Download HinduNidhi App
Misc

द्वादश ज्योतिर्लिंग स्तोत्र

Dwadasa Jyotirlinga Stotra Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

|| द्वादश ज्योतिर्लिंग स्तोत्र ||

सौराष्ट्रदैशे वसुधावकाशे
ज्योतिर्मयं चन्द्रकलावतम्सम्।

भक्तिप्रदानाय कृतावतारं
तं सोमनाथं शरणं प्रपद्ये।

श्रीशैलशृङ्गे विविधप्रसङ्गे
शेषाद्रिशृङ्गेऽपि सदा वसन्तम्।

तमर्जुनं मल्लिकपूर्वमेनं
नमामि संसारसमुद्रसेतुम्।

अवन्तिकायां विहितावतारं
मुक्तिप्रदानाय च सज्जनानाम्।

अकालमृत्योः परिरक्षणार्थं
वन्दे महाकालमहं सुरेशम्।

कावेरिकानर्मदयोः पवित्रे
समागमे सज्जनतारणाय।

सदैव मान्धातृपुरे वसन्तम्
ओङ्कारमीशं शिवमेकमीडे।

पूर्वोत्तरे पारलिकाभिधाने
सदाशिवं तं गिरिजासमेतम्।

सुरासुराराधितपादपद्मं
श्रीवैद्यनाथं सततं नमामि।

आमर्दसंज्ञे नगरे च रम्ये
विभूषिताङ्गं विविधैश्च भोगैः।

सद्भुक्तिमुक्तिप्रदमीशमेकं
श्रीनागनाथं शरणं प्रपद्ये।

सानन्दमानन्दवने वसन्तम्
आनन्दकन्दं हतपापवृन्दम्।

वाराणसीनाथमनाथनाथं
श्रीविश्वनाथं शरणं प्रपद्ये।

यो डाकिनीशाकिनिकासमाजे
निषेव्यमानः पिशिताशनैश्च।

सदैव भीमादिपदप्रसिद्धं
तं शङ्करं भक्तहितं नमामि।

श्रीताम्रपर्णीजलराशियोगे
निबद्ध्य सेतुं निशि बिल्वपत्रैः।

श्रीरामचन्द्रेण समर्चितं तं
रामेश्वराख्यं सततं नमामि।

सिंहाद्रिपार्श्वेऽपि तटे रमन्तं
गोदावरीतीरपवित्रदेशे।

यद्दर्शनात्पातकजातनाशः
प्रजायते त्र्यंबकमीशमीडे।

हिमाद्रिपार्श्वेऽपि तटे रमन्तं
सम्पूज्यमानं सततं मुनीन्द्रैः।

सुरासुरैर्यक्षमहोरगाद्यैः
केदारसंज्ञं शिवमीशमीडे।

एलापुरीरम्यशिवालयेऽस्मिन्
समुल्लसन्तं त्रिजगद्वरेण्यम्।

वन्दे महोदारतरस्वभावं
सदाशिवं तं धिषणेश्वराख्यम्।

एतानि लिङ्गानि सदैव मर्त्याः
प्रातः पठन्तोऽमलमानसाश्च।

ते पुत्रपौत्रैश्च धनैरुदारैः
सत्कीर्तिभाजः सुखिनो भवन्ति।

Found a Mistake or Error? Report it Now

Download HinduNidhi App
द्वादश ज्योतिर्लिंग स्तोत्र PDF

Download द्वादश ज्योतिर्लिंग स्तोत्र PDF

द्वादश ज्योतिर्लिंग स्तोत्र PDF

Leave a Comment