Misc

धर्मदेवता स्तोत्रम् (वराहपुराणे)

Dharma Devata Stotram Varaha Puranam Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| धर्मदेवता स्तोत्रम् (वराहपुराणे) – Dharma Devata Stotram PDF ||

देवा ऊचुः ।

नमोऽस्तु शशिसङ्काश नमस्ते जगतः पते ।
नमोऽस्तु देवरूपाय स्वर्गमार्गप्रदर्शक ।
कर्ममार्गस्वरूपाय सर्वगाय नमो नमः ॥ १ ॥

त्वयेयं पाल्यते पृथ्वी त्रैलोक्यं च त्वयैव हि ।
जनस्तपस्तथा सत्यं त्वया सर्वं तु पाल्यते ॥ २ ॥

न त्वया रहितं किञ्चिज्जगत्स्थावरजङ्गमम् ।
विद्यते त्वद्विहीनं तु सद्यो नश्यति वै जगत् ॥ ३ ॥

त्वमात्मा सर्वभूतानां सतां सत्त्वस्वरूपवान् ।
राजसानां रजस्त्वं च तामसानां तम एव च ॥ ४ ॥

चतुष्पादो भवान् देव चतुःशृङ्गस्त्रिलोचनः ।
सप्तहस्तिस्त्रिबन्धश्च वृषरूप नमोऽस्तु ते ॥ ५ ॥

त्वया हीना वयं देव सर्व उन्मार्गवर्तिनः ।
तन्मार्गं यच्छ मूढानां त्वं हि नः परमागतिः ॥ ६ ॥

एवं स्तुतस्तदा देवैर्वृषरूपी प्रजापतिः ।
तुष्टः प्रसन्नमनसा शान्तचक्षुरपश्यत ॥ ७ ॥

दृष्टमात्रास्तु ते देवाः स्वयं धर्मेण चक्षुषा ।
क्षणेन गतसंमोहाः सम्यक्सद्धर्मसंहिताः ॥ ८ ॥

असुरा अपि तद्वच्च ततो ब्रह्मा उवाच तम् ।
अद्यप्रभृति ते धर्म तिथिरस्तु त्रयोदशी ॥ ९ ॥

यस्तामुपोष्य पुरुषो भवन्तं समुपार्जयेत् ।
कृत्वा पापसमाहारं तस्मान्मुञ्चति मानवः ॥ १० ॥

यच्चारण्यमिदं धर्म त्वया व्याप्तं चिरं प्रभो ।
ततो नाम्ना भविष्ये तद्धर्मारण्यमिति प्रभो ॥ ११ ॥

चतुस्त्रिपाद्द्व्येकपाच्च प्रभो त्वं
कृतादिभिर्लक्ष्यसे येन लोकैः ।
तथा तथा कर्मभूमौ नभश्च
प्रायोयुक्तः स्वगृहं पाहि विश्वम् ॥ १२ ॥

इत्युक्तमात्रः प्रपितामहोऽधुना
सुरासुराणामथ पश्यतां नृप ।
अदृश्यतामगमत् स्वालयांश्च
जग्मुः सुराः सवृषा वीतशोकाः ॥ १३ ॥

धर्मोत्पत्तिं य इमां श्रावयीत
तदा श्राद्धे तर्पयेत पितॄंश्च ।
त्रयोदश्यां पायसेन स्वशक्त्या
स स्वर्गगामी तु सुरानुपेयात् ॥ १४ ॥

इति श्रीवराहपुराणे भगवच्छास्त्रे द्वात्रिंशोऽध्याये धर्मदेवता स्तोत्रम् ॥

Found a Mistake or Error? Report it Now

धर्मदेवता स्तोत्रम् (वराहपुराणे) PDF

Download धर्मदेवता स्तोत्रम् (वराहपुराणे) PDF

धर्मदेवता स्तोत्रम् (वराहपुराणे) PDF

Leave a Comment

Join WhatsApp Channel Download App