श्रीमध्यार्जुनेशाष्टकम्

|| श्रीमध्यार्जुनेशाष्टकम् || मध्यार्जुनेशं भजेहं साम्बमध्यार्जुनेशं महालिङ्गमाद्यं मध्यार्जुनेशं भजेहम् ॥ ध्रुवपदम् ॥ ज्योतिर्महालिङ्गरूपं कॢप्तभूपं भुजङ्गेन कृत्तारिवृन्दम् । भक्तार्ति संहार्यपाङ्गं ब्रह्मविष्ण्वादिवृन्दैर्मुदापूजिताङ्घ्रिम् ॥ १॥ रुद्राक्षमालां धरन्तं ब्रह्महत्यादि पापानि सन्नाशयन्तम् । रक्षन्तमापत्सु भक्तान् भ्रान्तचित्तस्थदोषान् समुन्मूलयन्तम् ॥ २॥ पुण्याश्वमेधप्रचारैः भूतपातादिचोरैः भवाम्भोधितारैः । कुर्वन्ति भक्ताः प्रसन्नं पुत्रपौत्राद्यभीष्टान् सदा पूरयन्तम् ॥ ३॥ भस्मादिभूषाविशेषं पुष्पविल्वादिपत्रैर्जुषाणं सुतोषम् । सर्वार्थदायिप्रदोषं विप्रवर्यौघ सम्प्रोक्तसामादिघोषम् ॥ ४॥…

श्रीमणिवाचकध्यानस्तुतिः

|| श्रीमणिवाचकध्यानस्तुतिः || यः श्रीमान्मणिवाचको द्विजभवः पुस्ताक्षमालाधरो भस्मालिप्तकलेवरः शिवपदानन्यान्तरो जैनहा । श्रीमद्वाचकसूक्तिभिः पुरवरे श्रीपुण्डरीकाभिधे नृत्ताधीश्वरमीडयन्परशिवं मुक्तो महान्भातु सः ॥ १॥ मन्त्री पाण्ड्यमहीपतेस्सकलविद्भस्माक्षमालाधरः साक्षादादिमसद्गुरोस्सकरुणं लब्धात्मबोधो द्विजः । विप्राकारसुगोपितेशलिखित श्रीवाचको योगिराट् ध्येयः श्रीमणिवाचकः सुगतहा नन्दीश्वरांशो महान् ॥ २॥ भस्मोद्धूलितविग्रहं परशिवध्यानैकचित्तं मुदा रुद्राक्षाभरणं समन्दहसितानन्दाननाम्भोरुहम् । शम्भुज्ञानरसालयं त्रिजगतां नाथं सुरैस्सन्नुतं श्रीमन्तं मणिवाचकं हृदि सदा ध्यायामि नन्द्यात्मकम् ॥ ३॥ इति…

अष्टदिग्गजकृता मणिधामलिङ्गस्तुतिः

|| अष्टदिग्गजकृता मणिधामलिङ्गस्तुतिः || (शिवरहस्यान्तर्गते भीमाख्ये) ऐरावतः (उवाच) शान्तं शङ्कमतङ्गकान्तकमुमाकान्तं भजाम्यन्तिक- स्वान्तानन्तमहान्तकोद्भवभयं किं वोपलक्ष्यं मम । विश्वाधीश्वर शाश्वतान्धकहरापारव्यथासंहर घोरापारभवोरुसागरगदापारादि दुःखं हर ॥ ९॥ पुण्डरीकः (उवाच) पाहि त्रिणेत्र सुचरित्र पवित्रगात्रं पाह्यब्जमित्रनयनामलभूतिगात्र । मामीशशङ्खधवलेन्दुकलाललाम पाहीश मामकधिया सकलेषु मित्र ॥ १४॥ वामन: (उवाच) पाहीन्दिरारमणकारण तारणेड्य चक्षुःश्रवाभरण कारणहीन शम्भो । माराङ्गसंहरण पापनिवारणेश पाहीन्दुभूषणमहेश गणाग्रगण्य ॥ १९॥ कुमुदः उवाच ।…

श्रीभैरवसर्वफलप्रदस्तोत्रम्

|| श्रीभैरवसर्वफलप्रदस्तोत्रम् || ॐ भ्रं भैरवाय अनिष्टनिवारणाय स्वाहा । मम सर्वे ग्रहाः अनिष्टनिवारणाय स्वाहा । ज्ञानं देहि धनं देहि मम द्रारिद्रयदुःखनिवारणाय स्वाहा । सुतं देहि यशो देहि मम गृहक्लेशनिवारणाय स्वाहा । स्वास्थ्य देहि बलं देहि मम शत्रुनिवारणाय स्वाहा । सिद्धिं देहि जयं देहि मम सर्वॠणनिवारणाय स्वाहा । ॐ भ्रं भैरवाय अनिष्टनिवारणाय स्वाहा । इति श्रीभैरवसर्वफलप्रदस्तोत्रं…

श्रीभैरवपञ्जरकवचम्

|| श्रीभैरवपञ्जरकवचम् || पार्वत्युवाच देव देव महादेव संसार प्रियकारक । पञ्जरं बटुकस्यास्य कथनीयं मम प्रभो ॥ १॥ श्रीशिव उवाच पूर्वम् भस्मासुरत्रासाद् भय विह्वलतां स्वयम् । पठनादेव मे प्राणा रक्षितः परमेश्वरि ॥ २॥ सर्वदुष्टविनाशाय सर्वरोगनिवारणम् । दुःखशान्तिकरं देवि ह्यल्पमृत्युभयापहम् ॥ ३॥ राज्ञां वश्यकरं चैव त्रैलोक्य विजयप्रदम् । सर्वलोकेषु पूज्यश्च लक्ष्मीस्तस्य गृहे स्थिरा ॥ ४॥ अनुष्ठानं कृतं…

श्रीभैरवताण्डवस्तोत्रम्

|| श्रीभैरवताण्डवस्तोत्रम् || श्रीगणेशाय नमः । श्रीउमामहेश्वराभ्यां नमः । श्रीगुरवे नमः । श्रीभैरवाय नमः ॥ अथ श्रीभैरवताण्डवस्तोत्रम् । ॐ चण्डं प्रतिचण्डं करधृतदण्डं कृतरिपुखण्डं सौख्यकरं लोकं सुखयन्तं विलसितवन्तं प्रकटितदन्तं नृत्यकरम् । डमरुध्वनिशङ्खं तरलवतंसं मधुरहसन्तं लोकभरं भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ॥ १॥ चर्चितसिन्दूरं रणभूविदूरं दुष्टविदूरं श्रीनिकरं किङ्किणिगणरावं त्रिभुवनपावं खर्प्परसावं पुण्यभरम् । करुणामयवेशं सकलसुरेशं मुक्तसुकेशं पापहरं…

