पितृ स्तोत्रम् – ३ (ब्रह्म कृतम्) PDF संस्कृत
Download PDF of Brahma Kruta Pitru Stotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
पितृ स्तोत्रम् – ३ (ब्रह्म कृतम्) संस्कृत Lyrics
|| पितृ स्तोत्रम् – ३ (ब्रह्म कृतम्) ||
ब्रह्मोवाच ।
नमः पित्रे जन्मदात्रे सर्वदेवमयाय च ।
सुखदाय प्रसन्नाय सुप्रीताय महात्मने ॥ १ ॥
सर्वयज्ञस्वरूपाय स्वर्गाय परमेष्ठिने ।
सर्वतीर्थावलोकाय करुणासागराय च ॥ २ ॥
नमः सदाऽऽशुतोषाय शिवरूपाय ते नमः ।
सदाऽपराधक्षमिणे सुखाय सुखदाय च ॥ ३ ॥
दुर्लभं मानुषमिदं येन लब्धं मया वपुः ।
सम्भावनीयं धर्मार्थे तस्मै पित्रे नमो नमः ॥ ४ ॥
तीर्थस्नानतपोहोमजपादीन् यस्य दर्शनम् ।
महागुरोश्च गुरवे तस्मै पित्रे नमो नमः ॥ ५ ॥
यस्य प्रणाम स्तवनात् कोटिशः पितृतर्पणम् ।
अश्वमेधशतैस्तुल्यं तस्मै पित्रे नमो नमः ॥ ६ ॥
इदं स्तोत्रं पितृः पुण्यं यः पठेत् प्रयतो नरः ।
प्रत्यहं प्रातरुत्थाय पितृश्राद्धदिनेऽपि च ॥ ७ ॥
स्वजन्मदिवसे साक्षात् पितुरग्रे स्थितोऽपि वा ।
न तस्य दुर्लभं किञ्चित् सर्वज्ञत्वादि वाञ्छितम् ॥ ८ ॥
नानापकर्म कृत्वाऽपि यः स्तौति पितरं सुतः ।
स धृवं प्रविधायैव प्रायश्चित्तं सुखी भवेत् ।
पितृप्रीतिकरैर्नित्यं सर्वकर्माण्यथार्हति ॥ ९ ॥
इति बृहद्धर्मपुराणान्तर्गत ब्रह्मकृत पितृ स्तोत्रम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowपितृ स्तोत्रम् – ३ (ब्रह्म कृतम्)
READ
पितृ स्तोत्रम् – ३ (ब्रह्म कृतम्)
on HinduNidhi Android App