श्र्योङ्काराकृता श्रीगणेशस्तुतिः
|| श्र्योङ्काराकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ श्र्योङ्कारावूचतुः । नमस्ते गणनाथाय सर्वसिद्धिप्रदायक । सिद्धिबुद्धियुतायैव गणानां पतये नमः ॥ ४९॥ स्वानन्दपतये तुभ्यं कर्तॄणां कर्तृरूपिणे । अनाथाय सनाथानां नमो नाथाय ते नमः ॥ ५०॥ परेशाय परेषां च पालकाय परात्मने । आत्मनाममृतायैव विघ्नेशाय नमो नमः ॥ ५१॥ लम्बोदराय देवाय देवदेवेशरूपिणे । देवेभ्यो देवतां दात्रे गजाननाय ते नमः…