भेदभङ्गाभिधानस्तोत्रम्

|| भेदभङ्गाभिधानस्तोत्रम् || चतुर्वाहनाभ्यम्बुजाद्भूतवन्तं भवन्तं भवच्छेदकर्तारमुग्रम् । मुखानां चतुष्कं दधानं प्रधानं शिवं सृष्टिकर्तारमीशानमीडे ॥ १॥ उमाङ्कश्रितं स्वं करं चोत्क्षिपन्तं गिरीशोत्तमाङ्गस्थचन्द्रं दिधीर्षुम् । मुहुर्गर्जितं सस्मितं सर्वपूज्यं शिवं विघ्नहर्तारमीशानमीडे ॥ २॥ सुमेरोः समन्तात्सदैवाशु यन्तं सहस्रोस्रभासा नभो भासयन्तम् । जगद्भद्रहेतोर्धृतानेकरूपं शिवं व्याधिहर्तारमीशानमीडे ॥ ३॥ रमाजानकीरुक्मिणीजाम्बवत्याद्यनेकस्वशक्तिस्फुरद्वामभागम् । हृषीकेशरामाघशित्र्वादिसंज्ञं शिवं सर्वदातारमीशानमीडे ॥ ४॥ धनाध्यक्षरूपेण ऋक्थान्यवन्तं कुबेरालकेशादिनामौघवन्तम् । पुलस्त्यान्वयोत्पत्तिभाजं विराजं शिवं…

श्रीभवानीचन्द्रशेखरस्तोत्रम्

|| श्रीभवानीचन्द्रशेखरस्तोत्रम् || (श्रीश‍ृङ्गगिरौ – श्रीभवानीमलहानिकरेश्वरकल्याणोत्सवे) वैवाहिकासनासीनौ वैमानिकवरार्चितौ । वैराग्यदायिनौ दत्तां वैशद्यं मम चेतसः ॥ १॥ भक्तेष्टदाननिरतौ भयवारणदीक्षितौ । भवेतां भव्यसन्तत्यै भवानीचन्द्रशेखरौ ॥ २॥ भरताग्रजसंसेव्यौ भवसागरतारकौ । भर्मभूषौ नमस्यामि भवानीचन्द्रशेखरौ ॥ ३॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीभवानीचन्द्रशेखरस्तोत्रं सम्पूर्णम् ।

भक्तशरणस्तोत्रम्

|| भक्तशरणस्तोत्रम् || ‘ श्रीगणेशाय नमः ॥ आर्द्रान्तःकरणस्त्वं यस्मादीशान भक्तवृन्देषु । आर्द्रोत्सवप्रियोऽतः श्रीकण्ठात्रास्ति नैव सन्देहः ॥ १॥ द्रष्टॄंस्तवोत्सवस्य हि लोकान्यपात्तथा मृत्योः । भा भीरस्त्विति शम्भो मध्ये तिर्यग्गतागतैर्ब्रूषे ॥ २॥ प्रकरोति करुणयाऽऽर्द्रान् शम्भुर्नम्रानिति प्रबोधाय । धर्मोऽयं किल लोकानार्द्रान्कुरुतेऽद्य गौरीश ॥ ३॥ आद्रा नटेशस्य मनोऽब्जवृत्तिरित्यर्थसम्बोधकृते जनानाम् । आर्द्रर्क्ष एवोत्सवमाह शस्तं पुराणजालं तव पार्वतीश ॥ ४॥ बाणार्चने भगवतः…

श्रीपञ्चनदीशाष्टकम्

|| श्रीपञ्चनदीशाष्टकम् || महादेव भवाकार नीलकण्ठ त्रिलोचन । शिवशङ्कर सर्वात्मन् पाहि पञ्चनदीपते ॥ १॥ त्रिपुरान्तक सर्वेश चन्द्रशेखर धूर्जटे । वामदेव क्रतुध्वंसिन् रक्ष पञ्चनदीपते ॥ २॥ देवदेव जगन्नाथ पार्वतीरमणप्रभो । भूतेश शर्व (सर्व) कामारे पाहि पञ्चनदीपते ॥ ३॥ शम्भो पशुपते स्थाणो गङ्गाधर मृडाव्यय । नागाभरण विश्वेश पाहि पञ्चनदीपते ॥ ४॥ पिनाकपाणे श्रीकण्ठ कपालकृतशेखर (कपालधृतशेखर) । अघोर…

पञ्चदेवतास्तोत्रम्

|| पञ्चदेवतास्तोत्रम् || श्रीगणेशाय नमः । गणेशविष्णुसूर्येशदुर्गाख्यं देवपञ्चकम् । वन्दे विशुद्धमनसा जनसायुज्यदायकम् ॥ १॥ एकरूपान् भिन्नमूर्तीन् पञ्चदेवान्नमस्कृतान् । वन्दे विश्णुद्धभावेनेशाम्बेनैकरदाच्युतान् ॥ २॥ कल्याणदायिनो देवान्नमस्कार्यात्महौजसः । विष्णुशम्भुशिवासूयगणेशाख्यान्नमाम्यहम् ॥ ३॥ एकात्मनो भिन्नरूपान् लोकरक्षणतत्परान् । शिवविष्णुशिवासूर्यहेरम्वान् प्रणमाम्यहम् ॥ ४॥ दिव्यरूपानेकरूपान्नानारूपान्नमस्कृतान् । शिवाशङ्करहेरम्बविष्णुसूर्यान्नमाम्यहम् ॥ ५॥ नित्यानानन्दसन्दोहदायिनो दीनपालकान् । शिवाच्युतगणेशेनडुर्गाख्यान् नौम्यहं सुरान् ॥ ६॥ कमनीयतनून्देवान् सेवावश्यान् कृपावतः । शङ्करेनशिवाविष्णुगणेशाख्यान्नमाम्यहम् ॥…

