्रमुच्यते
वेदार्धज्ञान संपन्नः सूर्यलोक मवाप्नयात्
इति स्कांद पुराणे गौरी खंडे आदित्य कवचं संपूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowआदित्य कवचम्

READ
आदित्य कवचम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
