Shri Ganesh

रामकृता श्रीगणनाथस्तुतिः

Gananathastutih Ramakrrita Sanskrit

Shri GaneshStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| रामकृता श्रीगणनाथस्तुतिः ||

॥ श्रीगणेशाय नमः ॥

राम उवाच ।
नमस्ते गणनाथाय भक्तानन्दविवर्धन ।
भक्तिप्रियाय देवाय हेरम्बाय नमो नमः ॥ ४०॥

वेदान्तवेद्यरूपाय मनोवाणीमयाय च ।
मनोवाणीविहीनाय योगाकाराय ते नमः ॥ ४१॥

गजवक्त्राय वै तुभ्यं निर्गुणात्मप्रधारिणे ।
सगुणाय च कण्ठाधो नराकाराय ते नमः ॥ ४२॥

अनादये च पूज्याय सर्वेषां सर्वदायिने ।
आदिपूज्याय विघ्नेश नानाविघ्नप्रचालक ॥ ४३॥

विघ्नहन्त्रे सुभक्तानां विघ्नकर्त्रे दुरात्मनाम् ।
सदा स्वानन्दनाथाय ढुण्ढिराजाय ते नमः ॥ ४४॥

वक्रतुण्डाय ते नाथ नमो लम्बोदराय वै ।
सततं शान्तिरूपाय शान्तिदाय नमो नमः ॥ ४५॥

महोदराय सिद्धेश्च बुद्धेश्च पतये नमः ।
नानैश्वर्यप्रदात्रे ते भ्रमदाय नमो नमः ॥ ४६॥

नानाज्ञानप्रभेदैश्च मोहकर्त्रे नमो नमः ।
सुभक्तानां सदा नाथ भ्रममोहादिहारिणे ॥ ४७॥

नानादैत्यनिहन्त्रे च देवानां मदहारिणे ।
सुरासुरमयायैव ब्रह्मेशाय नमो नमः ॥ ४८॥

सर्वत्र योगरूपेण संयोगायोगहीनतः ।
संस्थितं तं कथं स्तौमि त्वां विघ्नेश वद प्रभो ॥ ४९॥

यं समर्था गणाध्यक्ष योगिनः शेषकादयः ।
शिवादयश्च वेदा वै स्तौतुं न प्रभवन्ति ते ॥ ५०॥

तं किं स्तौमि गणाधीशमतस्त्वां प्रणतोऽभवम् ।
तेन तुष्टश्च मां नाथ पालयस्व त्वदाश्रितम् ॥ ५१॥

एवं संस्तुवतस्तस्य भक्तिभावेन मानद ।
भक्त्या रोमोद्गमः प्राप्तः कण्ठरोधो बभूव ह ॥ ५२॥

ननर्त परमानन्दयुक्तोऽसौ भार्गवाग्रणीः ।
जय विघ्नेश हेरम्ब गणेशेति वदंस्तदा ॥ ५३॥

तं तथा भक्तिसम्मग्नं वीक्ष्य देवो गजाननः ।
उवाच साश्रुनेत्रश्च सरोमाञ्चः प्रजापते ॥ ५४॥

(फलश्रुतिः)
राम राम महाभाग श‍ृणु मे परमं वचः ।
धन्योऽसि सर्वभावेन भक्तो मे मग्नतां गतः ॥ ५५॥

त्वया कृतमिदं स्तोत्रं भवेत् भक्तिरसप्रदम् ।
पठिष्यति च यश्चैतच्छृणुयात् सततं परम् ॥ ५६॥

तस्याऽहं सकलां बाधां नाशयिष्यामि नित्यदा ।
इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दगो भवेत् ॥ ५७॥

यद्यच्चिन्तयति प्राज्ञ तत्तद्दास्यामि केशव ।
मम मान्यः सदा सोऽपि भविता नात्र संशयः ॥ ५८॥

परशुं मे गृहाण त्वं तेन मत्तौल्यगो भवेः ।
जेष्यसि त्वं महावीरमर्जुनं राजभिर्वृतम् ॥ ५९॥

निःक्षत्रियां तथा पृथ्वीं करिष्यसि न संशयः ।
एकविंशतिवारं त्वं सदा जयसमन्वितः ॥ ६०॥

नाम ते सर्वविख्यातं भविष्यति शुभप्रदम् ।
उक्तं परशुरामेति स्मरणेन सुखप्रदम् ॥ ६१॥

यज्ञान् कृत्वा महाभाग यशः संस्थाप्य भूतले ।
शान्तियोगस्थभावेन मां भजिष्यसि नित्यदा ॥ ६२॥

इति रामकृता श्रीगणनाथस्तुतिः सम्पूर्णा ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download रामकृता श्रीगणनाथस्तुतिः PDF

रामकृता श्रीगणनाथस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App