श्रीनीलकण्ठ नमश्शिवायाष्टकम्

|| श्रीनीलकण्ठ नमश्शिवायाष्टकम् || नमो नमः कारणकारणाय जगन्मयायाहितपाशकाय । त्वत्पादपद्माश्रितरक्षकाय श्रीनीलकण्ठाय नमः शिवाय ॥ १॥ ध्यायन्ति ये त्वां यतयः स्तुवन्ति हृदम्बुजे दीपसमप्रकाशम् । नासाग्रविन्यस्तविलोचनाय श्रीनीलकण्ठाय नमः शिवाय ॥ २॥ सर्गस्थितिध्वंसनकारणाय यमादियोगाष्टकसिद्धिदाय । तपस्विनां शीघ्रफलप्रदाय । श्रीनीलकण्ठाय नमः शिवाय ॥ ३॥ वेदादिरूपाय त्रिलोचनाय वेदान्तवेद्याय दिगम्बराय । विभूतिशुभ्राय जटाधराय श्रीनीलकण्ठाय नमः शिवाय ॥ ४॥ उग्राय संसारभयापहाय ज्ञानप्रदायशुसुखप्रदाय…

निराश्रयाष्टकम्

|| निराश्रयाष्टकम् || हे नीलकण्ठ प्रियदेवदेव कैलासवासिन्नटराजराज । गौरीपते हे करुणावतार निराश्रयं मां जगदीश रक्ष ॥ १॥ हे लिङ्गराजेश्वर विश्वनाथ श्मशानवासिन्भवभीतिहन्त । हे रोगशोकापह मुक्तिदातः निराश्रयं मां जगदीश रक्ष ॥ २॥ हे व्याघ्रचर्मावृतयोगिराज कारुण्यपात्राखिललोकबन्धो । मुक्तेश्वर प्रेममयादिदेव निराश्रयं मां जगदीश रक्ष ॥ ३॥ हे पार्वतीवल्लभवामदेव त्रिशूलधारिन् शवभस्मलिप्त । मृत्युञ्जयग्रामपते महात्मन् निराश्रयं मां जगदीश रक्ष ॥…

निग्रहाष्टकम्

|| निग्रहाष्टकम् || श्रीमदप्पय्यदीक्षितविरचितम् । मार्गे सहायं भगवन्तमेव विश्वस्य विश्वाधिक निर्गतोऽस्मि । शास्त्रं प्रमाणं यदि सा विपत्स्या- त्तस्यैव मन्दो मयि यां चिकीर्षेत् ॥ १॥ कान्तारे प्रान्तरे वा मदकुशलकृतौ सान्तरं सान्तरङ्गं मह्यं द्रुह्यन्तमन्तं गमयतु भगवानन्तकस्यान्तकारी । क्षिप्रं विप्राधमस्य क्षिपतु तदुदरस्येव मायाविवर्ता नार्तान्बन्धूनबन्धूनिव मम शिशिराभ्यन्तरान्सन्तनोतु ॥ २॥ सहस्रं वर्तन्तां पथिपथि परे साहसकृतं प्रवर्तन्तां बाधं मयि विविधमप्यारचयितुम् ।…

शेषकृता नागनाथशिवस्तुतिः

|| शेषकृता नागनाथशिवस्तुतिः || विश्वेश विश्व मदनान्तक विविश्वम्भरा धरणकारण शक्तिदायिन् । भर्गान्तकान्तक महेश्वर कृत्तिवासः पाह्याशु माऽखिलजगत्सनकादिपाल ॥ १॥ पाहीश मामकधिया परिपाहि शम्भो दक्षाश्वमेधविधि शिक्षण कामशत्रो । सुत्रामवज्रकरदारण चण्डिकेश गोत्रात्मजासखसुजात पुरां निहन्तः ॥ २॥ पिनाकविलसत्करं दिवसनायकान्तर्गतम् । विनायकसुतप्रियं भजत नागनाथस्तुतम् ॥ ३॥ यामिनीरमणशोभिमस्तकं भामिनीविधृतसामिविग्रहम् । योगिनीगणकृतस्तुतिप्रियं मोहिनीपतिमुपास्महे शिवम् ॥ ४॥ चारुभूधरशिरोविहारिणं भोगिभोगकृतकण्ठभूषणम् । क्षिप्रदग्धपुरकामवैरिणं चन्द्रचूडचरणं भजेऽन्वहम्…

वटसावित्रीची कथा पूजा पद्धत

|| वटसावित्रीची कथा (Vat Savitri Vrat Katha Marathi PDF) || विवाहित स्त्रियांमध्ये अत्यंत लोकप्रिय असलेल्या ज्येष्ठ कृष्ण अमावस्येच्या दिवशी येणाऱ्या सावित्री व्रताची कथा पुढीलप्रमाणे आहे: भद्रा देशात अश्वपती नावाचा एक राजा होता. भद्रा देशाचा राजा अश्वपती याला मूलबाळ नव्हते. बाळाच्या जन्मासाठी त्यांनी मंत्रोच्चारांसह दररोज एक लाखाचा नैवेद्य दिला. हा क्रम अठरा वर्षे चालू राहिला. यानंतर…

ବଟ ସାବିତ୍ରୀ ବ୍ରତ କଥା ଏବଂ ପୂଜା ବିଧି

|| ବଟ ସାବିତ୍ରୀ ପୂଜା ମୁହୂର୍ତ || ଅମାବାସ୍ୟା ତିଥି ଆରମ୍ଭ: 26 ମଇ 2025, ସୋମବାର, 12:12 PM | ଆମାଭାସୀ ତିଥି ଶେଷ: ମେ 27, 2025, ମଙ୍ଗଳବାର, 8:31 ପୂର୍ବାହ୍ନ | || ପୂଜା ବିଧି || ଇସ ପାବନ ଦିନ ସୁବହ ଜଲ୍ଦୀ ଉଠକର ସ୍ନାନ ଆଦି ସେ ନିବୃତ୍ତ ହୋ ଜାଏଂ। ଘର କେ ମନ୍ଦିର ମେଂ ଦୀପ ପ୍ରଜ୍ୱଲିତ କରେଂ। ଇସ ପାବନ ଦିନ ବଟ ବୃକ୍ଷ କୀ…

श्रीनन्दिकेशपञ्चरत्नमालिकास्तुतिः

|| श्रीनन्दिकेशपञ्चरत्नमालिकास्तुतिः || नमज्जनाखिलाशुभाशुशुक्षणिं नगस्थितं नगेन्द्रजापतिप्रियं नराशभङ्गविक्रमम् । नितान्तमीशसन्निधौ च भक्तवर्गसन्नुतं नमामि नन्दिकेश्वरं शिलादजं गणेश्वरम् ॥ १॥ दिगीश्वरार्चिताङ्घ्रि पङ्कजातमद्भुताकृतिं नितान्तशम्भुनर्तनात्तमद्दलं वृषाननम् । दिवाकरक्षपेशवह्नि लोचनत्रयोज्ज्वलं नमामि नन्दिकेश्वरं शिलादजं गणेश्वरम् ॥ २॥ पुरा हि जातु रक्षसामधीश्वरं स्वमाननं हसन्तमीक्ष्य कोपतः शशाप यो वृषेश्वरः । तथैव विष्णुवाहनः प्रशिक्षितश्च लीलया नमामि नन्दिकेश्वरं शिलादजं गणेश्वरम् ॥ ३॥ मुधा परो मुकुन्द एव…

