Shri Ganesh

दण्डकारण्यम्कृता श्रीगजाननस्तुतिः

Gajananastutih Dandakaranyamkrrita Sanskrit

Shri GaneshStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| दण्डकारण्यम्कृता श्रीगजाननस्तुतिः ||

॥ श्रीगणेशाय नमः ॥

दण्डकारण्यमुवाच ।
नमस्ते गजवक्त्राय गणेशाय महोदर ।
ब्रह्मणे ब्रह्मपालाय विघ्नेशाय नमो नमः ॥ ३८॥

हेरम्बाय चतुर्बाहुधराय कञ्जपाणये ।
पाशाङ्कुशधरायैव परेशाय नमो नमः ॥ ३९॥

अनादये च सर्वेषामादिरूपाय ते नमः ।
ज्येष्ठानां ज्येष्ठरूपाय ज्येष्ठाय वै नमो नमः ॥ ४०॥

स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च ।
सिद्धिबुद्धिप्रदात्रे ते मूषकध्वजिने नमः ॥ ४१॥

मूषकोपरिसंस्थाय गणेशाय परात्मने ।
नानामायाप्रचालाय मयूरेशाय ते नमः ॥ ४२॥

नायकानां विशेषेण नायकाय विनायक ।
नायकैर्वर्जितायैव नायकत्वप्रदायिने ॥ ४३॥

विघ्नेशाय महाविघ्नधारिणे सर्वदायिने ।
पददात्रे तथा हन्त्रे विघ्नेशैस्ते नमो नमः ॥ ४४॥

अमेयशक्तये तुभ्यं सर्वपूज्याय ते नमः ।
किं स्तौमि त्वां गणाधीश योगाकारस्वरूपिणम् ॥ ४५॥

अधुना वरदोऽसि त्वं तदा मे नाम सार्थकम् ।
कुरु नित्यं वस स्वामिन् मम देहे गजानन ॥ ४६॥

भक्तिं देहि त्वदीयां मे सदा ब्रह्मप्रकाशिनीम् ।
तेनाऽहं कृतकृत्यश्च भविष्यामि गजानन ॥ ४७॥

एवमुक्त्वा गणेशानं प्रणनाम कृताञ्जलिः ।
भक्तिभावसमायुक्तं तञ्जगाद गजाननः ॥ ४८॥

(फलश्रुतिः)
श्रीगजानन उवाच ।
त्वया कृतमिदं स्तोत्रं मदीयं सर्वसिद्धिदम् ।
भविष्यति महारण्य भुक्तिमुक्तिप्रदं परम् ॥ ४९॥

त्वयोक्तं सफलं सर्वं भविष्यति सदा प्रियम् ।
मामेव सर्वभावेन भजिष्यसि न संशयः ॥ ५०॥

नानावतारवांश्चैव त्वद्देहस्थोऽहमञ्जसा ।
भविष्यामि गणेशोक्त्वांऽतर्दधे देवसत्तमाः ॥ ५१॥

अतो गणेशक्षेत्रं तु दण्डकारण्यमुत्तमम् ।
सकलं तत्र सेवार्थं देवास्तस्य समाययुः ॥ ५२॥

तेषां क्षेत्राणि देवेशा दण्डकारण्यगानि तु ।
तेषु स्थिता विशेषेण भजन्ते गणनायकम् ॥ ५३॥

सर्वेष्वरण्यदेशेषु गणेशः प्रतितिष्ठति ।
दण्डकारण्यमध्ये स विशेषेणावतारकृत् ॥ ५४॥

दण्डकारण्यकं सर्वं गणेशक्षेत्रमुच्यते ।
मयूरक्षेत्रं तन्मध्ये भिन्नं स्वानन्दवाचकम् ॥ ५५॥

इति दण्डकारण्यम्कृता श्रीगजाननस्तुतिः सम्पूर्णा ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download दण्डकारण्यम्कृता श्रीगजाननस्तुतिः PDF

दण्डकारण्यम्कृता श्रीगजाननस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App