श्रीनटेश्वर भुजङ्गस्तुतिः

|| श्रीनटेश्वर भुजङ्गस्तुतिः || श्रीज्ञानसम्बन्धकृता लोकानाहूय सर्वान् डमरुकनिनदैर्घोरसंसारमग्नान् दत्वाऽभीतिं दयालुः प्रणतभयहरं कुञ्चितं वामपादम् । उद्धृत्येदं विमुक्तेरयनमिति कराद्दर्शयन् प्रत्ययार्थं बिभ्रद्वह्निं सभायां कलयति नटनं यः स पायान्नटेशः ॥ १॥ दिगीशादिवन्द्यं गिरीशानचापं मुरारातिबाणं पुरत्रासहासम् । करीन्द्रादिचर्माम्बरं वेदवेद्यं महेशं सभेशं भजेऽहं नटेशम् ॥ २॥ समस्तैश्च भूतैस्सदा नम्यमाद्यं समस्तैकबन्धुं मनोदूरमेकम् । अपस्मारनिघ्नं परं निर्विकारं महेशं सभेशं भजेऽहं नटेशम् ॥ ३॥…

श्रीनटेशस्तुतिः

|| श्रीनटेशस्तुतिः || श्री भृङ्गिमहर्षिप्रणीता श्रीकैलासे प्रदोषे नटति पुरहरे देवदैत्यादिवन्द्ये पश्यन्त्यां शैलपुत्र्यां नटनमतिमुदा स्वर्वधूसंवृतायाम् । ब्रह्मा तालं च वेणुं कलयति मधवा मद्दलं चक्रपाणिः धित्तान्धितान्धिमित्तां धिमिधिमिधिमितान्धिन्धिमी धिन्धिमीति ॥ १॥ नन्दी मद्दलवाद्यभृद्वितनुते तान्तां तथित्तामिति ब्रह्मा तालरवं तकृत्तकृतत त्तत्तत्तकृत्तामिति । गाने तुम्बुरुनारदौ तनननातानाननातानना शम्भौ नृत्यति स्वर्णसंसदि सदा झञ्झञ्झणञ्झामिति ॥ २॥ चिदम्बरसभायान्तु नृत्तं दृष्ट्वा पिनाकिनः । बहुधाऽऽनम्य भगवान् भृङ्गी…

श्रीनटेश पञ्चरत्नस्तोत्रम्

|| श्रीनटेश पञ्चरत्नस्तोत्रम् || ॥ ध्यानम् ॥ वामे भूधरजा पुरश्च वृषराट् पश्चान्मुनिर्जैमिनिः श्री मद्-व्यास पतञ्जलीत्युभयतः वाय्वादिकोणेषु च । श्रीमत्तिल्लवनैकवासिमखिनः ब्रह्मादिवृन्दारकाः मध्ये स्वर्ण सभापतिर्विजयते हृत्पुण्डरीके पुरे ॥ ॥ अथ श्री नटेश पञ्चरत्नम् ॥ श्रीमच्चिदम्बरनटनात् नटराजराजात् विद्याधिपात् विविधमङ्गलदानशौण्डात् । पूर्णेन्दु सुन्दर मुखात् द्विजराजचूडात् भर्गात्परं किमपि तत्त्वमहं न जाने ॥ १॥ डक्काविभूशितकरात् विषनीलकण्टात् फुल्लारविन्दनयनात् फणिराजवन्द्यात् । व्याघ्रांघ्रि पूज्यचरणात्…

श्रीनटराजकुञ्चितपादसहस्रनामस्तोत्रम्

|| श्रीनटराजकुञ्चितपादसहस्रनामस्तोत्रम् || ॥ श्रीगुरुभ्यो नमः ॥ ॥ श्रीशिवकामसुन्दरीसमेत श्रीनटराजः शरणम् ॥ यस्मात्सर्वं समुत्पन्नं चराचरमिदं जगत् । इदं नमोनटेशाय तस्मै कारुपयर्द्ध्वये ॥ १॥ कैलासशिखरे रम्ये रत्नसिंहासने स्थितम् । शङ्करं करुणामूर्तिं प्रणम्य परया मुदा ॥ २॥ विनयावनता भूत्वा पप्रच्छ परमेश्वरी । भगवन्! भव! सर्वज्ञ! भवतापहराव्यय ॥ ३॥ त्वत्तः श्रुतं मया देव! सर्वं नामसहस्रकम् । नटेशस्यापि नामानि…

श्रीधर्मपुरीरामलिङ्गेश्वरमङ्गलस्तोत्रम्

|| श्रीधर्मपुरीरामलिङ्गेश्वरमङ्गलस्तोत्रम् || रामलिङ्गेश्वराय रामचन्द्रपूजिताय । राजमौलिशोभिताय देव । मङ्गलम् ॥ १॥ दण्डकारुण्यवाहि गौतमी तीरनिलय । धर्मपूरवास । ते साम्ब मङ्गलम् ॥ २॥ पार्वतीयुक्तदेह । पर्वताग्रवास देव । पापवारकाय ते परममङ्गलम् ॥ ३॥ विश्वनाथ । विनुतदेव । विश्वलोकरक्षकाय । वेदशास्त्रविदितदेव । विभव ंअङ्गलम् ॥ ४॥ इति श्री कोरिडे विश्वनाथ शर्मणाविरचितं श्रीशर्मपुरीरामलिङ्गेश्वर मङ्गलस्तोत्रं सम्पूर्णम् ।

द्व्यर्थिषडाननस्तोत्रम्

|| द्व्यर्थिषडाननस्तोत्रम् || दक्षेण हस्तेन गदां दधान क्रौञ्चञ्च वामेन सुसावधानः । स शुक्रजो वोऽवतु कार्तिकेयः षाण्मातुरः साम्बसुतोऽर्यजेयः ॥ १॥ षट्शिरो द्वादशकरो द्विगुणोऽत्रिज एव किम् । सोऽम्बसुतो द्विहस्तोऽत्र सुब्रह्मण्यो मयेक्षितः ॥ २॥ हत्वा बलात्सम्पदमाश्वदैवीं पुष्णाति गोपायति वैश्वदैवीम् । सुपूजितस्त्वं सुमनः स्वभक्तगते नमस्तेऽस्तु सदा विरक्तम् ॥ ३॥ विशेषतस्त्वां भुवि दाक्षिणात्या भजन्ति भक्त्या परयाज तेषाम् । अनुग्रहार्थं द्विभुजस्वरूपं…

द्व्यर्थिरामेश्वरस्तोत्रम्

|| द्व्यर्थिरामेश्वरस्तोत्रम् || भागीरथीपुण्यजलाभिषिक्तो यो ब्रह्महत्याद्यघतः पुनाति । रामेश्वरोऽसौ भरताग्रजन्मसंस्थापितः पातु सदा विपद्भ्यः ॥ १॥ यद्दर्शनं कायिकवाचिकादिपापापहं तापहरं वरं च । रामेश्वरोऽसौ भरताग्रजन्मसंस्थापितः पातु सदा विपद्भ्यः ॥ २॥ त्रिकालसन्दर्शनतोऽपि तृप्तो ददाति सिद्धीरुभयीर्महात्मा । रामेश्वरोऽसौ भरताग्रजन्मसंस्थापितः पातु सदा विपद्भ्यः ॥ ३॥ रुद्राभिषेकप्रिय ईश्वरो यः सर्वार्थदो भाविककामपूरः ॥ रामेश्वरोऽसौ भरताग्रजन्मसंस्थापितः पातु सदा विपद्भ्यः ॥ ४॥ यो बिल्वपत्रैस्त्रिदलैर्भवारिः…

श्रीद्विनेत्रशम्भुस्तुतिः

|| श्रीद्विनेत्रशम्भुस्तुतिः || अवतारेऽस्मिन्कामप्रसक्त्यभावाद्विनेत्रत्वम् । अलमिति तार्तीयं किं नेत्रं शम्भुस्तिरोधत्ते ॥ १॥ समताबोधाय नृणां पदपाथोजप्रणम्राणाम् । गिरिशेनाद्य कृपातस्त्यक्ता वा विषमलोचनता ॥ २॥ अथवा किं बोधयितुं विकारहीनं पदं कृपाम्भोधे । वैरूप्यं मा भूदिति समलोचनतां दधासि मे ब्रूहि ॥ ३॥ द्वे विद्ये श्रुतिमध्ये वेद्ये प्रोक्ते जनानां हि । इममर्थं बोधयितुं नेत्रद्वन्द्वं गुरो धत्से ॥ ४॥ बाह्यं तथान्तरं…

श्रीदूर्वेशस्तोत्रम्

|| श्रीदूर्वेशस्तोत्रम् || (श्रीदूर्वाक्षेत्रे – अरवङ्गुलापरनामके) गणनाथषण्मुखयुतो गिरिजासंश्लेषतुष्टहृदयाब्जः । दूर्वाभिख्यपुरस्थाँल्लोकान् परिपातु भक्तिविनययुतान् ॥ १॥ विद्यानाथ विनीतिभक्तिसहिताँल्लोकान् कृपावारिधे दूर्वाभिख्यपुरस्थितान्करुणया पाहीभवक्त्रं यथा । विद्यायुःसुखयुक्तिशक्तिभिरलंयुक्तान्विधायानिशं शान्त्याद्यैरपि दिव्यमुक्तिपदवीसन्दर्शकैः शङ्कर ॥ २॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीदूर्वेशस्तोत्रं सम्पूर्णम् ।

दशश्लोकीस्तुती साम्बस्तुतिः अथवा साम्बदशकम्

|| दशश्लोकीस्तुती साम्बस्तुतिः अथवा साम्बदशकम् || शिवोत्कर्षदशश्लोकीस्तुतिः साम्बो नः कुलदैवतं पशुपते साम्ब त्वदीया वयं साम्बं स्तौमि सुरासुरोरगगणाः साम्बेन संतारिताः । साम्बायास्तु नमो मया विरचितं साम्बात्परं नो भजे साम्बस्यानुचरोऽस्म्यहं मम रतिः साम्बे परब्रह्मणि ॥ १॥ विष्ण्वाद्याश्च पुरत्रयं सुरगणा जेतुं न शक्ताः स्वयं यं शंभुं भगवन्वयं तु पशवोऽस्माकं त्वमेवेश्वरः । स्वस्वस्थाननियोजिताः सुमनसः स्वस्था बभूवुस्तत स्तस्मिन्मे हृदयं सुखेन…

श्रीत्यागेशस्तुतिः

|| श्रीत्यागेशस्तुतिः || यस्याज्ञया नवच्छिद्रे स्तब्धस्तिष्ठति मारुतः । तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ १॥ शासनात् पावको यस्य सर्वेषामन्तरा स्थितः । तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ २॥ बडबामुखवह्निश्च ज्वलत्यब्धौ यदाज्ञया । तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ ३॥ भूतान्यपि विरुद्धानि मिलितानि यदाज्ञया । तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ ४॥ कलमन्वेति कर्तारं कर्मणां यस्य…

श्रीतेजिनीवनेश्वराष्टोत्तरशतनामावलिः

|| श्रीतेजिनीवनेश्वराष्टोत्तरशतनामावलिः || ॐ ओङ्काररूपाय नमः । ॐ ओङ्कारनिलयाय नमः । ॐ ओङ्कारबीजाय नमः । ॐ ओङ्कारसारसहंसकाय नमः । ॐ ओङ्कारमदमध्याय नमः । ॐ ओङ्कारमन्त्रवाससे नमः । ॐ ओङ्काराध्वरदक्षाय नमः । ॐ ओङ्कारवेदोपनिषदे नमः । ॐ ओङ्कारपरसौख्यदाय नमः । ॐ ओङ्कारमूर्तये नमः । ॐ ओङ्कारवेद्याय नमः । ॐ ओङ्कारभूषणाय नमः । ॐ ओङ्कारवर्णभेदिने नमः ।…

श्रीत्यागराजाष्टकम्

|| श्रीत्यागराजाष्टकम् || चन्द्रार्धचूडाय सदाशिवाय साम्बाय लक्ष्मीपतिसेविताय । भक्तानुरक्षा(क्ता)य महेश्वराय त्यागाधिराजाय नमः शिवाय ॥ १॥ सुमेरुचापाय सुशोभनाय ब्रह्मेन्द्रनारायणवन्दिताय । वाचामतीताय मनोन्मनाय त्यागाधिराजाय नमः शिवाय ॥ २॥ देवादिदेवाय जगत्त्रयाय जन्मादिहीनाय निरञ्जनाय । राजाधिराजाय सुरेश्वराय त्यागाधिराजाय नमः शिवाय ॥ ३॥ वेदान्तवेद्याय विभूषणाय विराजमानाय सुरस्मिताय । शुद्धान्तसूक्ष्माय सुरार्चिताय त्यागाधिराजाय नमः शिवाय ॥ ४॥ रत्नादिभूषाय जटाधराय कल्पान्तहीनाय कलाधराय ।…

श्रीत्यागराजदशकस्तुतिः

|| श्रीत्यागराजदशकस्तुतिः || नीलकन्धर भाललोचन बालचन्द्रशिरोमणे कालकाल कपालमाल हिमालयाचलजापते । शूलदोर्धर मूलशङ्कर मूलयोगिवरस्तुत त्यागराज दयानिधे कमलापुरीश्वर पाहि माम् ॥ १॥ हारकुण्डलमौलिकङ्कण किङ्किणीकृतपन्नग वीरखड्ग कुबेरमित्र कलत्रपुत्रसमावृत । नारदादि मुनीन्द्रसन्नुत नागचर्मकृताम्बर त्यागराज दयानिधे कमलापुरीश्वर पाहि माम् ॥ २॥ भूतनाथ पुरान्तकातुल भुक्तिमुक्तिसुखप्रद शीतलामृतमन्दमारुत सेव्यदिव्यकलेवर । लोकनायक पाकशासन शोकवारण कारण त्यागराज दयानिधे कमलापुरीश्वर पाहि माम् ॥ ३॥ शुद्धमद्धलतालकाहलशङ्खदिव्यरवप्रिय नृत्तगीतरसज्ञ…

तारावलिस्तोत्रम्

|| तारावलिस्तोत्रम् || निरवधिकरुणार्द्रैर्निह्नुताशेषदोषैः अमृतरसझराणां अन्तरङ्गैरपाङ्गैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ १॥ श्रियमवनतिभाजां श्रेयसामादधानैः अमृतरसतरङ्गश्रीधुरीणैरपाङ्गैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ २॥ गजमुखशरजन्मप्रेमगाढोपगूढैः नगदुहितुरमन्दानन्दमूलैरपाङ्गैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ ३॥ गिरिवरतनयायाः केलिकोपे नतस्तत् चरणनखरुचिश्रीवर्मितैरीक्षणैर्द्राक् । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ ४॥ स्मरहरदयनीयास्मीत्युमायां वदन्त्यां दरहसितमुखेन्दुस्तामपाङ्गैः पिबद्भिः…

ഹനുമാന ചാലീസാ പാഠ രാമഭദ്രാചാര്യ

|| ഹനുമാന ചാലീസാ പാഠ രാമഭദ്രാചാര്യ || || ദോഹാ || ശ്രീ ഗുരു ചരന സരോജ രജ, നിജ മനു മുകുരു സുധാരി. ബരനഉഁ രഘുബര ബിമല ജസു, ജോ ദായകു ഫല ചാരി.. ബുദ്ധിഹീന തനു ജാനികേ, സുമിരൗം പവന കുമാര. ബല ബുദ്ധി വിദ്യാ ദേഹു മോഹിം, ഹരഹു കലേശ വികാര.. || ചൗപാഈ || ജയ ഹനുമാന ജ്ഞാന ഗുന സാഗര. ജയ കപീസ തിഹും ലോക ഉജാഗര.. രാമദൂത അതുലിത ബല…

श्रीताण्डवेश्वरस्तोत्रम्

|| श्रीताण्डवेश्वरस्तोत्रम् || वृथा किं संसारे भ्रमथ मनुजा दुःखबहुले पदाम्भोजं दुःखप्रशमनमरं संश्रयत मे । इतीशानस्सर्वान्परमकरुणानीरधिरहो पदाब्जं ह्युद्धृत्याबुजनिभ करेणोपदिशति ॥ १॥ संसारानलतापतप्त हृदयास्सर्वे जवान्मत्पदं सेवध्वं मनुजा भयं भवतु मा युष्माकमित्यद्रिशः । हस्तेऽग्निं दधदेष भीतिहरणं हस्तं च पादाम्भुजं ह्युद्धृत्योपदिशत्यहो करसरोजातेन कारुण्यधिः ॥ २॥ ताण्डवेश्वर ताण्डवेश्वर ताण्डवेश्वर पाहि माम् । ताण्डवेश्वर ताण्डवेश्वर ताण्डवेश्वर रक्ष माम् ॥ ३॥ गाण्डिवेश्वर…

जयस्तुतिः अथवा शिवचामरस्तोत्रम्

|| जयस्तुतिः अथवा शिवचामरस्तोत्रम् || जय सर्वजनाधीश जय गौरीपते शिव । जय देव महादेव जयगङ्गाधरेश्वर ॥ १॥ जय दग्धपुराध्यक्ष जय कालान्तकारक । जय कामविरामेश जय भक्तानुकम्पक ॥ २॥ जय त्रैलोक्यसंरक्षिन् जय निर्गुण सद्गुण । जयानन्तगुणारम्भ जय घोर महेश्वर ॥ ३॥ जय चन्द्रकलाक्रान्त जय नागेन्द्रभूषण । जय पुङ्गवसत्केतो जय त्र्यक्ष महेश्वर ॥ ४॥ जयान्तकरिपो शम्भो जय…

जम्बुनाथाष्टकम्

|| जम्बुनाथाष्टकम् || । श्री श्रीधरवेङ्कटेशार्येण विरचितम् । कश्चन जगतां हेतुः कपर्दकन्दलितकुमुदजीवातुः । जयति ज्ञानमहीन्दुर्जन्ममृतिक्लांतिहरदयाबिन्दुः ॥ १॥ श्रितभृतिभद्धपताकः कलितोत्पलवननवमदोद्रेकः । अखिलाण्डमातुरेकः सुखयत्वस्मांस्तपःपरीपाकः ॥ २॥ कश्चन कारुण्यझरः कमलाकुचकलशकषणनिशितशरः । श्रीमान् दमितत्रिपुरः श्रितजंभूपरिसरश्चकास्तु पुरः ॥ ३॥ शमितस्मरदवविसरश्शक्राद्याशास्यसेवनावसरः । करिवनघनभाग्यभरो गिरतु मलं मम मनस्सरश्शफरः ॥ ४॥ गृहिणीकृतवैकुण्ठं गेहितजंभूमहीरुडुपकण्ठम् । दिव्यं किमप्यकुण्ठं तेजः स्तादस्मदवनसोत्कण्ठम् ॥ ५॥ कृतशमनदर्पहरणं कृतकेतरफणितिचारिरथचरणम् ।…

जन्मसागरोत्तारणस्तोत्रम्

|| जन्मसागरोत्तारणस्तोत्रम् || श्रीगणेशाय नमः ॥ श्रीरामपूजितपदाम्बुज चापपाणे श्रीचक्रराजकृतवास कृपाम्बुराशे । श्रीसेतुमूलचरणप्रवणान्तरङ्ग श्रीरामनाथ लघु तारय जन्मवार्धिम् ॥ १॥ नम्राधवृन्दविनिवारणबद्धदीक्ष शैलाधिराजतनयापरिरब्धवर्ष्मन् । श्रीनाथमुख्यसुरवर्यनिषेविताङ्घ्रे श्रीरामनाथ लघु तारय जन्मवार्धिम् ॥ २॥ शूराहितेभवदनाश्रितपार्श्वभाग क्रूरारिवर्गविजयप्रद शीघ्रमेव । साराखिलागमतदन्तपुराणपङ्क्तेः श्रीरामनाथ लघु तारय जन्मवार्धिम्॥ ३॥ शब्दादिमेषु विषयेषु समीपगेष्व- प्यासक्तिगन्धरहितान्निजपादनम्रान् । कुर्वाण कामदहनाक्षिलसल्ललाट श्रीरामनाथ लघु तारय जन्मवार्धिम् ॥ ४॥ इति जन्मसागरोत्तारणस्तोत्रं सम्पूर्णम् ।

श्रीचिदम्बरेशस्तुतिः

|| श्रीचिदम्बरेशस्तुतिः || कल्याणमूर्तिं कनकाद्रिचापं कान्तासमाक्रान्तनिजार्धदेहम् । कालान्तकं कामरिपुं पुरारिं चिदम्बरेशं हृदि भावयामि ॥ १॥ विश्वाधिकं विष्णुमुखैरुपास्यं त्रिलोचनं चन्द्रकलावतंसम् । उमापतिं पापहरं प्रशान्तं चिदम्बरेशं हृदि भावयामि ॥ २॥ विश्वेश्वरं नित्यमनन्तरूपं बालेन्दुचूडं सुरवन्द्यपादम् । पतिं पशूनां हृदि सन्निविष्टं चिदम्बरेशं हृदि भावयामि ॥ ३॥ विशालनेत्रं परिपूर्णगात्रं गौरीकलत्रं सुरवैरिशत्रुम् । कुबेरमित्रं जगदेकपात्रं चिदम्बरेशं हृदि भावयामि ॥ ४॥ कैलासवासं…

चन्द्रमौलीशस्तोत्रम्

|| चन्द्रमौलीशस्तोत्रम् || श्रीगणेशाय नमः । ओङ्कारजपरतानामोङ्कारार्थं मुदा विवृण्वानम् । ओजःप्रदं नतेभ्यस्तमहं प्रणमामि चद्रमौलीशम् ॥ १॥ नम्रसुरासुरनिकरं नलिनाहङ्कारहारिपदयुगलम् । नमदिष्टदानधीरं सततं प्रणमामि चन्द्रमौलीशम् ॥ २॥ मननाद्यत्पदयोः खलु महतीं सिद्धिं जवात्प्रपद्यन्ते । मन्देतरलक्ष्मीप्रदमनिशं प्रणमामि चद्रमौलीशम् ॥ ३॥ शितिकण्ठमिन्दुदिनकरशुचिलोचनमम्बुजाक्षविधिसेव्यम् । नतमतिदानधुरीणं सततं प्रणमामि चद्रमौलीशम् ॥ ४॥ वाचो विनिवर्तते यस्मादप्राप्य सह हृदैवेति । गीयन्ते श्रुतिततिभिस्तमहं प्रणमामि चद्रमौलीशम् ॥…

चन्द्रचूडालाष्टकम्

|| चन्द्रचूडालाष्टकम् || श्रीगणेशाय नमः ॥ यमनियमाद्यङ्गयुतैर्योगैर्यत्पादपङ्कजं द्रष्टुम् । प्रयतन्ते मुनिवर्यास्तमहं प्रणमामि चन्द्रचूडालम् ॥ १॥ यमगर्वभञ्जनचणं नमतां सर्वेष्टदानधौरेयम् । शमदमसाधनसम्पल्लभ्यं ग्रणमामि, चन्द्रचूडालम् ॥ २॥ यं द्रोणबिल्वमुख्यैः पूजयतां द्वारि मत्तमातङ्गाः । कण्ठे लसन्ति विद्यास्तमहं प्रणमामि चन्द्रचूडालम् ॥ ३॥ नलिनभवपद्मनेत्रप्रमुखामरसेव्यमानपदपद्मम् । नतजनविद्यादानप्रवणं प्रणमामि चन्द्रचूडालम् ॥ ४॥ नुतिभिर्देववराणां मुखरीकृतमन्दिरद्वारम् । स्तुतमदिमवाक्ततिभिः सततं प्रणमामि चन्द्रचूडालम् ॥ ५॥ जन्तोस्तव पादपूजनकरणात्करपद्मगाः…

चतुष्षष्ट्यष्टकम्

|| चतुष्षष्ट्यष्टकम् || सूर्योवाच देवेदेव जगताम्पते विभो भर्ग भीम भव चन्द्रभूषण । भूतनाथ भवभीतिहारक त्वां नतोऽस्मि नतवाञ्छितप्रद ॥ १॥ चन्द्रचूड मृड दूर्जटे हर त्र्यक्ष दक्षशततन्तुशातन । शान्त शाश्वत शिवापते शिव त्वां नतोऽस्मि नतवाञ्छितप्रद ॥ २॥ नीललोहित समीहितार्थद द्व्येकलोचन विरूपलोचन । व्योमकेश पशुपाशनाशन त्वां नतोऽस्मि नतवाञ्छितप्रद ॥ ३॥ वामदेव शितिकण्ठ शूलभृच्चन्द्रशेखर फणीन्द्रभूषण । कामकृत्पशुपते महेश्वर त्वां…

श्रीनीलकण्ठदीक्षितप्रणीता चतुःषष्टिलीलास्तुतिः

|| श्रीनीलकण्ठदीक्षितप्रणीता चतुःषष्टिलीलास्तुतिः || शिवलिलार्णवतः क्व ते दया वाङ्मनसातिभूमिः क्व दुर्लभो वा त्वदवाप्त्युपायः । अहो जितं सुन्दरनाथ! मर्त्त्यैरहो जितं तत्र च दीनदीनैः ॥ १॥ गुप्तं वृथा कोटिभिरागमानां गुप्तं वृथाहो गुरुभिः पुराणैः । कोणे यदत्र त्वमिहानुकम्पाकोशालयद्वारमपावृणोषि ॥ २॥ अस्माभिरज्ञानपि तारयद्भिः कियान् प्रकर्षो विबुधेषु कार्यः । इति त्वया चिन्तयता किमीश! प्रतारिता स्मस्त्रिदिवार्पणेन ॥ ३॥ पाण्ड्यप्रियं त्वां विदती…

उद्दालककृता घुसृणेश्वरशिवस्तुतिः

|| उद्दालककृता घुसृणेश्वरशिवस्तुतिः || पार्वती कुत्र क्षेत्रमिदं शम्भो त्रिनेत्रप्रियकारकम् । तत्क्षेत्रमहिमापारकथाश्रवणलालसम् ॥ ३५॥ मम चित्तमभूद्देव दयया तद्वदस्व माम् । शिवो गौरीवचः श्रुत्वा तत्क्षेत्रं प्राह शङ्करः ॥ ३६॥ ईश्वरः भीमरथ्या उदग्भागे त्रिंशत्क्रोशोपरि स्थितम् । शूलपातं स्थितं तीर्थं तत्रास्त्येव शिवालयः ॥ ३७॥ शूलपातसरस्तीरे तताप परमं तपः । उद्दालको मुनिर्नाम्ना ज्ञानार्थं शङ्करस्तदा ॥ ३८॥ समभ्यर्च्य महादेवं बिल्वपत्रैर्महेश्वरम् ।…

गौरीश्वरस्तुतिः

|| गौरीश्वरस्तुतिः || श्रीगणेशाय नमः ॥ दिव्यं वारि कथं यतः सुरधुनी मौलौ कथं पावको दिव्यं तद्धि विलोचनं कथमहिर्दिव्यं स चाङ्गे तव । तस्माद्द्यूतविधौ त्वयाद्य मुषितो हारः परित्यज्यता- मित्थं शैलभुवा विहस्य लपितः शम्भुः शिवायास्तु वः ॥ १॥ श्रीकण्ठस्य सकृत्तिकाऽऽर्तभरणी मूर्तिः सदा रोहिणी ज्येष्ठा भाद्रपदा पुनर्वसुयुता चित्रा विशाखान्विता । दिश्यादक्षतहस्तमूलघटिताषाढा मघालङ्कृता श्रेयो वैश्रवणान्विता भगवतो नक्षत्रपालीव वः ॥…

श्रीगौरीशस्तुतिः

|| श्रीगौरीशस्तुतिः || (शिष्याशीर्वचनात्मकस्तवाः) बालं चाममहीमहेन्द्रसुकृतक्षीराब्धिमध्योद्भवं सोमं सोमशिशूत्तमाङ्ग सततं मौलौ निधायादरात् । श्रीमत्कृष्णमहीपसंज्ञमनिशं सिंहासनाध्यासिनं विद्याऽऽयुर्धननीतिभिः प्रतिपदं गौरीश संवर्धय ॥ १॥ जित्वा मृत्युमथापमृत्युमखिलान् रोगांश्च हृत्वानिशं प्राणम्राखिललोकरक्षणविधावाबद्धदीक्ष प्रभो । श्रीमत्कृष्णमहीपतिं ससहजं सिंहासनाध्यासिनं मार्कण्डेयमिवादरेण सततं गौरीश संवर्धय ॥ २॥ शौर्यौदार्यमुखान्गुणाननितरप्राप्यान्ददत्सर्वदा प्रालेयाचलसेतुमध्यविलसद्भूपालवर्येड्यताम् । दीर्घायुष्यमरोगतामपि ददच्छ्रीकृष्णभूपोत्तमं मात्राद्यैः सततं कृपाजलनिधे गौरीश संवर्धय ॥ ३॥ सेनाधीशसुमन्त्रिभृत्यसहितं नव्योपमन्युं प्रभो कृत्वा दीनजनावनैकनिपुणं कारुण्यवारान्निधे ।…

गौरीगिरीशस्तोत्रम्

|| गौरीगिरीशस्तोत्रम् || श्रीगणेशाय नमः । चन्द्रार्धप्रविभासिमस्तकतटौ तन्द्राविहीनौ सदा भक्तौधप्रतिपालने निजतनुछायाजितार्कायुतौ । श‍ृङ्गाद्रिस्थविवाहमण्डपगतौ कारुण्यवारान्निधी कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ १॥ अन्योन्यार्च्चनतत्परौ मधुरवाक्सन्तोषितान्योन्यकौ चन्द्रार्धाञ्चितशेखरौ प्रणमतामिष्टार्थदौ सत्वरम् । श‍ृङ्गाद्रिस्थविवाहमण्डपगतौ श‍ृङ्गारजन्मावनी कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ २॥ सौदर्येण परस्परं प्रमुदितावन्योन्यचित्तस्थितौ राकाचन्द्रसमानवक्त्रकमलौ पादाब्जकालङ्कृतौ । श‍ृङ्गाद्रिस्थविवाहमण्डपगतौ गङ्गातटावासिनौ कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ ३॥ सिंहोक्षाग्र्यगती महोन्नतपदं सम्प्रापयन्तौ नता-…

गोष्ठेश्वराष्टकम्

|| गोष्ठेश्वराष्टकम् || सत्यज्ञानमनन्तमद्वयसुखाकारं गुहान्तःस्थित- श्रीचिद्व्योम्नि चिदर्करूपममलं यद् ब्रह्म तत्त्वं परम् । निर्बीजस्थलमध्यभागविलसद्गोष्ठोत्थवल्मीक- सम्भूतं सत् पुरतो विभात्यहह तद्गोष्ठेशलिङ्गात्मना ॥ १॥ सर्वज्ञत्वनिदानभूतकरुणामूर्तिस्वरूपामला चिच्छक्तिर्जडशक्तिकैतववशात् काञ्चीनदीत्वं गता । वल्मीकाश्रयगोष्ठनायकपरब्रह्मैक्यकर्त्री मुहुः नृणां स्नानकृतां विभाति सततं श्रीपिप्पिलारण्यगा ॥ २॥ श्रीमद्राजतशैलश‍ृङ्गविलसच्छ्रीमद्गुहायां मही- वार्वह्न्याशुगखात्मिकी विजयते या पञ्चलिङ्गाकृतिः । सैवाशक्तजनेषु भूरिकृपया श्रीपिप्पिलारण्यगे वल्मीके किल गोष्ठनायकमहालिङ्गात्मना भासते ॥ ३॥ यत्राद्याप्यणिमादिसिद्धिनिपुणाः सिद्धेश्वराणां गणाः तत्तद्दिव्यगुहासु सन्ति…

Join WhatsApp Channel Download App